44069: तत्र नियुक्तः¶
Padacheda: तत्र | S | 0 | 0 |
नियुक्तः | S | 1 | 1 |
Sutrartha¶
‘नियुक्तः’ (= अधिकृतः) अस्मिन् अर्थे सप्तमीसमर्थात् ठक्-प्रत्यय भवति ।
‘नियुक्तः’ इत्युक्ते अधिकृतः / अधिकाररूपेण स्थापितः / नियोजितः । यस्मिन् स्थाने कश्चन मनुष्यः किञ्चन कार्यम् कर्तुमधिकाररूपेण स्थापितः अस्ति, तत्र तस्य मनुष्यस्य निर्देशं कर्तुम् स्थानवाचिशब्दात् ठक्-प्रत्ययः भवति । यथा - 1) शुल्कशालायां नियुक्तः शौल्कशालिकः । शुल्कशालायाम् शुल्कग्रहणकार्यार्थम् यः अधिकृतः अस्ति, सः शौल्कशालिकः अस्ति इत्युच्यते । 2) द्वारे नियुक्तः सः दौवारिकः । प्रक्रिया इयम् - द्वार + ठक् → द्वार + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → दौवार + इक [द्वारादीनां च (7.3.4) इति ऐच्-आगमः] → दौवार् + इक [यस्येति च (6.4.148) इति अकारलोपः] → दौवारिक । 3) आपणे नियुक्तः सः आपणिकः । 4) आकरे नियुक्तः सः आकरिकः । (आकरः इत्युक्ते शुल्कशाला) ज्ञातव्यम् - पूर्वस्मिन् सूत्रे तदस्मै दीयते नियुक्तम् (4.4.66) इत्यत्र ‘नियुक्तम्’ शब्दः प्रयुक्तः अस्ति, अतः तस्मात् एव अत्र अनुवृत्तिः किमर्थम् न क्रियते, अस्मिन् सूत्रे पुनः ‘नियुक्त’ इति शब्दस्य प्रयोगः किमर्थम् कृतः अस्ति - इति प्रश्नः प्रायः उद्भवति । अस्य उत्तरार्थम् न्यासकारः वदति - ‘अर्थभेदात्। न तस्य हि अव्यभिचारलक्षणो नित्यभावः अर्थः’ । इत्युक्ते, तदस्मै दीयते नियुक्तम् (4.4.66) इत्यत्र ‘नियुक्तम्’ शब्दः ‘अव्यभिचार’ इत्यस्मिन् अर्थे प्रयुक्तः अस्ति, वर्तमानसूत्रे च ‘अधिकारः’ अस्मिन् अर्थे प्रयुक्तः अस्ति । द्वौ एतौ भिन्नौ अर्थौ स्तः । अनुवृत्तिः क्रियते चेत् तु अर्थभेदः न सम्भवति । अतः अत्र अनुवृत्तिः न क्रियते, अपितु ‘नियुक्तम्’ शब्दः पुनः निर्दिष्टः अस्ति ।
Vasu English Summary¶
The affix ठक् comes in the sense of ‘appointed there’ after a word in the Locative -7th case (तत्र) in construction.
Vasu English Translation¶
The affix ठक् comes in the sense of ‘appointed there’ after a word in the Locative -7th case (तत्र) in construction. Thus शुल्कशालायां नियुक्तः = शौल्कशालिकः ‘a superintendent of custom-house.’ So also आकरिकः, आपणिकः, गौलूमिकः, दौवारिकः ॥ The word तत्रनियुक्त is a Tatpurusha compound formed by (2.1.46). The word niyukta here has a different meaning from that in (4.1.60), hence its repetition here.
Kashika¶
तत्रेति सप्तमीसमर्थाद् नियुक्त इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। नियुक्त ोऽधिकृतो व्यापारित इत्यर्थः। शुल्कशालायां नियुक्तः शौल्कशालिकः। आकरिकः। आपणिकः। गौल्मिकः। दौवारिकः॥
Siddhanta Kaumudi¶
आकरे नियुक्त आकरिकः ॥
Balamanorama¶
तत्र नियुक्तः - तत्र नियुक्तः । अस्मिन्नर्थे सप्तम्यन्ताट्ठक् स्यादित्यर्थः । नियुक्तः=अधिकृतः । संरक्षणादौ प्रेरित इति यावत् । आकरिक इति । आकरो रत्नाद्युद्भवस्थानम् ।
Tattvabodhini¶
तत्र नियुक्तः - आकरिक इति ।खनिः स्त्रियामाकरः स्या॑दित्यमरः ।
Padamanjari¶
नियुक्तमिति प्रकृते पुननियुक्तग्रहणमर्थभेदार्थमेव, तमेवार्थभेदं दर्शयति -नियुक्तोऽधिकृत इत्यादि । किञ्च -प्रकृतं नियुक्तग्रहणं प्रकृत्यर्थविशेषणस्य दीयत इत्यस्योपाधिः, न तस्येह प्रत्ययार्थत्वं शक्यं विज्ञातुम् ॥
Nyaas¶
अथ तत्र नियुक्तः (4.4.69) इति वर्तमाने पुनर्नियुक्तग्रहणं कस्मात् क्रियते? अर्थभेदात्। न तस्य ह्रकव्यभिचारलक्षणो नित्यभावोऽर्थः। अस्य तु ततोऽन्य एवार्थो यदाह - नियुतोऽधिकृतः इत्यादि॥
Prakriyasarvasvam¶
अत्र ठक् । द्वारे नियुक्तो दौवारिकः ॥
Sutra Prayogas¶
दौवारिकी (रघुवंशम्): तत्र नियुक्तः इति ठक्प्रत्ययः।