44070: अगारान्ताट्ठन्¶
Padacheda: अगार-अन्तात् | S | 5 | 1 |
ठन् | S | 1 | 1 |
Sutrartha¶
यस्य अन्ते ‘अगार’ इति विद्यते, तादृशात् सप्तमीसमर्थात् ‘नियुक्तः’ अस्मिन् अर्थे ठन्-प्रत्ययः भवति ।
‘अगार’ (= स्थानम् / गृहम्) अयम् शब्दः यस्य अन्ते अस्ति, तादृशात् शब्दात् तत्र नियुक्तः (4.4.69) अस्मिन् अर्थे औत्सर्गिकम् ठक्-प्रत्ययं बाधित्वा ठन्-प्रत्ययः भवति । यथा - 1. देवागारे नियुक्तः = देवागार + ठन् → देवागारिकः । देवालये अर्चनं कर्तुम् यः अधिकृतः अस्ति सः देवागारिकः । 2. कोष्ठागारे नियुक्तः = कोष्ठागार + ठन् → कोष्ठागारिकः । 3. भाण्डागारे नियुक्तः सः भाण्डागारिकः ।
Vasu English Summary¶
The affix ठन् comes in the sense of ‘appointed there’ after a word ending with अगार।
Vasu English Translation¶
The affix ठन् comes in the sense of ‘appointed there’ after a word ending with अगार। This debars ठक् । The difference is in accent and want of Vriddhi. Thus देवागारे नियुक्तः = देवगारिकः, कोष्ठागारिकः, भाण्डागारिकः ॥
Kashika¶
अगारशब्दान्तात् प्रातिपदिकात् ठन् प्रत्ययो भवति तत्र नियुक्त इत्येतस्मिन् विषये। ठकोऽपवादः। देवागारे नियुक्तो देवागारिकः। कोष्ठागारिकः। भाण्डागारिकः॥
Siddhanta Kaumudi¶
देवागारे नियुक्तो देवागारिकः ॥
Prakriyasarvasvam¶
देवागारे नियुक्तो देवागारिकः ॥