44069: तत्र नियुक्तः ==================== **Padacheda:** तत्र | S | 0 | 0 | नियुक्तः | S | 1 | 1 | Sutrartha --------- **'नियुक्तः' (= अधिकृतः) अस्मिन् अर्थे सप्तमीसमर्थात् ठक्-प्रत्यय भवति ।** 'नियुक्तः' इत्युक्ते अधिकृतः / अधिकाररूपेण स्थापितः / नियोजितः । यस्मिन् स्थाने कश्चन मनुष्यः किञ्चन कार्यम् कर्तुमधिकाररूपेण स्थापितः अस्ति, तत्र तस्य मनुष्यस्य निर्देशं कर्तुम् स्थानवाचिशब्दात् ठक्-प्रत्ययः भवति । यथा - 1) शुल्कशालायां नियुक्तः शौल्कशालिकः । शुल्कशालायाम् शुल्कग्रहणकार्यार्थम् यः अधिकृतः अस्ति, सः शौल्कशालिकः अस्ति इत्युच्यते । 2) द्वारे नियुक्तः सः दौवारिकः । प्रक्रिया इयम् - द्वार + ठक् → द्वार + इक [**ठस्येकः** (7.3.50) इति इक्-आदेशः] → दौवार + इक [**द्वारादीनां च** (7.3.4) इति ऐच्-आगमः] → दौवार् + इक [**यस्येति च** (6.4.148) इति अकारलोपः] → दौवारिक । 3) आपणे नियुक्तः सः आपणिकः । 4) आकरे नियुक्तः सः आकरिकः । (आकरः इत्युक्ते शुल्कशाला) ज्ञातव्यम् - पूर्वस्मिन् सूत्रे **तदस्मै दीयते नियुक्तम्** (4.4.66) इत्यत्र 'नियुक्तम्' शब्दः प्रयुक्तः अस्ति, अतः तस्मात् एव अत्र अनुवृत्तिः किमर्थम् न क्रियते, अस्मिन् सूत्रे पुनः 'नियुक्त' इति शब्दस्य प्रयोगः किमर्थम् कृतः अस्ति - इति प्रश्नः प्रायः उद्भवति । अस्य उत्तरार्थम् न्यासकारः वदति - 'अर्थभेदात्। न तस्य हि अव्यभिचारलक्षणो नित्यभावः अर्थः' । इत्युक्ते, **तदस्मै दीयते नियुक्तम्** (4.4.66) इत्यत्र 'नियुक्तम्' शब्दः 'अव्यभिचार' इत्यस्मिन् अर्थे प्रयुक्तः अस्ति, वर्तमानसूत्रे च 'अधिकारः' अस्मिन् अर्थे प्रयुक्तः अस्ति । द्वौ एतौ भिन्नौ अर्थौ स्तः । अनुवृत्तिः क्रियते चेत् तु अर्थभेदः न सम्भवति । अतः अत्र अनुवृत्तिः न क्रियते, अपितु 'नियुक्तम्' शब्दः पुनः निर्दिष्टः अस्ति । Vasu English Summary -------------------- The affix ठक् comes in the sense of 'appointed there' after a word in the Locative -7th case (तत्र) in construction. Vasu English Translation ------------------------ The affix ठक् comes in the sense of 'appointed there' after a word in the Locative -7th case (तत्र) in construction. Thus शुल्कशालायां नियुक्तः = शौल्कशालिकः 'a superintendent of custom-house.' So also आकरिकः, आपणिकः, गौलूमिकः, दौवारिकः ॥ The word तत्रनियुक्त is a *Tatpurusha* compound formed by (2.1.46). The word *niyukta* here has a different meaning from that in (4.1.60), hence its repetition here. Kashika ------- तत्रेति सप्तमीसमर्थाद् नियुक्त इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। नियुक्त ोऽधिकृतो व्यापारित इत्यर्थः। शुल्कशालायां नियुक्तः शौल्कशालिकः। आकरिकः। आपणिकः। गौल्मिकः। दौवारिकः॥ Siddhanta Kaumudi ----------------- आकरे नियुक्त आकरिकः ॥ Balamanorama ------------ **तत्र नियुक्तः** - तत्र नियुक्तः । अस्मिन्नर्थे सप्तम्यन्ताट्ठक् स्यादित्यर्थः । नियुक्तः=अधिकृतः । संरक्षणादौ प्रेरित इति यावत् । आकरिक इति । आकरो रत्नाद्युद्भवस्थानम् । Tattvabodhini ------------- **तत्र नियुक्तः** - आकरिक इति ।खनिः स्त्रियामाकरः स्या॑दित्यमरः । Padamanjari ----------- नियुक्तमिति प्रकृते पुननियुक्तग्रहणमर्थभेदार्थमेव, तमेवार्थभेदं दर्शयति -नियुक्तोऽधिकृत इत्यादि । किञ्च -प्रकृतं नियुक्तग्रहणं प्रकृत्यर्थविशेषणस्य दीयत इत्यस्योपाधिः, न तस्येह प्रत्ययार्थत्वं शक्यं विज्ञातुम् ॥ Nyaas ----- अथ **तत्र नियुक्तः** (4.4.69) इति वर्तमाने पुनर्नियुक्तग्रहणं कस्मात् क्रियते? अर्थभेदात्। न तस्य ह्रकव्यभिचारलक्षणो नित्यभावोऽर्थः। अस्य तु ततोऽन्य एवार्थो यदाह - `नियुतोऽधिकृतः` इत्यादि॥ Prakriyasarvasvam ----------------- अत्र ठक् । द्वारे नियुक्तो दौवारिकः ॥ Sutra Prayogas -------------- * **दौवारिकी** (रघुवंशम्): `तत्र नियुक्तः` इति ठक्प्रत्ययः।