44055: शिल्पम्
==============
**Padacheda:** शिल्पम् | S | 1 | 1 |
Sutrartha
---------
**'अस्य शिल्पम्' अस्मिन् अर्थे प्रथमासमर्थात् ठक् प्रत्ययः भवति ।**
'शिल्पम्' इत्युक्ते कौशल्यम् / प्रावीण्यम् । यस्य प्राविण्यम् विद्यते, तस्य निर्देशार्थम् 'यस्मिन् प्राविण्यम् विद्यते' तादृशात् प्रथमासमर्थात् ठक्-प्रत्ययः भवति । यथा -
1. मृदङ्गवादनं शिल्पमस्य सः = मृदङ्ग + ठक् → मार्दङ्गिकः ।
2. वीणावादनं शिल्पमस्य सः = वीणा + ठक् → वैणिकः ।
3. पणववादनं शिल्पमस्य सः = पणव + ठक् → पाणविकः ।
ज्ञातव्यम् - अत्र उदाहरणेषु यद्यपि कौशलम् तु 'वादनम्' इति अस्ति, तथापि शिष्टप्रयोगमनुसृत्य तद्धितप्रत्ययः तु वाद्यवाचिशब्दात् विधीयते, न हि वादनवाचिशब्दात् । अस्मिन् विषये न्यासकारः वदति - 'मृदङ्गशब्द एव प्रत्ययमुत्पदयति, स तु मृदङ्गवादने वर्तमानः, न मृदङ्गे। अत्रशब्दशक्तिस्वाभाव्यं हेतुः।' इत्युक्ते अत्र 'मृदङ्ग'शब्देन 'मृदङ्गवादनम्' इत्यस्यैव अर्थस्य ग्रहणं भवति करणीयं च ।
Vasu English Summary
--------------------
The affix ठक् comes in the sense of 'this is whose Art' after a word denoting Art in the Nominative 1st-Case in construction.
Vasu English Translation
------------------------
The affix ठक् comes in the sense of 'this is whose Art' after a word denoting Art in the Nominative 1st-Case in construction.
Thus मृदङ्गवादनं शिल्पमस्य = मार्दङ्गिकः "a drummer", "an expert in playing on *mridanga* drum". So also पाणविकः, वैणिकः ॥
Bhashya
-------
शिल्पम् (1793) (ठञ्ञोऽधिकरणम्) (अनिष्टनिवारकं भाष्यम्) किं यस्य मृदङ्गः शिल्पं स मार्दङि्गकः? किं चातः? कुम्भकारे प्राप्नोति। एवं तर्ह्युत्तरपदलोपो द्रष्टव्यः। शिल्पमिव -शिल्पम्। मृदङ्गवादनं शिल्पमस्य -मार्दङि्गकः, मौरजिकः, पाणविकः, पैठरिकः॥
Kashika
-------
तदिति प्रथमासमर्थादस्येति षष्ठ्यर्थे ठक् प्रत्ययो भवति, यत् तत् प्रथमासमर्थं शिल्पं चेत् तद् भवति। शिल्पं कौशलम्। मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः। पाणविकः। वैणिकः। मृदङ्गवादने वर्तमानो मृदङ्गशब्दः प्रत्ययमुत्पादयति। शिल्पं तद्धितवृत्तावन्तर्भवति॥
Siddhanta Kaumudi
-----------------
मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः ॥
Laghu Siddhanta Kaumudi
-----------------------
मृदङ्गवादनं शिल्पमस्य मार्दङ्गिकः॥
Balamanorama
------------
**शिल्पम्** - शिल्पम् । तदस्य शिल्पमित्यर्थे प्रतमान्ताट्ठगित्यर्थः । क्रियासु कौशलं शिल्पम् । ननु 'मार्दङ्गिक' इत्युदाहरणं वक्ष्यति, तत्र मृदङ्गं शिल्पमिति कथं विग्रहः, मृदङ्गस्य शिल्पत्वाऽसंभवात् । तत्राह — मृदङ्गवादनमिति । मृदङ्गवादनविषयकमित्यर्थः । मृदङ्गशब्दो लक्षणया मृदङ्गवादनविषयक इति भावः ।
Tattvabodhini
-------------
**शिल्पम्** - शिल्पं — क्रियाकौशलम् । तच्च मृदङ्गवादनविषयकम् । तेन मृदङ्गवादनविषयके मृदङ्गशब्दस्य लक्षणेति निष्कर्षः ।
Padamanjari
-----------
कौशलमिति । क्रियाभ्यासपूर्वको ज्ञानविशेषः । मृदङ्गवादनं शिल्पमस्येति । मृदङ्गो वाद्यते येन तन्मृदङ्गवादनं शिल्पम् भावसाधनस्य गौणं सामानाधिकरण्यम् । मृदङ्गवादनविषयं शिल्पमस्येत्यर्थः । मार्दङ्गिक इति । ननु मृदङ्गवादनं शल्पिमस्येति विग्रहः कृतः, ततश्च मार्दङ्गवादनिक इति भवितव्यम् ? तत्राह - मृदङ्गेत्यादि । मृदङ्गवादनशब्दातु प्रत्ययो न भवत्यनभिधानात्, किं तूपचरितवृतेरपि मृदङ्गशब्दादेव भवति । अत एवानभिधानात् मृदङ्गनिष्पादनं श्लिपमस्य मार्दङ्गिकः कुम्भकार इत्यत्र न भवति ॥
Nyaas
-----
`शिल्पं कौशलम्` इति। क्रियाभ्यासपूर्वको ज्ञानविशेषः। `मृदङ्गवादनं शिल्पमस्य` इति। मृदङ्गो वाद्यते येन शिल्पेन तन्मृदङ्गवादनम्। ननु च मृदङ्गवादनं शिल्पं यस्येति विगृह्र प्रत्यय उत्पद्यमानो मृदङ्गवादनशब्दादेव प्राप्नोति, न तु मृदङ्गशब्दात्, ततो मार्दङ्गवादनिक इति भवितव्यम्, तत्कथं मार्दङ्गिक इति भवति? इत्याह - `मृदङ्गवादनम्` इत्यादि। मृदङ्गशब्द एव प्रत्ययमुत्पदयति, स तु मृदङ्गवादने वर्तमानः, न मृदङ्गे। अत्रशब्दशक्तिस्वाभाव्यं हेतुः। न चायं नियमः - येन विग्रहः क्रियते, तत एव प्रत्ययेन भवितव्यमिति। यथा ह्रवेरिदं मांसमाविकम्, मांसमित्यविशब्देन विग्रहः क्रियतेऽविकशब्दादेव प्रत्ययो भवति, तथेहापि मृदङ्गवादनशब्देन विग्रहः क्रियते, प्रत्ययस्तु मृदङ्शब्दाद्भवति। तेन तत्र गतार्थत्वाच्छिल्पशब्दो न प्रयुज्यत इत्यभिप्रायः॥
Prakriyasarvasvam
-----------------
तदस्य शिल्पमित्यर्थे ठक् स्यान्मालिकवैणिकौ । निर्माणवादनाद्यर्थवृत्तिः शब्द इहैष्यते ॥ २८० ॥ कम्बौर्विकार ओरञ्जि वेणोर्बिल्वाद्यणि स्थितेऽथ ठकि । काम्बविको वैणविकः स्यात् काम्बुकवैणुकौ च शुद्धाभ्याम् ॥ २८१ ॥
Sutra Prayogas
--------------
* **रक्तवैणिक** (शिशुपालवधम्): `शिल्पम्` इति ठक् ।
* **त्वरमाणशाङ्खिकसवेगवदनपवनाभिपूरितः** (शिशुपालवधम्): `तदस्य शिल्पम्` इति ठक्।