44052: लवणाट्ठञ्¶
Padacheda: लवणात् | S | 5 | 1 |
ठञ् | S | 1 | 1 |
Sutrartha¶
‘अस्य पण्यम्’ अस्मिन् अर्थे प्रथमासमर्थात् लवणशब्दात् ठञ् प्रत्ययः भवति ।
‘पण्य’ इति पण् (व्यवहारे) धातोः ‘यत्’ प्रत्ययान्तरूपम् । व्यवहारम् कर्तुम् / क्रेतुम् योग्यम् तत् पण्यम् । तदस्य पण्यम् (4.4.51) इत्यत्र निर्दिष्टे ‘पण्यम्’ अस्मिन् अर्थे सर्वेभ्यः प्रातिपदिकेभ्यः औत्सर्गिकरूपेण ठक्-प्रत्यये प्राप्ते तं बाधित्वा लवणशब्दात् ठञ् प्रत्ययः विधीयते । यथा - लवणं पण्यमस्य सः लावणिकः । यस्य लवणम् क्रेतुम् योग्यमस्ति, तस्य इदं विशेषणम् । ज्ञातव्यम् - लवण-शब्दात् ठक्-प्रत्ययं कृत्वा अपि ‘लावणिक’ एतदेव रूपं सिद्ध्यति, परन्तु तत्र स्वरे भेदः वर्तते । ठञ्-प्रत्ययान्तः ‘लावणिक’शब्दः ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन आद्युदात्तः अस्ति । परन्तु कित्-प्रत्ययान्तः ‘लावणिक’शब्दः कितः (6.1.165) इत्यनेन अन्तोदात्तः अस्ति । एतं भेदं दर्शयितुमेव अत्र ठक्-प्रत्ययं बाधित्वा ठञ्-प्रत्ययविधानं क्रियते ।
Vasu English Summary¶
The affix ठञ् comes in the sense of ‘this is whose saleable commodity’ after the word लवण।
Vasu English Translation¶
The affix ठञ् comes in the sense of ‘this is whose saleable commodity’ after the word लवण। This debars ठक्, the difference being in accent. Thus लवणं पण्यमस्य = लावणिकः ‘a salt-vendor.’
Kashika¶
लवणशब्दाट् ठञ् प्रत्ययो भवति तदस्य पण्यमित्येतस्मिन् विषये। ठकोऽपवादः। स्वरे विशेषः। लवणं पण्यमस्य लावणिकः॥
Siddhanta Kaumudi¶
लावणिकः ॥
Balamanorama¶
लवणाट्ठञ् - विक्रेतव्यं द्रव्यं-पण्यम् । लवणाट्ठञ् ।तदस्य पण्य॑मित्येव । लावणिक इति । लवणमस्य पण्यमित्यर्थः ।
Prakriyasarvasvam¶
ठक् च स्यात् । लवणपण्यवान् लावणिकः ॥