44049: ऋतोऽञ्

Padacheda: ऋतः | S | 5 | 1 |

अञ् | S | 1 | 1 |

Sutrartha

‘धर्म्यम्’ अस्मिन् अर्थे षष्ठीसमर्थात् ऋकारान्तशब्दात् अञ्-प्रत्ययः भवति ।

ऋकारान्तशब्देभ्यः ‘तस्य धर्म्यम्’ अस्मिन् अर्थे औत्सर्गिकं ठक्-प्रत्ययं बाधित्वा अञ्-प्रत्ययः भवति । यथा - 1. पोतुः धर्म्यम् = पोतृ + अञ् → पौतृ + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः]

→ पौत्र [इको यणचि (6.1.77) इति यणादेशः]

  1. यातुः धर्म्यम् = यातृ + अञ् → यात्र ।

3. नुः धर्म्यम् = नृ + अञ् → नार् + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → नार अत्र त्रीणि वार्त्तिकानि ज्ञातव्यानि - 1. <!नराच्चेति वक्तव्यम्!> - नरशब्दात् ‘तस्य धर्म्यम्’ अस्मिन् अर्थे अञ्-प्रत्ययः भवति ।नरस्य धर्म्यम् = नर + अञ् → नार । स्त्रीत्वे विवक्षिते टिड्ढाणञ्… (4.1.15) इति ङीप्-प्रत्ययं कृत्वा - नारी । नरस्य आचरणयोग्या या, सा नारी । (अस्मिन् विषये भाष्यकारः ‘नृनराभ्यामञ् वचनम्’ इति ब्रूते । परन्तु नृ-शब्दस्य विषये तु स्वयं सूत्रेणैव अञ्-प्रत्ययः भवति, अतः काशिकाकारः कौमुदीकारः च केवलम् ‘नरात्’ इति गृहीत्वा वार्त्तिकम् पाठयतः ।) 2. <!विशसितुः इट् लोपः च!> - ‘विशसितृ’ शब्दात् ‘तस्य धर्म्यम्’ अस्मिन् अर्थे अञ्-प्रत्ययः भवति, तथा ‘विशसितृ’ शब्दस्य इडागमस्य लोपः भवति । (‘विशसितृ’ शब्दः ‘वि + शस्’ धातोः ‘तृच्’ प्रत्यये कृते, प्रक्रियायाम् इडागमं च कृत्वा सिद्ध्यति । यः विशेषरूपेण शासनं करोति, सः विशसिता । अस्यैव शब्दस्य इडागमस्य अनेन वार्त्तिकेन लोपः उच्यते ) । विशसितुः धर्म्यम् = विशसितृ + अञ् → विशस्तृ + अञ् → वैशस्त्र । शासकस्य आचरणयोग्यम् इत्यर्थः । 3. <!विभाजयितुः णिलोपः च!> - ‘विभाजयितृ’ शब्दात् ‘तस्य धर्म्यम्’ अस्मिन् अर्थे अञ्-प्रत्ययः भवति, तथा ‘विभाजयितृ’ शब्दस्य णिच्-प्रत्ययस्य लोपः भवति । (‘विभाजयितृ’शब्दः ‘वि + भाज्’ धातोः णिच्-प्रत्ययं कृत्वा अग्रे तृच्-प्रत्ययं च कृत्वा सिद्ध्यति । यः विभाजनम् करोति सः विभाजयिता । अस्यां प्रक्रियायां विद्यमानस्य णिच्-प्रत्ययस्य अत्र लोपः उच्यते ) । विभाजयितुः धर्म्यम् = विभाजयितृ + अञ् → विभाजितृ + अञ् → वैभाजित्रम् । यः विभाजनं करोति, तस्य आचरणयोग्यम् तत् वैभाजित्रम् । ज्ञातव्यम् - अस्मिन् सूत्रे सर्वेभ्यः ऋकारान्तशब्देभ्यः ‘तस्य धर्म्यम्’ अस्मिन् अर्थे अञ्-प्रत्ययः उच्यते । परन्तु अण् महिष्यादिभ्यः (4.4.48) इत्यत्र महिष्यादिगणे ‘होतृ’शब्दः अपि उक्तः अस्ति । अस्मात् शब्दात् अण्-प्रत्ययः भवेत् उत अञ्? अस्मिन् विषये विचारद्वयं वर्तते । केचन वदन्ति - महिष्यादिगणे निर्देशत्वात् होतृ-शब्दात् अण्-प्रत्ययः एव भवेत्, अञ् न । केचन अन्ये वदन्ति, ‘ऋत्विक्’ अस्मिन् अर्थे यः होतृशब्दः प्रयुज्यते तस्य महिष्यादिगणे निर्देशः क्रियते, अतः तस्मात् अण्-प्रत्ययः भवति, परन्तु अन्येषु अर्थेषु तु वर्तमानसूत्रेण अञ्-प्रत्ययः एव विधीयते ।

Vasu English Summary

The affix अञ् comes in the sense of ‘its law’ after a प्रातिपदिक (Nominal Stem) ending ऋ।

Vasu English Translation

The affix अञ् comes in the sense of ‘its law’ after a प्रातिपदिक (Nominal Stem) ending ऋ। This debars ठक् ॥ Thus पोतु र्धर्म्यम् = पौत्रम् ‘the office of a Potri.’ औद्गात्रम् ‘the office or duties of an Udgatri’. Padamanjari gives the example of हौत्रम् = होतु र्धर्म्यम् under this sutra, though the word होतृ occurs in the list given in the preceding sutra. The Hotri of the preceding sutra means a Ritvik, here it means an invoker.

Vart:- So also after the word नरः As नरस्य धर्म्या = नारी ॥

Vart:- So also after the word विशसितृ, the इट् affix being elided. Thus विशसितृ + अञ् = वैशस्त्रम् ॥

Vart:- So also after the word विभाजयितृ, its णि affix also being elided. Thus विभाजयितृ + अञ् = वैभाजित्रम् ॥

Bhashya

ऋतोऽञ्ञ् (1787) (अञ्ञोऽधिकरणम्) (5571 पूरकवार्तिकम्॥ 1 ॥) - नृनराभ्यामञ्ञ्वचनम् - (भाष्यम्) नृनराभ्यामञ्ञ्चेति वक्तव्यम्। नुर्र्धम्या-नारी। नरस्यापि -नारी॥ (5572 पूरकवार्तिकम्॥ 2 ॥) - विशसितुरिड्लोपश्च - (भाष्यम्) विशसितुरिड्लोपश्चाञ्ञ्च वक्तव्यः। विशसितुर्र्धम्यं वैशस्त्रम्॥ (5573 पूरकवार्तिकम्॥ 3 ॥) - विभाजयितुर्णिलोपश्च - (भाष्यम्) विभाजयितुर्णिलोपश्चाञ्ञ्च वक्तव्यः। विभाजयितुर्र्धम्यं -वैभाजित्रम्॥

Kashika

ऋकारान्तात् प्रातिपदिकादञ् प्रत्ययो भवति तस्य धर्म्यमित्येतस्मिन् विषये। ठकोऽपवादः। पोतुर्धर्म्यं पौत्रम्। औद्गात्रम्। नराच्चेति वक्तव्यम्॥ नरस्य धर्म्या नारी॥ विशसितुरिड्लोपश्च॥ विशसितुर्धर्म्यं वैशस्त्रम्॥ विभाजयितुर्णिलोपश्च॥ विभाजयितुर्धर्म्यं वैभाजित्रम्॥

Siddhanta Kaumudi

यातुर्धर्म्यं यात्रम् ।<!नराच्चेति वक्तव्यम् !> (वार्तिकम्) ॥ नरस्य धर्म्या नारी ।<!विशसितुरिड्लोपश्चाञ्च वक्तव्यः !> (वार्तिकम्) ॥ विशसितुर्धर्म्यं वैशस्त्रम् ।<!विभाजयितुर्णिलोपश्चाञ्च वाच्यः !> (वार्तिकम्) ॥ विभाजयितुर्धर्म्यं वैभाजित्रम् ॥

Balamanorama

ऋतोऽञ् - ऋतोऽञ् । ऋदन्तात्षष्ठन्ताद्धम्र्यमित्यर्थे अञित्यर्थः । नारीति । अञन्तत्वान्ङीबिति भावः । इड्लोप इति । इटो लोप इत्यर्थः । वैशस्त्रमिति । विशसितृशब्दादञि इटो लोपे ऋकारस्य यणि आदिवृद्धिः । वैभाजित्रमिति । विभाजयितृशब्दादञि णिलोपः ।

Padamanjari

होतुर्धर्म्यं हौत्रमिति । होतृशब्दस्य महिष्यादिषु पाठादपपाठोऽयम्, पोतुर्धम्यमिति तु पाठः । अपर आह - यजमानसाहचर्यादृत्विग्वचनस्य होतृशब्दस्य महिष्यादिषु पाठः, अयं तु क्रियाशब्द उदाहृत इति । नराच्चेति वक्तव्यमिति । नृशब्दात्सूत्रेणैवाञि नारमिति सिद्धे नरशब्दाट्ठको निवृत्यर्थं वचनम्, अनभिधानं तु दुर्ज्ञानम् ॥

Prakriyasarvasvam

पोतुर्धर्म्यं पौत्रम् । औद्गात्रम् । ‘विशसितुरिटो लोपश्च’ (वा०) वैशस्त्रम् । ‘विभाजयितुर्णिलोपश्च’ (वा०) । वैभाजितम् ॥

Vartika

नराच्चेति वक्तव्यम् ।