44050: अवक्रयः

Padacheda: अवक्रयः | S | 1 | 1 |

Sutrartha

‘अवक्रयः’ अस्मिन् अर्थे षष्ठीसमर्थात् ठक् प्रत्ययः भवति ।

‘अवक्रय’ इत्युक्ते अधिभारः / विक्रीकरः । वाणिज्यार्थम् तैलधान्यादीनि वस्तूनि एकस्मात् स्थलात् अन्यस्मिन् स्थले यदा नीयन्ते, तदा यानि भिन्नानि शुल्कानि दातव्यानि, तेषाम् निर्देशः ‘अवक्रय’ अनेन क्रियते । यस्य स्थलस्य अवक्रयः निर्दिश्यते, तस्मात् षष्ठीसमर्थात् अवक्रयं निर्देशयितुम् ठक् प्रत्ययः भवति । यथा - 1. शुल्कशालायाः अवक्रयः शौल्कशालिकः । शुल्कशाला + ठक् → शौल्कशालिक । शुल्कशालायां यः अधिभारः दातव्यः सः शौल्कशालिकः । 2. आपणस्य अवक्रयः आपणिकः । आपण + ठक् → आपणिक । आपणे दीयमानः अवक्रयः इत्यर्थः ।

Vasu English Summary

The affix ठक् comes in the sense of ‘its tax’ after a word in the Genitive -6th-Case in construction.

Vasu English Translation

The affix ठक् comes in the sense of ‘its tax’ after a word in the Genitive -6th-Case in construction. The word अवक्रय means ‘Government-tax,’ ‘price,’ ‘wages,’ ‘rent’ &c, coming from the root अवक्री ‘to purchase.’ Thus शुल्कशालाया अवक्रयः = शौल्कशालिकः So also आपणिकः, गौल्मिकः, आकरिकः ॥

Are not धर्म्य (4.4.47) and अवक्रय the same ? No. Dharmya is a legal due, and religious; while an ‘avakraya’ may be a tax exacted from a people by oppression, and so transgressing dharma.

Kashika

तस्येत्येव। षष्ठीसमर्थादवक्रय इत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। अवक्रीणीतेऽनेनेत्यवक्रयः, पिण्डक उच्यते। शुल्कशालाया अवक्रयः शौल्कशालिकः। आकरिकः। आपणिकः। गौल्मिकः। नन्ववक्रयोऽपि धर्म्यमेव? नैतदस्ति। लोकपीडया धर्मातिक्रमेणाप्यवक्रयो भवति॥

Siddhanta Kaumudi

षष्ठ्यन्ताट्ठक् स्यादवक्रयेऽर्थे । आपणस्यावक्रय आपणिकः । राजग्राह्यं द्रव्यमवक्रयः ॥

Balamanorama

अवक्रयः - अवक्रयः । तस्येत्यनुवर्तते । तदाह — षष्ठन्तादिति ।

Tattvabodhini

अवक्रयः - अवक्रयः । अवक्रीयते अनेनेति करणेएरच् ।

Padamanjari

अवक्रीयतेऽनेनेत्यवक्रय इति । क्रयो नाम उ स्वद्रव्यत्यागेन परद्रव्यस्वीकरणम्, तस्यावमत्वमवशब्दो द्योतयति । वाणिज्यार्थं तैलधान्यादिकं देशान्तरं नयताऽस्मिन् शुल्कस्थाने प्रतिभारमेतावद् देयमिति तद्देशादिपतिना यत्कल्पितं सोऽवक्रयः, पिण्डक इति चोच्यते । तत्र स्वद्रव्यमेव दत्वा स्वद्रव्यमेव स्वीक्रियते इत्ययमवक्रयो भवति, न तु मुख्यः । नन्वित्यादि । अवक्रयस्याप्यनादिप्रवृतत्वादिति भावः । लोकपीडयेति । अर्थलोभेन धर्मातिक्रमेण धर्मापेतत्वं दर्शयति ॥

Prakriyasarvasvam

<karika>शुल्कशालादिके दातुं नियतोऽंशो ह्यवक्रयः । तस्यावक्रय इत्यर्थे ठग् भवेत् शौल्कशालिकः ॥ २७९ ॥</karika>