44048: अण् महिष्यादिभ्यः

Padacheda: अण् | S | 1 | 1 |

महिषी-आदिभ्यः | S | 5 | 3 |

Sutrartha

महिष्यादिगणस्य शब्दानां विषये ‘धर्म्यम्’ अस्मिन् अर्थे षष्ठीसमर्थात् अण्-प्रत्ययः भवति ।

‘महिष्यादि’गणे विद्यमानाः ये शब्दाः, तेषां विषये षष्ठीसमर्थात् ‘धर्म्यम्’ अस्मिन् अर्थे औत्सर्गिकं ठक्-प्रत्ययं बाधित्वा अण्-प्रत्ययः विधीयते । महिष्यादिगणः अयम् - महिषी, प्रजावती, प्रलेपिका, विलेपिका, अनुलेपिका, पुरोहित, मणिपाली, अनुचारक, होतृ, यजमान । उदाहरणानि - 1. महिष्याः धर्म्यम् = महिषी + अण् → माहिष । 2. प्रजावत्याः धर्म्यम् प्राजावतम् । 3. पुरोहितस्य धर्म्यम् पौरोहितम् । 4. यजमानस्य धर्म्यम् याजमानम् ।

Vasu English Summary

The affix अण् comes in the sense of ‘its law’ after the word महिषी etc.

Vasu English Translation

The affix अण् comes in the sense of ‘its law’ after the word महिषी etc. This debars thak. Thus महिष्या धर्म्यं = माहिषम् ‘the usages of queens.’ So प्राजावतम् ॥

1 महिषी, 2 प्रजापति, 3 प्रजावती, 4 प्रलेपिका, 5 विलेपिका, 6 अनुलेपिका, 7 पुरोहित, 8 वणिपाली, 9 अनुचारक (अनुवारक), 10 होतु, 11 यजमान.

Kashika

महिषीत्येवमादिभ्योऽण् प्रत्ययो भवति तस्य धर्म्यमित्येतस्मिन् विषये। ठकोऽपवादः। महिष्या धर्म्यं माहिषम्। प्राजावतम्॥ महिषी। प्रजावती। प्रलेपिका। विलेपिका। अनुलेपिका। पुरोहित। मणिपाली। अनुचारक। होतृ। यजमान। महिष्यादिः॥

Siddhanta Kaumudi

महिष्या धर्म्यं माहिषम् । याजमानम् ॥

Balamanorama

अण् महिष्यादिभ्यः - अण् महिष्यादिभ्यः ।षष्ठन्तेभ्यो धम्र्यमित्यर्थे॑ इति सेषः ।

Prakriyasarvasvam

महिषीप्रजापतियजमाननरानुचारकपुरोहितहोतृमणिपालिभ्यः (भो० ४- ४-१०५) । राजमहिष्या धर्म्यं माहिषम् । प्रजापतिर्ब्रह्मचारी तद्धर्म्यं प्राजापतम् । याजमानम् । नारम् । आनुचारकम् । पौरोहितम् । हौत्रम् । माणिपालम् । ‘व्यनुप्रेभ्यो लेपिकायाः’ (भो० ४-४-१०६) । वैलेपिकम् । आनुलेपिकम् । प्रालेपिकम् ।।