44048: अण् महिष्यादिभ्यः ======================== **Padacheda:** अण् | S | 1 | 1 | महिषी-आदिभ्यः | S | 5 | 3 | Sutrartha --------- **महिष्यादिगणस्य शब्दानां विषये 'धर्म्यम्' अस्मिन् अर्थे षष्ठीसमर्थात् अण्-प्रत्ययः भवति ।** 'महिष्यादि'गणे विद्यमानाः ये शब्दाः, तेषां विषये षष्ठीसमर्थात् 'धर्म्यम्' अस्मिन् अर्थे औत्सर्गिकं ठक्-प्रत्ययं बाधित्वा अण्-प्रत्ययः विधीयते । महिष्यादिगणः अयम् - महिषी, प्रजावती, प्रलेपिका, विलेपिका, अनुलेपिका, पुरोहित, मणिपाली, अनुचारक, होतृ, यजमान । उदाहरणानि - 1. महिष्याः धर्म्यम् = महिषी + अण् → माहिष । 2. प्रजावत्याः धर्म्यम् प्राजावतम् । 3. पुरोहितस्य धर्म्यम् पौरोहितम् । 4. यजमानस्य धर्म्यम् याजमानम् । Vasu English Summary -------------------- The affix अण् comes in the sense of 'its law' after the word महिषी etc. Vasu English Translation ------------------------ The affix अण् comes in the sense of 'its law' after the word महिषी etc. This debars *thak*. Thus महिष्या धर्म्यं = माहिषम् 'the usages of queens.' So प्राजावतम् ॥ 1 महिषी, 2 प्रजापति, 3 प्रजावती, 4 प्रलेपिका, 5 विलेपिका, 6 अनुलेपिका, 7 पुरोहित, 8 वणिपाली, 9 अनुचारक (अनुवारक), 10 होतु, 11 यजमान. Kashika ------- महिषीत्येवमादिभ्योऽण् प्रत्ययो भवति तस्य धर्म्यमित्येतस्मिन् विषये। ठकोऽपवादः। महिष्या धर्म्यं माहिषम्। प्राजावतम्॥ महिषी। प्रजावती। प्रलेपिका। विलेपिका। अनुलेपिका। पुरोहित। मणिपाली। अनुचारक। होतृ। यजमान। महिष्यादिः॥ Siddhanta Kaumudi ----------------- महिष्या धर्म्यं माहिषम् । याजमानम् ॥ Balamanorama ------------ **अण् महिष्यादिभ्यः** - अण् महिष्यादिभ्यः ।षष्ठन्तेभ्यो धम्र्यमित्यर्थे॑ इति सेषः । Prakriyasarvasvam ----------------- महिषीप्रजापतियजमाननरानुचारकपुरोहितहोतृमणिपालिभ्यः (भो० ४- ४-१०५) । राजमहिष्या धर्म्यं माहिषम् । प्रजापतिर्ब्रह्मचारी तद्धर्म्यं प्राजापतम् । याजमानम् । नारम् । आनुचारकम् । पौरोहितम् । हौत्रम् । माणिपालम् । ‘व्यनुप्रेभ्यो लेपिकायाः’ (भो० ४-४-१०६) । वैलेपिकम् । आनुलेपिकम् । प्रालेपिकम् ।।