44041: धर्मं चरति ================= **Padacheda:** धर्मम् | S | 2 | 1 | चरति | T | | | Sutrartha --------- **'चरति' अस्मिन् अर्थे द्वितीयासमर्थात् 'धर्म'शब्दात् ठक् प्रत्ययः भवति ।** यः धर्मम् चरति (धर्मसम्मतं वर्तनं करोति इत्यर्थः) तस्य निर्देशार्थम् द्वितीयासमर्थात् 'धर्म'शब्दात् ठक् प्रत्ययः भवति । धर्मं चरति सः धार्मिकः । अत्र एकं वार्त्तिकं ज्ञातव्यम् - । इत्युक्ते, 'अधर्म' शब्दात् अपि ठक्-प्रत्ययः भवति । यथा - अधर्मं चरति सः = आधर्मिकः । Vasu English Summary -------------------- The affix ठक् comes after the word धर्मं being in the Accusative -2nd case in construction in the sense of 'who practices that'. Vasu English Translation ------------------------ The affix ठक् comes after the word धर्मं being in the Accusative -2nd case in construction in the sense of 'who practices that'. Thus धर्मम् चरति = धार्मिकः "religious". So also आधर्मिकः "irreligious undutiful", by a *Vartika*. Bhashya ------- धर्मं चरति (1789) (ठकोऽधिकरणम्) (5570 पूरकवार्तिकम्॥ 1 ॥) - अधर्माच्च - (भाष्यम्) अधर्माच्चेति वक्तव्यम्। आधर्मिकः॥ Kashika ------- धर्मशब्दात् तदिति द्वितीयासमर्थात् चरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। चरतिरासेवायां नानुष्ठानमात्रे। धर्मं चरति धार्मिकः॥ अधर्माच्चेति वक्तव्यम्॥ आधर्मिकः॥ Siddhanta Kaumudi ----------------- धार्मिकः । (वार्तिकम्) ॥ आधर्मिकः ॥ Laghu Siddhanta Kaumudi ----------------------- धार्मिकः **अधर्माच्चेति वक्तव्यम्** (वार्त्तिकम्)। आधर्मिकः॥ Balamanorama ------------ **धर्मं चरति** - धर्मं चरति । चरतीत्यर्थे द्वितीयान्ताद्धर्मशब्दाट्ठगित्यर्थः । अधर्माच्चेतीति ।ग्रहणवता प्रातिपदिकेन तदन्तविधिर्नास्ती॑ति तदन्ताऽग्रहणादप्राप्ते आरम्भः । Tattvabodhini ------------- **धर्मं चरति** - धर्म चरति । चरतिरिहाऽऽसेवायां, न त्वनुष्ठानमात्रे । तेन दैववशाद्धर्मे प्रवृत्तो दुर्वृत्तो धार्मिक इति नोच्यते । आसेवा हि स्वारसिकि प्रवृत्तिः । एवं दैववशादधर्मे प्रवृत्तो यः सद्वृत्तः स आधर्मिक इति नोच्यते । Padamanjari ----------- अधर्माच्चेति वक्तव्यमिति । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधाद्वचनम् । आधर्मिक इति । नञत्र विरोधिवचनः, पापाचार इत्यर्थः ॥ Nyaas ----- `चरतिरासेवायाम्` इति। आसेवा = पौनःपुन्यम्।`अधर्माच्च वक्तव्यम्` इति। अधर्मशब्दाच्चरतीत्येतस्मिन्नर्थे ठग्भवतीत्येतदर्थरूपं व्याख्येयमित्यर्थः। तत्रेदं व्याख्यानम् - पूर्वसूत्रादिह चकारऽनुवर्तते, स चानुक्तसमुच्चयार्थो वेदितव्यः, तेनाधर्मादपि भविष्यति॥ Prakriyasarvasvam ----------------- धार्मिकः । ‘अधर्माच्च वाच्यम्’ (वा०) आधार्मिकः ॥ Vartika ------- अधर्माच्चेति वक्तव्यम् ।