44031: कुसीददशैकादशात् ष्ठन्ष्ठचौ

Padacheda: कुसीद-दशैकादशात् | S | 5 | 1 |

ष्ठन्-ष्ठचौ | S | 1 | 2 |

Sutrartha

‘गर्ह्यम् प्रयच्छति’ अस्मिन् अर्थे ‘कुसीद’शब्दात् ष्ठन्, तथा ‘दशैकादश’शब्दात् ष्ठच्-प्रत्ययः भवति ।

‘गर्ह्यम्’ इत्युक्ते ‘निन्द्यम् / धर्मशास्त्रविरुद्धम्’ । ‘प्रयच्छति’ इत्युक्ते ददाति । यत्र नियमबाह्यरूपेण (= निन्द्यरूपेण) किञ्चन धनम् दीयते, यत्र दातुः निर्देशं कर्तुम् द्वितीयासमर्थात् औत्सर्गिकरूपेण प्रयच्छति गर्ह्यम् (4.4.30) इत्यनेन ठक्-प्रत्यये प्राप्ते ‘कुसीद’ तथा ‘दशैकादश’ शब्दयोः विषये तं बाधित्वा क्रमशः ष्ठन् तथा ष्ठच् प्रत्ययौ भवतः । क्रमेण पश्यामः - 1. ‘कुसीद’ - ‘कुसीद’ इत्युक्ते वृद्ध्यर्थम् यत् दीयते तत् धनम् । कश्चन धनिकः यदि धर्मबाह्याम् वृद्धिम् प्राप्तुम् किञ्चन धनम् ऋणरूपेण ददाति, तर्हि तत् धनम् ‘गर्ह्यम् कुसीदम्’ नाम्ना ज्ञायते । एतस्यां स्थितौ धनिकस्य निर्देशं कर्तुम् कुसीद-शब्दात् ष्ठन्-प्रत्ययः क्रियते । कुसीदं गर्ह्यम् प्रयच्छति सः = कुसीद + ष्ठन् → कुसीदिक । 2. दशैकादश - यत्र दशमुद्राः ऋणरूपेण दत्त्वा एकादशमुद्राः व्याजरूपेण इष्यन्ते, तत्र दत्तं ऋणम् ‘दशैकादश’ नाम्ना ज्ञायते । (‘एकादश च ते दश च ते दशैकादशाः’ इति अयं शब्दः सिद्ध्यति ) । एतत् दशैकादशम् गर्ह्यम् (नियमबाह्यम्) अस्ति चेत् दातुः निर्देशं कर्तुमस्मात् ष्ठच्-प्रत्ययः भवति । दशैकादशम् गर्ह्यम् प्रयच्छति सः = दशैकादश + ष्ठच् → दशैकादशिक । ज्ञातव्यम् - 1. ‘ष्ठन्’ तथा ‘ष्ठच्’ - द्वयोः प्रत्यययोः षकारः इत्संज्ञकः अस्ति । अतः स्त्रीत्वे विवक्षिते षिद्गौरादिभ्यश्च (4.1.41) इत्यनेन ङीष्-प्रत्ययः विधीयते । यथा - कुसीदं गर्ह्यम् प्रयच्छति सा = कुसीदिकी । दशैकादशम् गर्ह्यम् प्रयच्छति सा = दशैकादशिकी । 2. ष्ठन् प्रत्ययः ‘नित्’ अस्ति अतः ‘कुसीदिक’ शब्दस्य आदिस्वरः ञ्नित्यादिर्नित्यम् (6.1.197) इत्यनेन उदात्तः जायते । ष्ठच्-प्रत्ययः तु ‘चित्’ अस्ति, अतः ‘दशैकादशिक’ शब्दस्य अन्तिमस्वरः तद्धितस्य (6.1.164) इत्यनेन उदात्तः जायते ।

Vasu English Summary

The affixes ष्ठन् and ष्ठच् come respectively after the words कुसीद and दशैकादश when the sense is ‘he gives for a mean motive’.

Vasu English Translation

The affixes ष्ठन् and ष्ठच् come respectively after the words कुसीद and दशैकादश when the sense is ‘he gives for a mean motive’. The word कुसीद means ‘interest’. The lending of ten (दश) on a condition that the borrower will pay eleven (एकादश) after a month is called दशैकादश ॥ This sutra debars ठक् ॥ The difference between the two affixes ष्ठन् and ष्ठच् is in the accent (6.1.197) and (6.1.163) Thus कुसीद + ष्ठन् = कु꣡सीदकः fem. कुसीदकी꣡ (6.1.41). So दशैकादशिकः꣡ fem की꣡ ॥

Kashika

प्रयच्छति गर्ह्यमित्येव। कुसीदं वृद्धिः, तदर्थं द्रव्यं कुसीदम्। एकादशार्था दश दशैकादशशब्देनोच्यन्ते। कुसीददशैकादशब्दाभ्यां यथासंख्यं ष्ठन् ष्ठच् इत्येतौ प्रत्ययौ भवतः प्रयच्छति गर्ह्यमित्येतस्मिन् विषये। ठकोऽपवादौ। कुसीदं प्रयच्छति कुसीदिकः। कुसीदिकी। दशैकादशिकः। दशैकादशिकी॥

Siddhanta Kaumudi

गर्ह्यार्थाभ्यामाभ्यामेतौ स्तः प्रयच्छतीत्यर्थे । कुसीदं वृद्धिस्तदर्थं द्रव्यं कुसीदं तत्प्रयच्छति कुसीदिकः । कुसीदिकी । एकादशार्थत्वादेकादश ते च ते वस्तुतो दशचेति विग्रहेऽकारः समासान्त इहैव सूत्रे निपात्यते । दशैकादशिकः । दशैकादशिकी । दशैकादशान्प्रयच्छतीत्युत्तमर्ण एवेहापि तद्धितार्थः ॥

Balamanorama

कुसीददशैकादशात् ष्ठन्ष्ठचौ - कुसीद । गह्र्रार्थाभ्यामिति । कुसीद, तदशैकादश — आभ्यां द्वितीयान्ताभ्यां गह्र्रार्थकाभ्यां प्रयच्छतीत्यर्थे क्रमात्ष्ठन्ष्ठचौ स्त इत्यर्थः । षित्त्वं ङीषर्थमित्याह — कुसीदिकीति । नित्त्वचित्त्वयोस्तु स्वरे विशेषः । अथ ष्ठच् प्रकृतिं दशैकादशशब्दं व्युत्पादयति — एकादशार्थत्वादित्यादिना । यत्र एकादश निष्कान् अधिकान् प्रत्यर्पयेति समयं कृत्वा दश निष्का ऋणत्वेन दीयन्ते, तत्र ऋणत्वेन गृहीता दश निष्का एकादशार्थत्वादेकादशशब्देन उपचर्यन्ते । ततश्च एकादश च ते दश चेति कर्मधारयेसङ्ख्याया अल्पीयस्या॑ इति दशन्शब्दस्य पूर्वनिपातः । इहैव निपातनादकारः समासान्तः, टिलोपः, दशैकादशा इति रूपमित्यर्थः । दशैकादशिक इति । एकादश निष्खानधिकान् ग्रहीतुं दश निष्कान् अधमर्णाय प्रयच्छतीति यावत् । अथ लौकिकविग्रहवाक्यं दर्शयति — दशैकादशान् प्रयच्छतीति । इहापीति । विग्रहवाक्ये यथा उत्तमर्णः प्रधानत्वेन निर्दिश्यते, तथा समासेऽपि उत्तमर्ण एव ऋणदातैव तद्धितार्थः प्रधानभूत इत्यर्थः ।

Tattvabodhini

कुसीददशैकादशात् ष्ठन्ष्ठचौ - निपात्यते इति । अतएव व्याख्यातृप्रयोगोऽप्युपपद्यत इत्याशयेनोदाहरति -दशैकादशानिति ।सङ्ख्याया अल्पीयस्याः॑इति पूर्वनिपातः । उत्तमर्ण एवेति । दश दत्त्वा एकादश गृह्णातीति तस्यैव गह्र्रत्वादिति भावः ।

Padamanjari

तदर्थं द्रव्यं कुसीदमिति । अत्रापि कुसीदिक इत्युतमर्णस्याभिधानमिष्यते, न चोतमर्णः कुसीदं प्रयच्छति, किं तहि ? अधमर्णः, न च तस्य वृद्धिप्रदानं गर्ह्यम्, तस्मातादर्थ्याताच्छद्ब्यमिति भावः । एकादशार्थं दश दशैकादशशब्देनोच्यन्त इति तत्रैकादशशब्दस्यापि तदर्थेषु दशस्वेव वृतेः सामानाधिकरण्ये सति विशेषणसमासः,’संख्याया अल्पीयस्याः’ इति दशशब्दस्य पूर्वनिपातः । दशैकादशादिति निर्देशादकारः समासान्तः । एवं वाक्यमप्यकारान्तेनैव भवति - दशैकादशान्प्रयच्छतीति ॥

Nyaas

तत्रापि कुसीदार्थे वस्तुनि दशैकादशार्थेषु च दशसु दशैकादशशब्दं वर्तयित्वा ततः प्रत्ययः। सर्वतः पूर्ववदभिप्रायो वेदितव्यः। दश चैकादश चेति समानाधिकरणसमासः। ननु च भिन्नविषययोः सामानाधिकरण्यं नोपपद्यते? दशैकादशशभ्दोऽप्येकादशार्थेषु दशस्वेवोपचराद्वर्तत इत्यदोषः। यो दश प्रयच्छत्येकादश एव स्युरिति स दशैकादश इत्युच्यते। दशैकादशादिति निर्देशादकारान्तत्वं निपात्यते; किमर्थम्? वाक्येऽप्यकारान्तत्वश्रवणार्थ दशैकादशान् प्रयच्छतीति॥

Prakriyasarvasvam

द्वौ क्रमात् स्तः । <karika>षो डीषर्थः स्वरे भेदः कुसीदं वृद्धिरुच्यते । तदर्थं द्रव्यमत्रोक्तं तत्प्रदाता कुसीदिकः ॥ २७० ॥</karika> <karika>एकादशार्थं दशकं दशैकादशमुच्यते। तादृक् प्रयच्छन् धनिको दशैकादशिको मतः ॥ २७१ ॥</karika>