44030: प्रयच्छति गर्ह्यम्

Padacheda: प्रयच्छति | T | | |

गर्ह्यम् | S | 2 | 1 |

Sutrartha

‘गर्ह्यम् प्रयच्छति’ इत्यर्थे द्वितीयासमर्थात् ठक्-प्रत्ययः भवति ।

‘गर्ह्यम्’ इत्युक्ते ‘निन्द्यम् / धर्मशास्त्रविरुद्धम्’ । ‘प्रयच्छति’ इत्युक्ते ददाति । यत्र नियमबाह्यरूपेण (= निन्द्यरूपेण) किञ्चन दीयते, तत्र दातुः निर्देशं कर्तुम् द्वितीयासमर्थात् ठक्-प्रत्ययः भवति । यथा - द्विगुणं प्रयच्छति सः = द्विगुण + ठक् → द्वैगुणिकः धनिकः । अत्र प्रयुक्तः ‘द्विगुण’शब्दः ‘द्विगुणार्थम् यत् दीयते’ तस्य निर्देशं करोति । यदि कश्चन धनिकः ‘द्विगुणं कृत्वा पुनः स्वीकरिष्यामि’ इति चिन्तयित्वा ऋणं ददाति, तर्हि तत् दानम् निन्द्यम् / धर्मशास्त्रविरुद्धमस्तीति मन्यते । अतः अत्र ‘द्विगुणम्’ इति गर्ह्यमस्ति, अतः वर्तमानसूत्रेण तस्मात् ठक्-प्रत्ययं कृत्वा ‘द्वैगुणिक’ इति प्रातिपदिकं सिद्ध्यति । यः धनिकः गर्ह्यं द्विगुणं प्रयच्छति, सः ‘द्वैगुणिकः धनिकः’ । तथैव - त्रिगुणं (गर्ह्यम्) प्रयच्छति सः = त्रिगुण + ठक् → त्रैगुणिकः धनिकः । अत्र एकं वार्त्तिकं ज्ञातव्यम् - <!वृद्धेः ‘वृधुषि’भावः वक्तव्यः!> । इत्युक्ते, ‘वृद्धि’शब्दात् ‘गर्ह्यम् प्रयच्छति’ अस्मिन् अर्थे ठक्-प्रत्ययः भवति, तथा ‘वृद्धि’शब्दस्य ‘वृधुषि’ इति आदेशः भवति । वृद्धि + ठक् → वृधुषि + ठक् → वार्धुषिक / वार्द्धुषिक । वृद्धिं गर्ह्यं प्रयच्छति सः वार्धुषिकः । (वृद्ध्यर्थं यत् दीयते तस्यापि ‘वृद्धि’ इत्येव संज्ञा । तस्मात् अत्र प्रत्ययविधानं क्रियते ।)

Vasu English Summary

The affix ठक् comes after a word in the Accusative -2nd case in construction when the sense is ‘he gives’, the motive being mean.

Vasu English Translation

The affix ठक् comes after a word in the Accusative -2nd case in construction when the sense is ‘he gives’, the motive being mean. Thus द्विगुणं प्रयच्छति = द्विगुणिकः ‘a usurer who gives for the sake of double’ i. e. who charges cent per cent interest. The word द्विगुण means द्विगुणार्थ ‘for the sake of double’. Similarly त्रैगुणिकः ॥

Vart:- The word वृद्धि is changed to वृधुषि before this affix. As, वृद्धिं प्रयच्छति = वार्धुषिकः ‘a usurer’ ‘who gives for the sake of increase’ Or the word वृधुषि may be taken as a separate word synonymous with वृद्धि ॥

Why do we say गर्ह्यम् ‘with a mean motive’? Observe द्विगुणं प्रयच्छति अधर्मणः ‘the debtor gives double’.

Bhashya

प्रयच्छति गर्ह्यम् (1768) (ठकोऽधिकरणम्) (सूत्रनिर्देशाक्षेपभाष्यम्) अयुक्तोऽयं निर्देशः, यदसावल्पं दत्वा बहु गृह्णाति तद्गर्ह्यम्। कथं तर्हि निर्देशः कर्तव्यः? (5567 निर्देशसाधकवार्तिकम्॥ 1 ॥) - प्रयच्छति गर्ह्याय - (भाष्यम्) इति। स तर्हि तथा निर्देशः कर्तव्यः। न कर्तव्यः। तार्दथ्यात्ताच्छब्द्यं भविष्यति -गर्ह्यार्थं गर्ह्यम्॥ (5568 निर्देशोपपादकवार्तिकम्॥ 2 ॥) - मेस्याल्लोपो वा - (भाष्यम्) मेस्याच्छब्दलोपो वा द्रष्टव्यः। द्विगुणं मे स्यादिति प्रयच्छति -द्वैगुणिकः, त्रैगुणिकः॥ (5569 लक्ष्यसाधकवार्तिकम्॥ 3 ॥) - वृद्धेर्वृधुषिभावः - (भाष्यम्) वृद्धेर्वृधुषिभावो वक्तव्यः। वार्धुषिकः॥

Kashika

तदिति द्वितीयासमर्थात् प्रयच्छतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति, यत् तद् द्वितीयासमर्थं गर्ह्यं चेत् तद् भवति। द्विगुणार्थं द्विगुणम्, तादर्थ्यात् ताच्छब्द्यम्। द्विगुणं प्रयच्छति द्वैगुणिकः। त्रैगुणिकः॥ वृद्धेर्वृधुषिभावो वक्तव्यः॥ वार्धुषिकः। प्रकृत्यन्तरं वा वृद्धिपर्यायो वृधुषिशब्दः। गर्ह्यमिति किम्? द्विगुणं प्रयच्छत्यधमर्णः॥

Siddhanta Kaumudi

द्विगुणार्थं द्विगुणं तत्प्रयच्छति द्वैगुणिकः । त्रैगुणिकः ।<!वृद्धेर्वृधुषिभावो वक्तव्यः !> (वार्तिकम्) ॥ वार्धुषिकः ॥

Balamanorama

प्रयच्छति गर्ह्यम् - प्रयच्छति गह्र्रम् । तदिति द्वितीयान्तमनुवर्तते । गर्ह्रं प्रयच्छतीत्यर्थे द्वितीयान्ताट्ठगित्यर्थः । द्विगुणार्थं द्रव्यं द्विगुणमिति । द्वैगुणिक इति वक्ष्यमाणोदाहरणे द्विगुणशब्देन द्विगुणार्थं द्रव्यं विवक्षितमित्यर्थः । तत्प्रय्च्छति द्वैगुणिक इति । द्विगुणीभवितुं स्वद्रव्यमृणं प्रयच्छतीत्यर्थः ।अशीतिभागो वृद्धिः स्यान्मासि मासि सबन्धकः॑ इत्यादिधर्मशास्त्रविरुद्धत्वादिह गह्र्रमिति भावः । वृद्धेरिति । वृद्धिशब्दादुक्तार्थे ठकि प्रकृतेत्र्रधुषि इत्यादेशो वाच्य इत्यर्थः । इकारान्त आदेशः । वार्धुषिक इति । वृद्ध्यर्थं द्रव्यं-वृद्धिः, तत्प्रयच्छतीत्यर्थे वृद्धिशब्दाट्ठक इकादेशे प्रकृतेर्वृधुष्यादेश इति भावः ।वृद्ध्याजीवस्तु वार्धुषि॑रिति तु प्रमाद एव ।

Tattvabodhini

प्रयच्छति गर्ह्यम् - प्रयच्छति । द्वितीयान्तात्प्रच्छतीत्यर्थे ठक्स्याद्यत्प्रयच्छति गर्ह्रं चेत्तत् । द्विगुणार्थे द्विगुणमिति । तादथ्र्यात्ताच्छब्द्यमिति भावः । बहुवृद्ध्युद्देश्यकदानकर्मतयाऽस्य द्रव्यस्य गह्र्रत्वम् ।वृद्धेर्वुधुषिभावो वक्तव्यः । वार्द्धुषिक इति । वृद्द्यर्थं वृद्धिः । तां प्रयच्छतीति विग्रहः । अथ कथंवृद्द्याजीवश्च वार्धुषि॑रित्यमरः, ठक्सन्नियोगेनैव वृधुषिभावस्वीकारात् । अत्राहुः — निरङ्कुशाः कवय इति । गह्र्रमिति किम् । द्विगुणं त्रिगुणं वा वृदिंध प्रत्यच्छत्यधमर्ण इत्यर्थेद्वैगुणिक॑इत्यादि माभूत् ।

Padamanjari

द्विगुणार्थं द्विगुणमिति । द्वैगुणिक उतमर्ण उच्यते, न चासौ द्विगुणं प्रयच्छति, किं तर्ह्येकगुणं दत्वा द्विगुणं गृह्णाति, अत एव तद्गर्ह्यं भवतीति । तस्माद् द्विगुणार्थे द्विगुणशब्दो वर्तयितव्यः । वार्धुषिक इति । वृद्ध्यर्थे धने वृद्धिशब्दः । प्रकृत्यन्तरमेवेति । एतच्च वार्धुषिक इत्येतद्वृत्तिविषयमेव । नियतविषया अपि हि शब्दा भवन्ति, वृद्धिशब्दादनभिधानान्नैव भविष्यति, तेन वार्धिक इत्यनिष्टप्रसङ्गो नोद्भावनीयः । अत कथम्’वार्धुदासमकम्पत ववान्यस्य च वार्द्धुषेः’ इति ? स्वच्छन्दवाच ऋषयः ॥

Nyaas

द्विगुणम् इति। तादथ्र्यात् ताच्छब्द्यं दर्शयति। आद्विगुणार्थे वस्तुनि द्विगुणशब्दं वर्तयित्वा तत्र प्रत्ययं कुर्वतः कोऽभिप्रायः? एवं मन्यते - द्वैगुणिक इति उत्तमर्ण उच्यते, न चासौ द्विगुणं प्रयच्छति, किं तर्हि? स्कन्दयित्वा द्विगुणं गृह्णाति; अन्यथा हि विपर्यये सति प्रसस्यमेव स्यात्, न तु गह्र्रम्। यदैकस्मिन्नर्थे तादथ्र्याद्द्विगुणशब्दो वर्तते तदैकमेव द्विगुणार्थं प्रयच्छतो द्विगुणमेव भवतीति गह्र्रमिति। गर्हा पुनरिह प्रतिषिद्धस्य शास्त्रेण दीयमानस्य प्रत्यवायहेतुत्वाद्वेतितव्या। प्रकृत्यन्तरम् इत्यापिनोपसंख्यानं प्रत्याचष्टे`। तत्रापि तादथ्र्याद्वृद्ध्यर्थं यद्दीयते तद्वृधुधिशब्देनोच्यते। ननु च तत्प्रत्याख्याने वृद्धिशब्दात् प्रत्यये सति वार्धिक इत्यपि स्यात्? नैष दोषः; अव्यविकन्यायेन हि वृद्धिशब्देन वाक्यमेव भवति। वृधुषिशब्देन वाक्यं वृत्तिश्च॥

Prakriyasarvasvam

गर्ह्यदेयवाचकात् तत् प्रयच्छतीत्यर्थे ठक् । द्विगुणार्थं द्रव्यं द्विगुणं, तद्दाता द्वैगुणिकः । त्रैगुणिकः । द्विगुणाद्यर्थं दानस्य निषिद्धत्वात् गर्ह्यत्वम् । ‘वृद्धेर्वृधुषि- भावश्च वाच्यः’ (वा०) । वृद्ध्यर्थं द्रव्यं वृद्धिः । तद्दाता वार्धुषिकः ॥

Vartika

वृद्धेर्वुधुषिभावो वक्तव्यः ।