44031: कुसीददशैकादशात् ष्ठन्ष्ठचौ ================================= **Padacheda:** कुसीद-दशैकादशात् | S | 5 | 1 | ष्ठन्-ष्ठचौ | S | 1 | 2 | Sutrartha --------- **'गर्ह्यम् प्रयच्छति' अस्मिन् अर्थे 'कुसीद'शब्दात् ष्ठन्, तथा 'दशैकादश'शब्दात् ष्ठच्-प्रत्ययः भवति ।** 'गर्ह्यम्' इत्युक्ते 'निन्द्यम् / धर्मशास्त्रविरुद्धम्' । 'प्रयच्छति' इत्युक्ते ददाति । यत्र नियमबाह्यरूपेण (= निन्द्यरूपेण) किञ्चन धनम् दीयते, यत्र दातुः निर्देशं कर्तुम् द्वितीयासमर्थात् औत्सर्गिकरूपेण **प्रयच्छति गर्ह्यम्** (4.4.30) इत्यनेन ठक्-प्रत्यये प्राप्ते 'कुसीद' तथा 'दशैकादश' शब्दयोः विषये तं बाधित्वा क्रमशः ष्ठन् तथा ष्ठच् प्रत्ययौ भवतः । क्रमेण पश्यामः - 1. 'कुसीद' - 'कुसीद' इत्युक्ते वृद्ध्यर्थम् यत् दीयते तत् धनम् । कश्चन धनिकः यदि धर्मबाह्याम् वृद्धिम् प्राप्तुम् किञ्चन धनम् ऋणरूपेण ददाति, तर्हि तत् धनम् 'गर्ह्यम् कुसीदम्' नाम्ना ज्ञायते । एतस्यां स्थितौ धनिकस्य निर्देशं कर्तुम् कुसीद-शब्दात् ष्ठन्-प्रत्ययः क्रियते । कुसीदं गर्ह्यम् प्रयच्छति सः = कुसीद + ष्ठन् → कुसीदिक । 2. दशैकादश - यत्र दशमुद्राः ऋणरूपेण दत्त्वा एकादशमुद्राः व्याजरूपेण इष्यन्ते, तत्र दत्तं ऋणम् 'दशैकादश' नाम्ना ज्ञायते । ('एकादश च ते दश च ते दशैकादशाः' इति अयं शब्दः सिद्ध्यति ) । एतत् दशैकादशम् गर्ह्यम् (नियमबाह्यम्) अस्ति चेत् दातुः निर्देशं कर्तुमस्मात् ष्ठच्-प्रत्ययः भवति । दशैकादशम् गर्ह्यम् प्रयच्छति सः = दशैकादश + ष्ठच् → दशैकादशिक । ज्ञातव्यम् - 1. 'ष्ठन्' तथा 'ष्ठच्' - द्वयोः प्रत्यययोः षकारः इत्संज्ञकः अस्ति । अतः स्त्रीत्वे विवक्षिते **षिद्गौरादिभ्यश्च** (4.1.41) इत्यनेन ङीष्-प्रत्ययः विधीयते । यथा - कुसीदं गर्ह्यम् प्रयच्छति सा = कुसीदिकी । दशैकादशम् गर्ह्यम् प्रयच्छति सा = दशैकादशिकी । 2. ष्ठन् प्रत्ययः 'नित्' अस्ति अतः 'कुसीदिक' शब्दस्य आदिस्वरः **ञ्नित्यादिर्नित्यम्** (6.1.197) इत्यनेन उदात्तः जायते । ष्ठच्-प्रत्ययः तु 'चित्' अस्ति, अतः 'दशैकादशिक' शब्दस्य अन्तिमस्वरः **तद्धितस्य** (6.1.164) इत्यनेन उदात्तः जायते । Vasu English Summary -------------------- The affixes ष्ठन् and ष्ठच् come respectively after the words कुसीद and दशैकादश when the sense is 'he gives for a mean motive'. Vasu English Translation ------------------------ The affixes ष्ठन् and ष्ठच् come respectively after the words कुसीद and दशैकादश when the sense is 'he gives for a mean motive'. The word कुसीद means 'interest'. The lending of ten (दश) on a condition that the borrower will pay eleven (एकादश) after a month is called दशैकादश ॥ This *sutra* debars ठक् ॥ The difference between the two affixes ष्ठन् and ष्ठच् is in the accent (6.1.197) and (6.1.163) Thus कुसीद + ष्ठन् = कु꣡सीदकः fem. कुसीदकी꣡ (6.1.41). So दशैकादशिकः꣡ fem की꣡ ॥ Kashika ------- प्रयच्छति गर्ह्यमित्येव। कुसीदं वृद्धिः, तदर्थं द्रव्यं कुसीदम्। एकादशार्था दश दशैकादशशब्देनोच्यन्ते। कुसीददशैकादशब्दाभ्यां यथासंख्यं ष्ठन् ष्ठच् इत्येतौ प्रत्ययौ भवतः प्रयच्छति गर्ह्यमित्येतस्मिन् विषये। ठकोऽपवादौ। कुसीदं प्रयच्छति कुसीदिकः। कुसीदिकी। दशैकादशिकः। दशैकादशिकी॥ Siddhanta Kaumudi ----------------- गर्ह्यार्थाभ्यामाभ्यामेतौ स्तः प्रयच्छतीत्यर्थे । कुसीदं वृद्धिस्तदर्थं द्रव्यं कुसीदं तत्प्रयच्छति कुसीदिकः । कुसीदिकी । एकादशार्थत्वादेकादश ते च ते वस्तुतो दशचेति विग्रहेऽकारः समासान्त इहैव सूत्रे निपात्यते । दशैकादशिकः । दशैकादशिकी । दशैकादशान्प्रयच्छतीत्युत्तमर्ण एवेहापि तद्धितार्थः ॥ Balamanorama ------------ **कुसीददशैकादशात् ष्ठन्ष्ठचौ** - कुसीद । गह्र्रार्थाभ्यामिति । कुसीद, तदशैकादश — आभ्यां द्वितीयान्ताभ्यां गह्र्रार्थकाभ्यां प्रयच्छतीत्यर्थे क्रमात्ष्ठन्ष्ठचौ स्त इत्यर्थः । षित्त्वं ङीषर्थमित्याह — कुसीदिकीति । नित्त्वचित्त्वयोस्तु स्वरे विशेषः । अथ ष्ठच् प्रकृतिं दशैकादशशब्दं व्युत्पादयति — एकादशार्थत्वादित्यादिना । यत्र एकादश निष्कान् अधिकान् प्रत्यर्पयेति समयं कृत्वा दश निष्का ऋणत्वेन दीयन्ते, तत्र ऋणत्वेन गृहीता दश निष्का एकादशार्थत्वादेकादशशब्देन उपचर्यन्ते । ततश्च एकादश च ते दश चेति कर्मधारयेसङ्ख्याया अल्पीयस्या॑ इति दशन्शब्दस्य पूर्वनिपातः । इहैव निपातनादकारः समासान्तः, टिलोपः, दशैकादशा इति रूपमित्यर्थः । दशैकादशिक इति । एकादश निष्खानधिकान् ग्रहीतुं दश निष्कान् अधमर्णाय प्रयच्छतीति यावत् । अथ लौकिकविग्रहवाक्यं दर्शयति — दशैकादशान् प्रयच्छतीति । इहापीति । विग्रहवाक्ये यथा उत्तमर्णः प्रधानत्वेन निर्दिश्यते, तथा समासेऽपि उत्तमर्ण एव ऋणदातैव तद्धितार्थः प्रधानभूत इत्यर्थः । Tattvabodhini ------------- **कुसीददशैकादशात् ष्ठन्ष्ठचौ** - निपात्यते इति । अतएव व्याख्यातृप्रयोगोऽप्युपपद्यत इत्याशयेनोदाहरति -दशैकादशानिति ।सङ्ख्याया अल्पीयस्याः॑इति पूर्वनिपातः । उत्तमर्ण एवेति । दश दत्त्वा एकादश गृह्णातीति तस्यैव गह्र्रत्वादिति भावः । Padamanjari ----------- तदर्थं द्रव्यं कुसीदमिति । अत्रापि कुसीदिक इत्युतमर्णस्याभिधानमिष्यते, न चोतमर्णः कुसीदं प्रयच्छति, किं तहि ? अधमर्णः, न च तस्य वृद्धिप्रदानं गर्ह्यम्, तस्मातादर्थ्याताच्छद्ब्यमिति भावः । एकादशार्थं दश दशैकादशशब्देनोच्यन्त इति तत्रैकादशशब्दस्यापि तदर्थेषु दशस्वेव वृतेः सामानाधिकरण्ये सति विशेषणसमासः,'संख्याया अल्पीयस्याः' इति दशशब्दस्य पूर्वनिपातः । दशैकादशादिति निर्देशादकारः समासान्तः । एवं वाक्यमप्यकारान्तेनैव भवति - दशैकादशान्प्रयच्छतीति ॥ Nyaas ----- तत्रापि कुसीदार्थे वस्तुनि दशैकादशार्थेषु च दशसु दशैकादशशब्दं वर्तयित्वा ततः प्रत्ययः। सर्वतः पूर्ववदभिप्रायो वेदितव्यः। दश चैकादश चेति समानाधिकरणसमासः। ननु च भिन्नविषययोः सामानाधिकरण्यं नोपपद्यते? दशैकादशशभ्दोऽप्येकादशार्थेषु दशस्वेवोपचराद्वर्तत इत्यदोषः। यो दश प्रयच्छत्येकादश एव स्युरिति स दशैकादश इत्युच्यते। दशैकादशादिति निर्देशादकारान्तत्वं निपात्यते; किमर्थम्? वाक्येऽप्यकारान्तत्वश्रवणार्थ दशैकादशान् प्रयच्छतीति॥ Prakriyasarvasvam ----------------- द्वौ क्रमात् स्तः । षो डीषर्थः स्वरे भेदः कुसीदं वृद्धिरुच्यते । तदर्थं द्रव्यमत्रोक्तं तत्प्रदाता कुसीदिकः ॥ २७० ॥ एकादशार्थं दशकं दशैकादशमुच्यते। तादृक् प्रयच्छन् धनिको दशैकादशिको मतः ॥ २७१ ॥