44018: अण् कुटिलिकायाः

Padacheda: अण् | S | 1 | 1 |

कुटिलिकायाः | S | 5 | 1 |

Sutrartha

‘हरति’ अस्मिन् अर्थे तृतीयासमर्थात् कुटिलिकाशब्दात् अण्-प्रत्ययः भवति ।

‘कुटिलिका’ (व्याधैः प्रयुज्यमाना विशिष्टप्रकारस्य यष्टिः) अस्मात् शब्दात् ‘हरति (= अन्यत्र नयति / हरणं करोति)’ अस्मिन् अर्थे अण्-प्रत्ययः विधीयते । यथा - कुटिलिकया हरति सः कौटिलिकः व्याधः । प्रक्रिया इयम् - कुटिलिका + अण् → कौटिलिका + अ [तद्धितेष्वचामादेः (7.2.117) इति आदिवृद्धिः] → कौटिलिक् + अ [यस्येति च (6.4.148) इति आकारलोपः] → कौटिलिक

Vasu English Summary

The affix अण् comes in the sense of ‘he conveys’ after the word कुटिलिका in the Instrumental -3rd case in construction.

Vasu English Translation

The affix अण् comes in the sense of ‘he conveys’ after the word कुटिलिका in the Instrumental -3rd case in construction. Thus कुटिलिकया हरति मृगो व्याधं = कौटिलिको मृगः ‘a deer which carries (or entices away) into crooked ways’ or ‘a hunter who hunts by coming stealthily on his prey’. कुटिलिकया हरति अङ्गारान् = कौटिलिकः कर्मारः ‘a blacksmith, – who carries burning coals on an iron forge’.

The word कुटिलिका means ‘crooked motion, and the iron-forge of the blacksmiths’.

Kashika

हरतीत्येव। कुटिलिकाशब्दात् तृतीयासमर्थादण् प्रत्ययो भवति हरतीत्येतस्मिन्नर्थे। कुटिलिकया हरति मृगो व्याधं कौटिलिको मृगः। कुटिलिकया हरत्यङ्गारान् कौटिलिकः कर्मारः। कुटिलिका वक्रगतिः, कर्माराणामायुधकर्षणी लोहमयी यष्टिश्चोच्यते॥

Siddhanta Kaumudi

कुटिलिका व्याधानां गतिविशेषः कर्मारोपकरणभूतं लोहं च । कुटिलिकया हरति मृगानङ्गारान्वा कौटिलिको व्याधः कर्मारश्च ॥

Balamanorama

अण् कुटिलिकायाः - अण् कुटिलिकायाः । हरतीत्यर्थे तृतीयान्तात्कुटिलिकाशब्दादण् स्यादित्यर्थः । कर्मारो लोहकारः, तस्य यत् अङ्गारतप्तलोहादिग्रहणसाधनं लोहविकारभूतं सन्दंशापरनामधेयं, तदपि कुटिलिकेत्यर्थः ।

Padamanjari

कुटिलव्याधानामुपरमणमु कुटिलिका, संज्ञायां कन् ॥

Prakriyasarvasvam

कुटिलगमनं सन्दंशो वा कुटिलिका । कुटिलगत्या व्याधं हरन् मृगः कौटिलिकः । कुटिलिकयाऽङ्गारान् हरन्नपि कौटिलिकः ॥

Sutra Prayogas

  • माल्यै- (भट्टिकाव्यम्): तत्र साधुः इति यत्।

  • शरण्यं (भट्टिकाव्यम्): तत्र साधुः इति यत्।

  • सामान्यांश्च (भट्टिकाव्यम्): तत्र साधुः इति यत्।