44018: अण् कुटिलिकायाः ====================== **Padacheda:** अण् | S | 1 | 1 | कुटिलिकायाः | S | 5 | 1 | Sutrartha --------- **'हरति' अस्मिन् अर्थे तृतीयासमर्थात् कुटिलिकाशब्दात् अण्-प्रत्ययः भवति ।** 'कुटिलिका' (व्याधैः प्रयुज्यमाना विशिष्टप्रकारस्य यष्टिः) अस्मात् शब्दात् 'हरति (= अन्यत्र नयति / हरणं करोति)' अस्मिन् अर्थे अण्-प्रत्ययः विधीयते । यथा - कुटिलिकया हरति सः कौटिलिकः व्याधः । प्रक्रिया इयम् - कुटिलिका + अण् → कौटिलिका + अ [**तद्धितेष्वचामादेः** (7.2.117) इति आदिवृद्धिः] → कौटिलिक् + अ [**यस्येति च** (6.4.148) इति आकारलोपः] → कौटिलिक Vasu English Summary -------------------- The affix अण् comes in the sense of 'he conveys' after the word कुटिलिका in the Instrumental -3rd case in construction. Vasu English Translation ------------------------ The affix अण् comes in the sense of 'he conveys' after the word कुटिलिका in the Instrumental -3rd case in construction. Thus कुटिलिकया हरति मृगो व्याधं = कौटिलिको मृगः 'a deer which carries (or entices away) into crooked ways' or 'a hunter who hunts by coming stealthily on his prey'. कुटिलिकया हरति अङ्गारान् = कौटिलिकः कर्मारः 'a blacksmith, -- who carries burning coals on an iron forge'. The word कुटिलिका means 'crooked motion, and the iron-forge of the blacksmiths'. Kashika ------- हरतीत्येव। कुटिलिकाशब्दात् तृतीयासमर्थादण् प्रत्ययो भवति हरतीत्येतस्मिन्नर्थे। कुटिलिकया हरति मृगो व्याधं कौटिलिको मृगः। कुटिलिकया हरत्यङ्गारान् कौटिलिकः कर्मारः। कुटिलिका वक्रगतिः, कर्माराणामायुधकर्षणी लोहमयी यष्टिश्चोच्यते॥ Siddhanta Kaumudi ----------------- कुटिलिका व्याधानां गतिविशेषः कर्मारोपकरणभूतं लोहं च । कुटिलिकया हरति मृगानङ्गारान्वा कौटिलिको व्याधः कर्मारश्च ॥ Balamanorama ------------ **अण् कुटिलिकायाः** - अण् कुटिलिकायाः । हरतीत्यर्थे तृतीयान्तात्कुटिलिकाशब्दादण् स्यादित्यर्थः । कर्मारो लोहकारः, तस्य यत् अङ्गारतप्तलोहादिग्रहणसाधनं लोहविकारभूतं सन्दंशापरनामधेयं, तदपि कुटिलिकेत्यर्थः । Padamanjari ----------- कुटिलव्याधानामुपरमणमु कुटिलिका, संज्ञायां कन् ॥ Prakriyasarvasvam ----------------- कुटिलगमनं सन्दंशो वा कुटिलिका । कुटिलगत्या व्याधं हरन् मृगः कौटिलिकः । कुटिलिकयाऽङ्गारान् हरन्नपि कौटिलिकः ॥ Sutra Prayogas -------------- * **माल्यै-** (भट्टिकाव्यम्): `तत्र साधुः` इति यत्। * **शरण्यं** (भट्टिकाव्यम्): `तत्र साधुः` इति यत्। * **सामान्यांश्च** (भट्टिकाव्यम्): `तत्र साधुः` इति यत्।