44017: विभाषा विवधवीवधात्¶
Padacheda: विभाषा | S | 1 | 1 |
विवध-वीवधात् | S | 5 | 1 |
Sutrartha¶
‘हरति’ अस्मिन् अर्थे तृतीयासमर्थात् ‘विवध’शब्दात् तथा ‘वीवध’शब्दात् विकल्पेन ष्ठन् प्रत्ययः भवति । पक्षे औत्सर्गिकः ठक्-प्रत्ययः अपि विधीयते ।
‘हरति (= अन्यत्र नयति / हरणं करोति’) अस्मिन् अर्थे विवध / वीवध (= बन्धनार्थम् प्रयुज्यमाना शृङ्खला) एताभ्यां शब्दाभ्याम् विकल्पेन ष्ठन् प्रत्ययः भवति, पक्षे प्राग्वहतेष्ठक् (4.4.1) इति औत्सर्गिकः ठक्-प्रत्ययः अपि विधीयते । यथा - 1. विवधेन हरति सः = विवध + ष्ठन् → विवध + ठ [षकारनकारयोः इत्संज्ञा, लोपः] → विवध + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → विवध् + इक [यस्येति च (6.4.148) इति अकारलोपः] → विवधिक स्त्रीत्वे विवक्षिते षिद्गौरादिभ्यश्च (4.1.41) इत्यनेन ङीष्-प्रत्ययं कृत्वा ‘विवधिकी’ इति रूपं सिद्ध्यति । 2. विवधेन हरति सः = विवध + ठक् → विवध + ठ [ककारस्य इत्संज्ञा, लोपः] → विवध + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → वैवध + इक [किति च (7.2.118) इति आदिवृद्धिः] → वैवध् + इक [यस्येति च (6.4.148) इति अकारलोपः] → वैवधिक स्त्रीत्वे विवक्षिते टिड्ढाणञ्.. (4.1.15) इत्यनेन ङीप्-प्रत्ययं कृत्वा वैवधिकी’ इति रूपं सिद्ध्यति । एवमेव ‘वीवध’ शब्दात् अपि ‘वीवधिक’ तथा ‘वैवधिक’ एते प्रातिपदिके सिद्ध्यतः । ज्ञातव्यम् - कौमुद्यां भाष्ये च एतत् सूत्रम् ‘विभाषा विवधात्’ इत्येव दत्तमस्ति । वीवधा-शब्दस्य कृते अपि अस्य सूत्रस्य प्रयोगः भवेत् एतत् निर्देशयितुम् भाष्यकारः <! वीवधाच्चेति वक्तव्यम् !> इति वार्त्तिकं पाठयति । कौमुदीकारः तु एकदेशविकृतमनन्यवत् अनया परिभाषया ‘विवध’शब्दवत् एव ‘वीवध’शब्दात् अपि एतौ प्रत्ययौ भवतः इति निर्देशयति ।
Vasu English Summary¶
The affix ष्ठन् optionally comes in the sense of ‘he conveys’ after the words 1. विवध and 2. वीवध being in the Instrumental -3rd case in construction.
Vasu English Translation¶
The affix ष्ठन् optionally comes in the sense of ‘he conveys’ after the words 1. विवध and 2. वीवध being in the Instrumental -3rd case in construction. In the altemative, the general affix ठक् will apply. Thus विवधेन हरति = वि꣡वधिकः f. विवधिकी॑; so also वी꣡वधिकः f. वीवधिकी꣡ ॥ When the affix is ठक्, we have वैवधिकः in both cases, the feminine being वैवधिकी꣡ ॥
The word विवध and वीवध are synomyms both meaning ‘a piece of wood carried on the shoulders to carry loads, on the road.’ विवधिकः meaning ‘a carrier of loads, a pedler’. The real sutra is विभाषा विवधात्, the Kasika has added वीवध from a Vartika.
Bhashya¶
विभाषा विवधात् (1755) (ष्ठनो विभाषाधिकरणम्) (5561 पूरकवार्तिकम्॥ 1 ॥) - वीवधाच्चेति वक्तव्यम् - वैवधिकः॥
Kashika¶
हरतीत्येव। विवधवीवधशब्दाभ्यां तृतीयासमर्थाभ्यां विभाषा ष्ठन् प्रत्ययो भवति। तेन मुक्ते प्रकृतष्ठग् भवति। विवधेन हरति विवधिकः। विवधिकी । वीवधिकः। वीवधिकी। ठक् खल्वपि — वैवधिकः। वैवधिकी। विवधवीवधशब्दौ समानार्थौ पथि पर्याहारे च वर्तेते॥
Siddhanta Kaumudi¶
विवधेन हरति विवधिकः । पक्षे ठक् । वैवधिकः । एकदेशविकृतस्यानन्यत्वाद्वीवधादपि ष्ठन् । वीवधिकः । वीवधिकी । वीवधवीवधशब्दौ उभयतो बद्धशिक्ये स्कन्धवाह्ये काष्ठे वर्तेते ॥
Balamanorama¶
विभाषा विवधात् (विवधवीवधात्) - विभाषा विवधात् ।हरतीत्यर्थे तृतीयान्तात् ष्ठ॑निति शेषः ।
Tattvabodhini¶
विभाषा विवधात् (विवधवीवधात्) - एकदेशविकृतस्येति ।वीवधाच्चेति वक्तव्य॑मिति वार्तिकं न्यायसिद्धार्थकथनपरमिति भावः । वृत्तिकृत्तु सूत्रे वीवशब्दं प्रक्षिप्यविभाषा विवधवीवधा॑दिति पपाठ ।
Padamanjari¶
पर्याहारे चेति । परित आह्रियतेऽनेन तण्डुलादिकोऽर्थ इति पर्याहारः उ उभयतो बद्धशिक्याआऽसवाह्यः काष्ठविशेष उच्यते । वीवधशब्दो वार्तिके दर्शनात्सूत्रे प्रक्षिप्तः ॥
Nyaas¶
पर्याहारे इति। परितः स ह्यियत इति पर्याहारः, मण्डलादिकमुच्यते॥
Prakriyasarvasvam¶
आभ्यां वा ष्ठन् । उभयतो बद्धशिक्यो भारदण्डो द्वयोरर्थः । तेन हरन् विवधिकः । वीवधिकः । वेत्युक्तेष्ठकि वैवधिकः ॥
Vartika¶
वीवधादपि ।