44016: भस्त्रादिभ्यः ष्ठन्

Padacheda: भस्त्रा-आदिभ्यः | S | 5 | 3 |

ष्ठन् | S | 1 | 1 |

Sutrartha

भ्रस्त्रादिगणस्य शब्देभ्यः तृतीयासमर्थेभ्यः ‘हरति’ अस्मिन् अर्थे ष्ठन्-प्रत्ययः भवति ।

भस्त्रादिगणे ये शब्दाः पाठ्यन्ते, तेभ्यः तृतीयासमर्थेभ्यः ‘हरति’ (= दूरं नयति / हरणं करोति) अस्मिन् अर्थे ष्ठन्-प्रत्ययः विधीयते । भस्त्रादिगणः अयम् - भस्त्रा, भरट, भरण, शीर्षभार, शीर्षेभार, अंसभार, अंसेभार । उदाहरणम् - भस्त्रया हरति सः = भस्त्र + ष्ठन् → भस्त्र + ठ [षकारनकारयोः इत्संज्ञा, लोपः] → भस्त्र + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → भस्त्र् + इक [यस्येति च (6.4.148) इति अकारलोपः] → भस्त्रिक । ष्ठन्-प्रत्यये षकारः इत्संज्ञकः अस्ति, तस्य प्रयोजनम् ‘षिद्गौरादिभ्यश्च (4.1.41) इत्यनेन स्त्रीत्वस्य विवक्षायाम् ङीष्-प्रत्ययविधानम्’ इति वर्तते । अतः ‘भस्त्रया हरति सा’ इत्यत्मिन् अर्थे भस्त्र + ष्ठन् + ङीष् → भस्रिकी इति रूपं सिद्ध्यति ।

Vasu English Summary

The affix ष्ठन् comes in the sense of ‘he conveys’ after the words भस्त्र etc. being in the Instrumental -3rd case in construction.

Vasu English Translation

The affix ष्ठन् comes in the sense of ‘he conveys’ after the words भस्त्र etc. being in the Instrumental -3rd case in construction. Thus भस्त्रया हरति = भ꣡स्त्रिकः “who conveys by means of a leathern bag, a carrier”. The feminine will be भस्त्रिकी꣡ (4.1.41). So भ꣡रटिकः f. भरटिकी꣡ ॥ The word भस्त्र means a leathern bellows by which the iron is heated, or a leathern bag in which grain &c, is carried.

1 भस्त्रा, 2 भरट, 3 भरण (भारण), 4 शीर्षभार, 5 शीर्षेभार, 6 असंभार, 7 अंसेभार ॥

Kashika

भस्त्रेत्येवमादिभ्यस्तृतीयासमर्थेभ्यो हरतीत्येतस्मिन्नर्थे ष्ठन् प्रत्ययो भवति। भस्त्रया हरति भस्त्रिकः। भस्त्रिकी। भरटिकः। भरटिकी॥ भस्त्रा। भरट। भरण। शीर्षभार। शीर्षेभार। अंसभार। अंसेभार। भस्त्रादिः॥

Siddhanta Kaumudi

भस्त्रया हरति भस्त्रिकः । षित्वान्ङीष् । भस्त्रिकी ॥

Balamanorama

भस्त्राऽऽदिभ्यः ष्ठन् - भस्त्रादिभ्यः ष्ठन् ।ष्ठ॑निति छेदः । हरतीत्यर्थे तृतीयान्तेभ्यो भस्त्रादिभ्यः ष्ठन् स्यादित्यर्थः । षित्त्वादिति ।ङी॑षिति शेषः ।

Tattvabodhini

भस्त्राऽऽदिभ्यः ष्ठन् - भस्त्रदिभ्यः ष्ठन् । भस्त्रा चर्मबिकारः ।॒शीर्षेभार॑शब्दोऽत्र पटते । निपातनाच्छीर्षभावः । सप्तमीसमाश्च, तत्पुरुषे कृती॑ति वा अलुक् । पक्षेशीर्षभारः॑ ।

Padamanjari

भस्त्रमु चर्मविकारः, येन लोहादि ध्मायते, येन वा धान्यादिकं नीयते,’हूयामाश्रुभसिभ्यस्त्रन्’ इति करणए त्रन् । शीर्षभारः, शीर्षेभार इति पठ।ल्ते, निपातनाच्छीर्षभावः सप्तमीसमासश्च,’तत्पुरुषे कृति बहुलम्’ इति सप्तम्या अलुक् ॥

Nyaas

भस्त्रादिषु शीर्षेभार इति पठते। तत्रास्मादेव निपातनाच्छिरसः शीर्षभावः, सप्तमी (2.1.39) इति योगविभागात्समासः, तत्पुरुषे कृति बहुलम् (6.3.14) इति पक्षे सप्तम्या अलुक्॥

Prakriyasarvasvam

ष्ठिदम् । ‘भस्त्राभरटभरणशीर्षभारांसेभारेभ्यः’ (भो० ४-४-६७) । भस्त्रया हरति भस्त्रिकः । भस्त्रिकी । भरटैर्भृत्यैर्हरन् भरटिकः । भरणिकः । शीर्षभारिकः । अंसेभारिकः । गणे पाठादलुक् । लुक् चास्ति । शीर्षभारिकः । अंसभारिकः ॥