44014: आयुधाच्छ च ================= **Padacheda:** आयुधात् | S | 5 | 1 | छ | S | | | 1 च | S | 0 | 0 | Sutrartha --------- **'जीवति' अस्मिन् अर्थे तृतीयासमर्थात् 'आयुध'शब्दात् ठन् तथा छ-प्रत्ययौ भवतः ।** आयुधस्य साहाय्येन यः जीवति, तस्य निर्देशार्थम् वर्तमानसूत्रेण आयुधशब्दात् ठन्-प्रत्ययः छ-प्रत्ययः च दीयेते । यथा - 1. आयुधेन जीवति = आयुध + ठन् → आयुध + इक [**ठस्येकः** (7.3.50) इति इक्-आदेशः] → आयुध् + इक [**यस्येति च** (6.4.148) इति अकारलोपः] → आयुधिक 2. आयुधेन जीवति = आयुध + छ → आयुध + ईय [**आयनेयीनीयः फढखच्छघां प्रत्ययादीनाम्** (7.1.2) इत्यनेन छकारस्य ईय्-आदेशः] → आयुध् + ईय [**यस्येति च** (6.4.148) इति अकारलोपः] → आयुधीय Vasu English Summary -------------------- The affixes छ and ठन् come in the sense of 'he conveys thereby' after the word आयुध। Vasu English Translation ------------------------ The affixes छ and ठन् come in the sense of 'he conveys thereby' after the word आयुध। Thus आयुधेन जीवति = आयुधीयः (formed by छ), or आयुधिकः (by ठन्) 'a mercenary soldier'. Kashika ------- आयुधशब्दाच् छप्रत्ययो भवति, चकारात् ठंश्च, जीवतीत्येतस्मिन् विषये। आयुधेन जीवति आयुधीयः। आयुधिकः॥ Siddhanta Kaumudi ----------------- चाट्ठन् । आयुधेन जीवति आयुधीयः । आयुधिकः ॥ Balamanorama ------------ **आयुधाच्छ च** - आयुधाच्छ च । जीवतीत्यर्थे तृतीयान्तादायुधशब्दाच्छः स्याट्ठन् चेत्यर्थः । Tattvabodhini ------------- **आयुधाच्छ च** - आयुधाच्छ छ । आयुध्यन्ते अनेनेति आयुधं ।घञर्थे कविधान॑मिति कः । Padamanjari ----------- आयुध्यतेऽनेनेति आयुधम्,'घञर्थे कविधानम्' इति कप्रत्ययः ॥ Prakriyasarvasvam ----------------- ठंश्च । आयुधेन जीवन्नायुधीयः । आयुधिकः ॥ Sutra Prayogas -------------- * **वृद्धौरसां** (भट्टिकाव्यम्): `उरसोऽणू च` इत्यण्।