44009: आकर्षात् ष्ठल्

Padacheda: आकर्षात् | S | 5 | 1 |

ष्ठल् | S | 1 | 1 |

Sutrartha

तृतीयासमर्थात् ‘आकर्ष’शब्दात् ‘चरति’ अस्मिन् अर्थे ष्ठल्-प्रत्ययः भवति ।

‘आकर्ष’ इत्युक्ते सुवर्णस्य परीक्षणे प्रयुज्यमानः कश्चन धातुः । यः कोऽपि तस्य साहाय्येन गच्छति / खादति तस्य निर्देशं कर्तुम् तृतीयासमर्थात् आकर्ष-शब्दात् ष्ठल्-प्रत्ययः भवति । आकर्षेण चरति = आकर्ष + ष्ठल् → आकर्ष + ठ [षकारलकारयोः इत्संज्ञा, लोपः] → आकर्ष + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → आकर्ष + इक [किति च (7.2.118) इति आदिवृद्धिः] → आकर्ष् + इक [यस्येति च (6.4.148) इति अकारलोपः → आकर्षिक । स्त्रीत्वे विवक्षिते षित्वात् षिद्गौरादिभ्यश्च (4.1.41) इत्यनेन ङीष्-प्रत्ययं कृत्वा ‘आकर्षिकी’ इति प्रातिपदिकं सिद्ध्यति । आकर्षेण चरति सा आकर्षिकी । ज्ञातव्यम् - कौमुद्यां दीक्षितः वदति - ‘आकषादिति पाठान्तरम्’ । इत्युक्ते, अस्मिन् सूत्रे ‘आकर्ष’ इत्यस्य स्थाने ‘आकष’ इत्यपि प्रयोगः कृतः दृश्यते । अतः ‘आकषेन चरति सः आकषिकः’ इत्यपि रूपम् साधुः एव ।

Vasu English Summary

The affix ष्ठल् comes in the sense of ‘he goes on by means thereof’ after the word आकर्ष।

Vasu English Translation

The affix ष्ठल् comes in the sense of ‘he goes on by means thereof’ after the word आकर्ष। This debars ठक् ॥ The ल् is for accent (6.1.193). The ष of ष्ठल् here is a part of the affix, contrary to what it was in sutra 7 ante. To remove the doubt where ष is the part of an affix, and where it is not, the following mnemonic verse has been composed : “आकार्षत् पर्पादेभस्त्रादिभ्यः कुसीदसूत्राच्च, आवसथात् किक्षरादेः षितः षडेते ठगधिकारे ॥ In the six Sutras 9.10, 16.31, 74, and 53, the affixes have indicatory ‘sh’ Here ष being इत्, the feminine is formed by ङीष् (4.1.41). Thus आकर्षेण चरति = आकर्षिक f. आकर्षिकी ॥ आकर्ष is a touch-stone by which gold is tested.

Kashika

आकर्षशब्दात् ष्ठल् प्रत्ययो भवति चरतीत्येतस्मिन्नर्थे। ठकोऽपवादः। लकारः स्वरार्थः। षकारो ङीषर्थः। आकर्षेण चरति आकर्षिकः। आकर्षिकी। आकर्ष इति सुवर्णपरीक्षार्थो निकषोपल उच्यते॥

Siddhanta Kaumudi

आकर्षो निकाषोपलः । आकषादिति पाठान्तरम् । तेन चरति आकर्षिकः । षित्वान्ङीष् । आकर्षिकी ॥

Balamanorama

आकर्षात् ष्ठल् - आकर्षात्ष्ठल् । तेन चरतीत्यर्थे तृतीयान्तादाकर्षशब्दात्ष्ठलित्यर्थः ।

Tattvabodhini

आकर्षात् ष्ठल् - पाठान्तरमिति । एतच्च भ्वादौकषखषे॑त्यादिदण्डकेआकषात्ष्ठ॑लिति माधवेनोपन्यस्तम् । किन्तुआकर्षात्पर्पादे॑रिति वार्तिकस्याननुगुणम् । तत्र हि नीरेफपाठे वृत्ताऽसङ्गप्रसङ्गात् ।

Padamanjari

आकर्षेति ।’पुंसि संज्ञायां घः प्रायेण’ इति अधिकरणे घः ॥

Nyaas

लकारः स्वरार्थः इति। लिति प्रत्ययात् पूर्वस्योदात्तत्वं यथा स्यात्। षकारो ङीषर्थः इति। षिद्गौरादिभ्यश्च (4.1.41) इति ङीष् यथा स्यात्। आकर्षिकी इति। स्वर्णपरीक्षार्थो निकषोपल उच्यते इति। आकृष्यते स्वर्णमिति कृत्वा।

Prakriyasarvasvam

निकषोपलेन चरन्नाकर्षिकः । षित्त्वादाकर्षिकी । आकषादिति पाठे आकषिकः ॥