44008: चरति¶
Padacheda: चरति | T | | |
Sutrartha¶
‘चरति’ अस्मिन् अर्थे तृतीयासमर्थात् औत्सर्गिकरूपेण ठक्-प्रत्ययः भवति ।
‘चरति’ इति चर्-धातोः लट्लकारस्य प्रथमपुरुषैकवचनम् । ‘चरति’ इत्यस्य अस्मिन् सूत्रे द्वौ अर्थौ स्वीक्रियेते - भक्षति, तथा गच्छति । द्वयोः अपि अर्थयोः सर्वेभ्यः प्रातिपदिकेभ्यः वर्तमानसूत्रेण औत्सर्गिकरूपेण ठक्-प्रत्ययः विधीयते । यथा - 1. दध्ना चरति (= भक्षति) सः दाधिकः । दधि + ठक् → दधि + इक [ठस्येकः (7.3.50) इति ठकारस्य इकारादेशः] → दाधि + इक [किति च (7.2.118) इति आदिवृद्धिः] → दाध् + इक [यस्येति च (6.4.148) इति इकारलोपः] → दाधिक 2. शकटेन चरति (= गच्छति) सः शाकटिकः । शकट + ठक् → शकट + इक [ठस्येकः (7.3.50) इति ठकारस्य इकारादेशः] → शाकट + इक [किति च (7.2.118) इति आदिवृद्धिः] → शाकट् + इक [यस्येति च (6.4.148) इति अकारलोपः] → शाकटिक 3. हस्तिना चरति (= गच्छति) सः हास्तिकः । हस्तिन् + ठक् → हस्तिन् + इक [ठस्येकः (7.3.50) इति ठकारस्य इकारादेशः] → हास्तिन् + इक [किति च (7.2.118) इति आदिवृद्धिः] → हास्त् + इक [नस्तद्धिते (6.4.144) इति टिलोपः] → हास्तिक
Vasu English Summary¶
After a word in the Instrumental -3rd case in construction comes the affix ठक् in the sense of ‘he goes on by means thereof’.
Vasu English Translation¶
After a word in the Instrumental -3rd case in construction comes the affix ठक् in the sense of ‘he goes on by means thereof’. The word चरति means both to go on and to eat. Thus दध्ना चरति = दाधिकः ‘who gets on, with being fed on curd, हास्तिकः ‘who travels by an elephant’.
Kashika¶
तेनेति तृतीयासमर्थात् चरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। चरतिर्भक्षणे गतौ च वर्तते। दध्ना चरति दाधिकः। हास्तिकः। शाकटिकः॥
Siddhanta Kaumudi¶
तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात् । हस्तिना चरति हास्तिकः । शाकटिकः । दध्ना भक्षयति दाधिकः ॥
Laghu Siddhanta Kaumudi¶
तृतीयान्ताद्गच्छति भक्षयतीत्यर्थयोष्ठक् स्यात्। हस्तिना चरति हास्तिकः। दध्ना चरति दाधिकः॥
Balamanorama¶
चरति - चरति । गच्छतिभक्षयतीति ।चरगतिभक्षणयो॑रिति चरधातोरर्थद्वये वृत्तेरिति भावः । हास्तिक इति । ठनि इके ‘नस्तद्धिते’ इति टिलोपः
Prakriyasarvasvam¶
तेन चरतीत्यर्थे ठक् । गतिर्भक्षणं च गृह्यते । हस्तिना चरन् हास्तिकः । दध्ना भुङ्क्त इति दाधिकः । स्वध्वरेण चरन् स्वाध्वरिकः । व्यावहारिकः । व्यायामिकः । स्वागतादित्वात्ठञन्न ॥
Sutra Prayogas¶
वैमानिकानां (रघुवंशम्): चरति इति ठक्प्रत्ययः।
श्वगणिवागुरिकैः (रघुवंशम्): चरति इति ठक्प्रत्ययः।
वैमानिकाः (रघुवंशम्): चरति इति ठक्प्रत्ययः।