44007: नौद्व्यचष्ठन्¶
Padacheda: नौ-द्व्यचः | S | 5 | 1 |
ठन् | S | 1 | 1 |
Sutrartha¶
‘तरति’ अस्मिन् अर्थे तृतीयासमर्थात् ‘नौ’शब्दात् तथा ‘द्व्यच्’ शब्दात् ठन्-प्रत्ययः भवति ।
यः ‘तरणं /प्लवनं करोति’ तस्य निर्देशं कर्तुम् तृतीयासमर्थात् ‘नौ’ शब्दात् तथा द्व्यच्-शब्दात् ‘तरति’ अस्मिन् अर्थे ठन्-प्रत्ययः भवति ।यथा - 1. नावा तरति सः = नौ + ठन् → नौ + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → नाविक [एचोऽयवायावः (6.1.78) इति आव्-आदेशः] 2. ‘द्व्यच्’ इत्युक्ते सः शब्दः यस्मिन् द्वौ स्वरौ वर्तेते । यथा - बाहुभ्यां तरति सः = बाहु + ठन् → बाहु + क [इसुसुक्तान्तात् कः (7.3.51) इति ककारादेशः] → बाहुक तथैव - घटेन तरति सः घटिकः, प्लवेन तरति सः प्लविकः - अत्र सर्वत्र ठन्-प्रत्ययः क्रियते । ज्ञातव्यम् - अस्मिन् सूत्रे ‘नौद्व्यचष्ठन्’ इत्यत्र प्रत्ययः ‘ष्ठन्’ इति नास्ति, अपितु ‘ठन्’ इत्येव अस्ति । षकारः अत्र सन्धिकार्येण जायते - ‘द्व्यचस् + ठन्’ इत्यत्र ष्टुत्वे कृते षकारः आगच्छति । अतः षकारः अनुबन्धः (= इत्संज्ञकः) न ज्ञातव्यः । एतदेव स्पष्टीकर्तुमस्य सूत्रस्य व्याख्याने काशिकाकारः वदति - ‘ षकारः सांहितिको नानुबन्धः’ । किमस्य प्रमाणम्? यदि प्रत्यये षकारः इत्संज्ञकः अभविष्यत्, तर्हि स्त्रीत्वे विवक्षिते षिद्गौरादिभ्यश्च (4.1.41) इत्यनेन ङीष्-प्रत्ययः अभविष्यत् । परन्तु वस्तुतः अत्र अजाद्यतष्टाप् (4.1.4) इत्यनेन टाप्-प्रत्ययं कृत्वा ‘नाविका / घटिका / बाहुका’ एतादृशानि प्रातिपदिकानि सिद्ध्यन्ति । अतः काशिकाकारः अग्रे वदति - बाहुका स्त्री ।
Vasu English Summary¶
The affix ठञ् comes after the word नौ and after bases having two syllables in the sense of ‘he crosses therewith’.
Vasu English Translation¶
The affix ठञ् comes after the word नौ and after bases having two syllables in the sense of ‘he crosses therewith’. Karika आकर्षात्पर्पादभेर्स्त्रादिभ्यः कुसीदसूत्राच्च । अवासथात्किशरादेः षितः षडेते ठगधिकारे ॥
This debars ठक् ॥ Thus नावा तरति = नाविकः ‘a sailor’. So also after dissyllabic words: as, घटिकः, प्लविकः, बाहुकः ॥
The ष in ष्ठन् in the sutra is not part of the affix, but comes through sandhi rules. The feminine of बाहुकः being बाहुका ॥ In fact the indicatory ष् occurs in these sutras only (4.4.9), (4.4.10), (4.4.18), (4.4.53) and (4.4.74), in this book.
Kashika¶
नौशब्दाद् द्व्यचश्च प्रातिपदिकाट् ठन् प्रत्ययो भवति तरतीत्येतस्मिन्नर्थे। ठकोऽपवादः। नावा तरति नाविकः। द्व्यचः खल्वपि — घटिकः। प्लविकः। बाहुकः। षकारः सांहितिको नानुबन्धः। बाहुका स्त्री।
आकर्षात् पर्पादेर्भस्त्रादिभ्यः कुसीदसूत्राच्च।
आवसथात् किशरादेः षितः षडेते ठगधिकारे॥
विधिवाक्यापेक्षं च षट्त्वम्, प्रत्ययास्तु सप्त॥
Siddhanta Kaumudi¶
नाविकः । घटिकः । बाहुभ्यां तरति बाहुका स्त्री ॥
Balamanorama¶
नौद्व्यचष्ठन् - नोद्व्यचष्ठन् ।ठ॑निति च्छेदः । ष्टुत्वकृतः सस्य षकारः । तरतीत्यर्थे नौशब्दात् द्व्यचश्च तृतीयान्ताट्ठनित्यर्थः । नाविक इति । नावा तरतीत्यर्थः । घटिक इति । घटेन तरतीत्यर्थः । बाहुका स्त्रीति । उकः परत्वाट्ठस्य कः । अदन्तत्वाट्टाप् ।
Padamanjari¶
इह ठगधिकारे सूत्रे क्वचित्प्रत्ययस्यानुबन्धो ङीषर्थः । सहि कि सांहितिकः, किं वानुबन्धः ? इति तत्र सन्देहे विपयपरिगणनं करिष्यन्श्लोकवार्तिककारः सर्वानेव षितः परिगणयति - आकर्षादिति - यदि तु यत्र सन्देहस्तानेवोपादायैतावन्तष्ठगधिकारे षित इत्युच्येत, तदा आकर्षादिषु प्रत्ययस्याषित्वमनार्षमाशङ्क्येत । कुसीदसूत्रादिति । कुसीदादिकं सूत्रं यस्य तत्कुसीदसूत्रं कुसीदशब्दश्च, दशैकादशशब्दश्च । ननु सप्तैते भवन्ति, कुसीदादिसूत्रेण द्वयोः षितोर्विधानात् ? इत्यत आह - विधिवाक्यापेक्षं च षट्त्वमिति । सप्तानां प्रत्ययानां विधिवाक्यापेक्षमौपचारिकं पट्त्वमाश्रित्य’षितः षडेते’ इत्युक्तम् ॥
Nyaas¶
इह प्रकरणे केषुचित् संहितिकः षकारो दृष्टः, केषुचित्प्रत्ययस्यैवानुबन्धः;तदिह ठगधिकारे न ज्ञायते - कः सांहितिकः? कः प्रत्ययानुबन्धः? इति। अतोऽसन्देहार्थं परिगणनं कृतम्। तच्च आकर्षात्पर्पादिभ्यः इत्यादिना श्लोकेन करोति। आकर्षात् ष्ठल् (4.4.9) , पर्गादिभ्यष्ठन् (4.4.10) , भस्त्रादिभ्यष्ठन् (4.4.16) , कसुसीददशैकदशात् ष्ठन्ष्ठचौ (4.4.31) , आवसथात् ष्ठल् (4.4.74) , किशरादिभ्यः ष्ठन् (4.4.53) इति वितः षडेते। ननु च अन्यतो ङीष् (4.1.40) इत्यादयोऽन्येभ्योऽपि वितः सन्त्येव। तत्किमुच्यते षडेते? इत्यत आह - ठगधिकारे इत्यादि। ठकः प्रकृतत्वात् तदधिकारे ये षितः त एव परिगृह्रन्त इति दर्शयति।नन्वेवमपि सति सप्त भवन्ति, कुसादादि (4.4.31) सूत्रे षित्प्रत्ययद्वयविधानात्? इत्यत्राह - विधिवाक्यापेक्षं तु षट्त्वम् इति। षितः प्रत्ययानां सप्तत्वात्। एतेनैव योगाः षितः प्रयुक्ताः। षित्प्रत्ययार्थाः षडेते योगा इत्यर्थः॥
Prakriyasarvasvam¶
नावो द्व्यचोभ्यश्च तरत्यर्थे ठन् । नाविकः । प्लविकः । बाहुकः ॥