44006: गोपुच्छाट्ठञ्

Padacheda: गोपुच्छात् | S | 5 | 1 |

ठञ् | S | 1 | 1 |

Sutrartha

तृतीयासमर्थात् ‘गोपुच्छ’शब्दात् ‘तरति’ अस्मिन् अर्थे ठञ्-प्रत्ययः भवति ।

‘गोपुच्छ’ इत्युक्ते धेनोः पुच्छम् । तस्य साहाय्येन यः कोऽपि तरति, तस्य निर्देशं कर्तुम् तृतीयासमर्थात् ‘गोपुच्छ’शब्दात् ठञ्-प्रत्ययः भवति । यथा - गोपुच्छेन तरति सः = गोपुच्छ + ठञ् → गोपुच्छ + इक् [ठस्येकः (7.3.50) इति इक्-आदेशः] → गौपुच्छ + इक् [तद्धितेष्वचामादेः (7.2.117) इति ञित्-प्रत्यये परे अङ्गस्य आदिवृद्धिः] → गौपुच्छ् + इक [यस्येति च (6.4.148) इति अकारलोपः] → गौपुच्छिक ज्ञातव्यम् - प्राग्वहतेष्ठक् (4.4.1) अनेन सूत्रेण तरति (4.4.5) अस्मिन् अर्थे औत्सर्गिकरूपेण ठक्-प्रत्ययः क्रियते । परन्तु तं बाधित्वा वर्तमानसूत्रेण ठञ्-प्रत्ययः उक्तः अस्ति । वस्तुतः तु ठक्-प्रत्ययेन अपि ‘गौपुच्छिक’ इत्येव रूपं जायते, परन्तु तत्र स्वरे विशेषत्वं वर्तते । ठञ्-प्रत्ययान्तः यः ‘गौपुच्छिक’शब्दः, तस्य आदिस्वरः (औकारः) ञित्यादिर्नित्यम् (6.1.197) इत्यनेन उदात्तत्त्वं प्राप्नोति, तथा कित्-प्रत्यये परे तु तस्य अनुदात्तत्वम् जायते । इमं स्वरभेदं दर्शयितुमेव अत्र पाणिनिना ‘ठञ्’ प्रत्ययस्य विधानं कृतमस्ति ।

Vasu English Summary

The affix ठञ् comes after the word गोपुच्छ in the sense of ‘he crosses thereby’.

Vasu English Translation

The affix ठञ् comes after the word गोपुच्छ in the sense of ‘he crosses thereby’. The difference between ठक् and ठञ् is in the accent. Thus गौपुच्छिकः ॥

Kashika

गोपुच्छशब्दाट् ठञ् प्रत्ययो भवति तरतीत्येतस्मिन्नर्थे। ठकोऽपवादः। स्वरे विशेषः। गौपु॑च्छिकः॥

Siddhanta Kaumudi

गौपुच्छिकः ॥

Balamanorama

गोपुच्छाट्ठञ् - गोपुच्छाट्ठञ् ।तरतीत्यर्थे तृतीयान्ता॑दिति शेषः ।

Nyaas

स्वरे विशेषः`इति। ठकि हि सति तद्धितस्य `कितःर (6.1.159) इत्यन्तोदात्तत्वं स्यात्। ठञि सति ञित्सरेणाद्युदात्तत्वं भवति॥

Prakriyasarvasvam

ञित्त्वात् स्वरे भेदः । गोपुच्छेन तरन् गौपुच्छिकः ॥