44005: तरति¶
Padacheda: तरति | T | | |
Sutrartha¶
‘तरति’ अस्मिन् अर्थे तृतीयासमर्थात् ठक्-प्रत्ययः भवति ।
यः तरति (= प्लवति) तस्य निर्देशः तरणस्य साधनेन कर्तुम् साधनवाचिशब्दात् ठक्-प्रत्ययः भवति । यथा - 1. काण्डप्लवेन तरति सः काण्डप्लविकः । 2. उडुपेन तरति सः औडुपिकः । प्रक्रियायाः उदाहरणम् - उडुप + ठक् → उडुप + इक [ठस्येकः (7.3.50) इति इक्-आदेशः] → औडुप + इक [किति च (7.2.118) इति आदिवृद्धिः] → औडुप् + इक [यस्येति च (6.4.148) इति अकारलोपः] → औडुपिक
Vasu English Summary¶
The affix ठक् comes after a word in the Instrumental -3rd case in construction, in the sense of ‘he crosses thereby over the waters’.
Vasu English Translation¶
The affix ठक् comes after a word in the Instrumental -3rd case in construction, in the sense of ‘he crosses thereby over the waters’. Thus काण्डप्लवेनतरति = काण्डप्लविकः, औडुपिकः ‘who crosses with a raft’.
Kashika¶
तेनेति तृतीयासमर्थात् तरतीत्येतस्मिन्नर्थे ठक् प्रत्ययो भवति। तरति प्लवत इत्यर्थः। काण्डप्लवेन तरति काण्डप्लविकः। औडुपिकः॥
Siddhanta Kaumudi¶
उडुपेन तरति औडुपिकः ॥
Laghu Siddhanta Kaumudi¶
तेनेत्येव। उडुपेन तरति औडुपिकः॥
Prakriyasarvasvam¶
तेन तरतीत्यर्थे ठक् । उडुपेन तरन्नौडुपिकः ।<!दोषष्ठस्य को वाच्यः!> (वा० ७-३-५१) । नत्विकः । दोष्णा तरन् दौष्कः । उणादिसत्वात् षः ॥