43168: कंसीयपरशव्ययोर्यञञौ लुक् च¶
Padacheda: कंसीय-परशव्ययोः | S | 6 | 2 |
यञ्-अञौ | S | 1 | 2 |
लुक् | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affixes यञ् and अञ् come respectively in the sense of ‘its product’ after the words 1. कंसीय and 2. परशव्य and there is लुक् elision (of the छ and यत् affixes of those words).
Vasu English Translation¶
The affixes यञ् and अञ् come respectively in the sense of ‘its product’ after the words 1. कंसीय and 2. परशव्य and there is लुक् elision (of the छ and यत् affixes of those words). The word कंसीयः is formed by छ (5.1.1), and परशव्य is formed by adding यत् (5.1.2). These affixes छ and यत् are elided when the affixes यञ् and अञ् are added. Thus कंसीय + यञ् = कंस + यञ् = कांस्यः so also पारशव from परशव्य thus परशव्य + अञ् = परशु + अञ् = पारशवः ॥
The words लुक् च mean ‘there shall be elision’. Of what? Certainly not of the primitive, for लुक् is never applied to the elision of a base, but of an affix only (1.1.61). It follows therefore that the elision is of the affixes of कंसीय and परशव्य ॥ Now these words have two affixes, thus. To the root कम् is added first the Unadi affix स (Un III.62) and we get कंस; next to कंस is added छ. So also to पर + शृ is added the affix उ (Un I.33) and we have परशु, to which is then added यत् and we have परशव्य ॥ The question arises, should these affixes स and उ be also elided. The answer is ‘no’. The word प्रातिपदिकात् of (4.1.1) is understood is this sutra; so the elision will take place of those affixes only which follow a pratipadika. But स and उ are added to a Dhatu and not a pratipadika, hence those affixes are saved from the operation of लुक् ॥
The word परशव्य being gravely accented on the first (6.1.185) would have taken अञ् by (4.3.140). The present sutra teaches the elision only of its affix यत्, अञ् being already obtained.
The final अ of कंसीय and परशव्य will be elided by (6.4.148) before these taddhita affixes, and after such elision, the final य् will be elided by (6.4.150), where is then the necessity of this sutra?
The final य् will not be elided, because (6.4.150) will apply only then, when an affix beginning with long ई follows, which is not the case here.
Kashika¶
प्राक्क्रीताच्छः (५.१.१) — कंसीयः। उगवादिभ्यो यत् (५.१.२) परशव्यः। कंसीयपरशव्यशब्दाभ्यां यथासंख्यं यञञौ प्रत्ययौ भवतस्तस्य विकार इत्येतस्मिन् विषये, तत्संनियोगेन च कंसीयपरशव्ययोर्लुग् भवति। कंसीयस्य विकारः कांस्यः। परशव्यस्य विकारः पारशवः। प्रातिपदिकाधिकाराद् धातुप्रत्ययस्य न लुग् भवति। परशव्यशब्दादनुदात्तादित्वादेवाञि सिद्धे लुगर्थं वचनम्। ननु च यस्येति० (६.४.१४८) इति लोपे कृते हलस्तद्धितस्य (६.४.१५०) इति यलोपो भविष्यति ? नैतदस्ति। ईतीति तत्र वर्तते ॥
॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य तृतीयः पादः॥
Siddhanta Kaumudi¶
कंसीयपरशव्यशब्दाभ्यां यञञौ स्तश्छयतोश्च लुक् । कंसाय हितं कंसीयम्, तस्य विकारः कांस्यम् । परशवे हितं परशव्यम्, तस्य विकारः पारशवः ॥
Balamanorama¶
कंसीयपरशव्ययोर्यञञौ लुक् च - कंसीयपरशब्द । अत्र यञञोर्न लुक्, विधिवैयथ्र्यात् । नापि प्रकृत्योः, प्रत्ययाऽदर्शनस्यैव लुक्त्वात् । अतः परिशेषात्प्रकृत्येकदेशयोश्छयतोरिति लभ्यते । तदाह — छयतोरिति । कंसीयमिति । कंसो नाम धातुर्लोहविशेषः ।तस्मै हित॑मिति छः । कांस्यमिति । कंसीयशब्दाद्यञि छस्य लुकि आदिवृद्धौयस्येति चे॑त्यकारलोपः । परशब्दमिति ।तस्मै हित॑मित्यधिकारेउगवादिभ्यो य॑दिति ओर्गुणेवान्तो यी॑त्यवादेशः । पारशव इति । परशब्दशब्दादञि यतो लुकि ओर्गुणे पारशवः ।हलस्तद्धितस्ये॑ति तु न, ईतीत्यनुवृत्तेः । अनापत्यत्वात्आपत्यस्य चे॑त्यपि लोपो न प्रसज्यत इति भावः ।*****इति बालमनोरमायाम् प्राग्दीव्यतीयाः ।*****अथ प्राग्घितीय प्रकरणम् । — — — — — — — — -
Tattvabodhini¶
कंसीयपरशव्ययोर्यञञौ लुक् च - कंसीयमिति ।प्राक्क्रीताच्छः॑इत्यधिकारेतस्मै हित॑मिति छः । तस्यै छस्यापवादतयाउगवादिभ्यो यत् -परशव्यं दारु । परशव्यशब्दस्याऽनुदात्तादित्वादञि[#ः] सिद्धे तत्संनियोगेन यतो लुगर्थं वचनम् । नचयस्येति॑यलोपे कृतेहलस्तद्धितस्ये॑ति यलोपेन सिद्धमिष्टमिति भ्रमितव्यम्, ईतीत्यनुवृत्तेः । इति तत्त्वबोधिन्याम् विकारार्थाः प्राग्दीव्यतीयाश्च ।अथ विसर्गसन्धिः॥ — — — — — — — विष्णुस्त्रातेति । प्रातिपदिकात्स्वैजसमौ॑डिति सुप्रत्यये तस्य रुत्वेखरवसानयो॑रिति विसर्गे च कृतेविसर्जनीयस्य स॑ इति सः । अस्य च रुत्वं नाशङ्क्यम्, रुत्वं प्रति विसर्जनीयसत्वस्याऽसिद्धत्वात् ।
Padamanjari¶
प्राक् क्रीताच्छेन कंसीय इति ।’प्राक् क्रीताच्छः’ इत्यधिकारे’तस्मै हितम्’ इतिच्छप्रत्ययेन कंसीयशब्दो व्युत्पाद्यत इत्यर्थः । एतेनोगवादिभ्यो यता परशव्यशब्द इति व्याख्यातम् । तत्सन्नियोगेन च कंसीयपरशव्ययोर्लुग्भवतीति । प्रत्ययादर्शनस्य लुक्संज्ञाविधानातदवयवयोः प्रत्यययोर्लुग्भवतीत्यर्थः । अथ’वृतृहनिकषिकमिभ्यः सः’ इति सः, कंसशब्दे सप्रत्ययः । यश्च पराशृणोतीति परशुः, ठाङ्परयोः खनिशृभ्यांणिच्चऽ इति कुप्रत्ययस्तयोर्लुक्कस्मान्न भवति ? तत्राह - प्रातिपदिकाधिकारादिति । प्रातिपदिकाधिकारे हि तत; परयोश्च्छयतोर्लुग्भवति, न धातुप्रत्ययस्य, आह -‘ङ्याप्प्रातिपदिकग्रहणमङ्गपदसंज्ञार्थं यच्छयोश्च लुगर्थम्’ इति, ननु च ठतः कृकमिऽ इत्यत्र कंसग्रहणं लिङ्गम् - नावयमुणादिषु व्युत्पत्तिकार्यं भवतीति, तेनोकारसकारयोर्लुग्न भविष्यति ? सत्यम् ; वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणप्रत्ययविधौ तत्सम्प्रत्ययार्थमवश्यकर्तव्यस्य ङ्याप्प्रातिपदिकग्रहणस्यानुषङ्गिकं प्रयोजनं दर्शितम् । अत एव च’ङ्याप्प्रातिपदिकात्’ इत्यत्र नेदं वृत्तिकृता दर्शितम् ॥
Nyaas¶
कंसीयः`इति। उणादौ कंसशब्दः सप्रत्ययान्तो व्युत्पादितः। पशुशब्दोऽपि `पृथिविव्या {धृषिह्मषभ्यः -द।उ।} धृषिभ्यः कुःरक (द।उ।1।108) इत्यनुवर्तमाने आङ्परयोः खनिशृभ्यां {डिच्च -द।उ।, तिच्चेति प्रांउंयासपाठः} णिच्च (द।उ।1।118) इति कुप्रत्ययान्तः। तदनयोरपि धातुप्रत्यययोर्लुक्कस्मान्न भवति? इत्याह - प्रातिपदिकाधिकारात् इत्यादि। प्रातिपदिकादिति वर्तते, तेन प्रातिपदिकेभ्यो यो विहितस्तस्य लुग्भवति। ने चेमौ प्रातिपदिकाद्विहितौ, किं तर्हि? धातोः, अतोऽनयोर्लुग्न प्रवर्तते। अनुदात्तत्वादेव इति। परशव्यशब्दो हि तित्स्वरितम् (6.1.185) इत्यन्तस्वरितः। तेनानुदात्तादिः इति। ईतीति तत्र वर्तते इति। यस्यते च (6.4.148) इत्यतः॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायांचतुर्थाध्याये तृतीयः पादः
Sutra Prayogas¶
कांस्यम् (शिशुपालवधम्): कंसीयपरशव्ययोर्यञञौ लुक्च इति यज्प्रत्यये छस्य लुक्।
कांस्यम् (भट्टिकाव्यम्): कंसीयपरशव्ययोर्यजजौ लुक् च इति छस्य लुक् यञ् च प्रत्ययः।