43168: कंसीयपरशव्ययोर्यञञौ लुक् च ================================= **Padacheda:** कंसीय-परशव्ययोः | S | 6 | 2 | यञ्-अञौ | S | 1 | 2 | लुक् | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affixes यञ् and अञ् come respectively in the sense of 'its product' after the words 1. कंसीय and 2. परशव्य and there is लुक् elision (of the छ and यत् affixes of those words). Vasu English Translation ------------------------ The affixes यञ् and अञ् come respectively in the sense of 'its product' after the words 1. कंसीय and 2. परशव्य and there is लुक् elision (of the छ and यत् affixes of those words). The word कंसीयः is formed by छ (5.1.1), and परशव्य is formed by adding यत् (5.1.2). These affixes छ and यत् are elided when the affixes यञ् and अञ् are added. Thus कंसीय + यञ् = कंस + यञ् = कांस्यः so also पारशव from परशव्य thus परशव्य + अञ् = परशु + अञ् = पारशवः ॥ The words लुक् च mean 'there shall be elision'. Of what? Certainly not of the primitive, for लुक् is never applied to the elision of a base, but of an affix only (1.1.61). It follows therefore that the elision is of the affixes of कंसीय and परशव्य ॥ Now these words have two affixes, thus. To the root कम् is added first the *Unadi* affix स (*Un* III.62) and we get कंस; next to कंस is added छ. So also to पर + शृ is added the affix उ (*Un* I.33) and we have परशु, to which is then added यत् and we have परशव्य ॥ The question arises, should these affixes स and उ be also elided. The answer is 'no'. The word प्रातिपदिकात् of (4.1.1) is understood is this *sutra*; so the elision will take place of those affixes only which follow a *pratipadika*. But स and उ are added to a *Dhatu* and not a *pratipadika*, hence those affixes are saved from the operation of लुक् ॥ The word परशव्य being gravely accented on the first (6.1.185) would have taken अञ् by (4.3.140). The present *sutra* teaches the elision only of its affix यत्, अञ् being already obtained. Q. The final अ of कंसीय and परशव्य will be elided by (6.4.148) before these *taddhita* affixes, and after such elision, the final य् will be elided by (6.4.150), where is then the necessity of this *sutra*? A. The final य् will not be elided, because (6.4.150) will apply only then, when an affix beginning with long ई follows, which is not the case here. Kashika ------- **प्राक्क्रीताच्छः** (५.१.१) — कंसीयः। **उगवादिभ्यो यत्** (५.१.२) परशव्यः। कंसीयपरशव्यशब्दाभ्यां यथासंख्यं यञञौ प्रत्ययौ भवतस्तस्य विकार इत्येतस्मिन् विषये, तत्संनियोगेन च कंसीयपरशव्ययोर्लुग् भवति। कंसीयस्य विकारः कांस्यः। परशव्यस्य विकारः पारशवः। प्रातिपदिकाधिकाराद् धातुप्रत्ययस्य न लुग् भवति। परशव्यशब्दादनुदात्तादित्वादेवाञि सिद्धे लुगर्थं वचनम्। ननु च **यस्येति०** (६.४.१४८) इति लोपे कृते **हलस्तद्धितस्य** (६.४.१५०) इति यलोपो भविष्यति ? नैतदस्ति। ईतीति तत्र वर्तते ॥ ॥ इति श्रीजयादित्यविरचितायां काशिकायां वृत्तौ चतुर्थाध्यायस्य तृतीयः पादः॥ Siddhanta Kaumudi ----------------- कंसीयपरशव्यशब्दाभ्यां यञञौ स्तश्छयतोश्च लुक् । कंसाय हितं कंसीयम्, तस्य विकारः कांस्यम् । परशवे हितं परशव्यम्, तस्य विकारः पारशवः ॥ Balamanorama ------------ **कंसीयपरशव्ययोर्यञञौ लुक् च** - कंसीयपरशब्द । अत्र यञञोर्न लुक्, विधिवैयथ्र्यात् । नापि प्रकृत्योः, प्रत्ययाऽदर्शनस्यैव लुक्त्वात् । अतः परिशेषात्प्रकृत्येकदेशयोश्छयतोरिति लभ्यते । तदाह — छयतोरिति । कंसीयमिति । कंसो नाम धातुर्लोहविशेषः ।तस्मै हित॑मिति छः । कांस्यमिति । कंसीयशब्दाद्यञि छस्य लुकि आदिवृद्धौयस्येति चे॑त्यकारलोपः । परशब्दमिति ।तस्मै हित॑मित्यधिकारेउगवादिभ्यो य॑दिति ओर्गुणेवान्तो यी॑त्यवादेशः । पारशव इति । परशब्दशब्दादञि यतो लुकि ओर्गुणे पारशवः ।हलस्तद्धितस्ये॑ति तु न, ईतीत्यनुवृत्तेः । अनापत्यत्वात्आपत्यस्य चे॑त्यपि लोपो न प्रसज्यत इति भावः ।*****इति बालमनोरमायाम् प्राग्दीव्यतीयाः ।*****अथ प्राग्घितीय प्रकरणम् । — — — — — — — — - Tattvabodhini ------------- **कंसीयपरशव्ययोर्यञञौ लुक् च** - कंसीयमिति ।प्राक्क्रीताच्छः॑इत्यधिकारेतस्मै हित॑मिति छः । तस्यै छस्यापवादतयाउगवादिभ्यो यत् -परशव्यं दारु । परशव्यशब्दस्याऽनुदात्तादित्वादञि[#ः] सिद्धे तत्संनियोगेन यतो लुगर्थं वचनम् । नचयस्येति॑यलोपे कृतेहलस्तद्धितस्ये॑ति यलोपेन सिद्धमिष्टमिति भ्रमितव्यम्, ईतीत्यनुवृत्तेः । इति तत्त्वबोधिन्याम् विकारार्थाः प्राग्दीव्यतीयाश्च ।अथ विसर्गसन्धिः॥ — — — — — — — विष्णुस्त्रातेति । प्रातिपदिकात्स्वैजसमौ॑डिति सुप्रत्यये तस्य रुत्वेखरवसानयो॑रिति विसर्गे च कृतेविसर्जनीयस्य स॑ इति सः । अस्य च रुत्वं नाशङ्क्यम्, रुत्वं प्रति विसर्जनीयसत्वस्याऽसिद्धत्वात् । Padamanjari ----------- प्राक् क्रीताच्छेन कंसीय इति ।'प्राक् क्रीताच्छः' इत्यधिकारे'तस्मै हितम्' इतिच्छप्रत्ययेन कंसीयशब्दो व्युत्पाद्यत इत्यर्थः । एतेनोगवादिभ्यो यता परशव्यशब्द इति व्याख्यातम् । तत्सन्नियोगेन च कंसीयपरशव्ययोर्लुग्भवतीति । प्रत्ययादर्शनस्य लुक्संज्ञाविधानातदवयवयोः प्रत्यययोर्लुग्भवतीत्यर्थः । अथ'वृतृहनिकषिकमिभ्यः सः' इति सः, कंसशब्दे सप्रत्ययः । यश्च पराशृणोतीति परशुः, ठाङ्परयोः खनिशृभ्यांणिच्चऽ इति कुप्रत्ययस्तयोर्लुक्कस्मान्न भवति ? तत्राह - प्रातिपदिकाधिकारादिति । प्रातिपदिकाधिकारे हि तत; परयोश्च्छयतोर्लुग्भवति, न धातुप्रत्ययस्य, आह -'ङ्याप्प्रातिपदिकग्रहणमङ्गपदसंज्ञार्थं यच्छयोश्च लुगर्थम्' इति, ननु च ठतः कृकमिऽ इत्यत्र कंसग्रहणं लिङ्गम् - नावयमुणादिषु व्युत्पत्तिकार्यं भवतीति, तेनोकारसकारयोर्लुग्न भविष्यति ? सत्यम् ; वृद्धावृद्धावर्णस्वरद्व्यज्लक्षणप्रत्ययविधौ तत्सम्प्रत्ययार्थमवश्यकर्तव्यस्य ङ्याप्प्रातिपदिकग्रहणस्यानुषङ्गिकं प्रयोजनं दर्शितम् । अत एव च'ङ्याप्प्रातिपदिकात्' इत्यत्र नेदं वृत्तिकृता दर्शितम् ॥ Nyaas ----- `कंसीयः`इति। उणादौ कंसशब्दः सप्रत्ययान्तो व्युत्पादितः। पशुशब्दोऽपि `पृथिविव्या {धृषिह्मषभ्यः -द।उ।} धृषिभ्यः कुःरक` (द।उ।1।108) इत्यनुवर्तमाने `आङ्परयोः खनिशृभ्यां {डिच्च -द।उ।, तिच्चेति प्रांउंयासपाठः} णिच्च` (द।उ।1।118) इति कुप्रत्ययान्तः। तदनयोरपि धातुप्रत्यययोर्लुक्कस्मान्न भवति? इत्याह - `प्रातिपदिकाधिकारात्` इत्यादि। प्रातिपदिकादिति वर्तते, तेन प्रातिपदिकेभ्यो यो विहितस्तस्य लुग्भवति। ने चेमौ प्रातिपदिकाद्विहितौ, किं तर्हि? धातोः, अतोऽनयोर्लुग्न प्रवर्तते। `अनुदात्तत्वादेव` इति। परशव्यशब्दो हि **तित्स्वरितम्** (6.1.185) इत्यन्तस्वरितः। `तेनानुदात्तादिः` इति। `ईतीति तत्र वर्तते` इति। `यस्यते च` (6.4.148) इत्यतः॥इति श्रीबोधिसत्त्वदेशीयाचार्यजिनेन्द्रबुद्धिपादविरचितायांकाशिकाविवरणपञ्जिकायांचतुर्थाध्याये तृतीयः पादः Sutra Prayogas -------------- * **कांस्यम्** (शिशुपालवधम्): `कंसीयपरशव्ययोर्यञञौ लुक्च` इति यज्प्रत्यये छस्य लुक्। * **कांस्यम्** (भट्टिकाव्यम्): `कंसीयपरशव्ययोर्यजजौ लुक् च` इति छस्य लुक् यञ् च प्रत्ययः।