43167: हरीतक्यादिभ्यश्च¶
Padacheda: हरीतक्य-आदिभ्यः | S | 5 | 3 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix denoting ‘fruit’ is elided by लुप् after the words हरीतकी etc.
Vasu English Translation¶
The affix denoting ‘fruit’ is elided by लुप् after the words हरीतकी etc. Here also there is concordance (1.2.51), As हरीतक्याः फलं = हरीतकी instead of हरीतकं ॥ So also कोशातकी, नखरजनी ॥ According to Patanjali, the concordance is with regard to gender only, the number will be governed by the sense, as हरीतकी फलं, हरीतक्यः फलानि ॥
1 हरीतकी, 2 कोशातकी, 3 नखरजनी (नखररजनी) 4 शष्कण्डी (शाकण्डी) 5 दाडी, 6 दोडी, 7 श्वेतपाकी, 8 अर्जुनपाकी, 9 द्राक्षा, 10 काला, 11 ध्वाक्षा (ध्वाङ्क्षा) 12 गभीका (गर्गरिका) 13 कण्टकारिका, 14 पिप्पली, 15 चिञ्चा (चिम्पा), 16 शेफालिका, 17 दडी ॥
Kashika¶
हरीतकी इत्येवमादिभ्यः शब्देभ्यः फले प्रत्ययस्य लुब् भवति। लुकि प्राप्ते लुपो विधाने युक्तवद्भावे स्त्रीप्रत्ययश्रवणे च विशेषः। हरीतक्याः फलं हरीतकी। कोशातकी। नखरजनी। अत्र च व्यक्तिर्युक्तवद्भावेनेष्यते, वचनं त्वभिधेयवदेव भवति। हरीतक्याः फलानि हरीतक्यः॥ हरीतकी। कोशातकी। नखरजनी। शष्कण्डी। दाडी। दोडी। दीडी। श्वेतपाकी। अर्जुनपाकी। काला। द्राक्षा। ध्वाङ्क्षा। गर्गरिका। कण्टकारिका। शेफालिका। येषां च फलपाकनिमित्तः शोषः (ग०सू० १०५)। पुष्पमूलेषु बहुलम् (ग०सू० १०६)। हरीतक्यादिः॥
Siddhanta Kaumudi¶
एभ्यः फलप्रत्ययस्य लुप्स्यात् । हरीतक्यादीनां लिङ्गमेव प्रकृतिवत् । हरीतक्याः फलानि हरीतक्यः ॥
Balamanorama¶
हरीतक्यादिभ्यश्च - हरीतक्यादिभ्यश्च । हरीतक्यादीनामिति । वार्तिकमिदम् । एषां प्रकृतिलिङ्गमेव लुप्तप्रत्ययार्थे अतिदिश्यते, नतु प्रकृतिवचनमपीत्यर्थः । हरीतक्य इति । जातिङीषन्तः प्रत्ययस्वरेणान्तोदात्तो हरीतकीशब्दः । ततोऽनुदात्तादित्वादञि तस्यफले लु॑गिति लुकि प्राप्ते लुपि युक्तवत्त्वात्स्त्रीत्वे विशेष्यानुरोधाद्बहुवचनम् ।
Tattvabodhini¶
हरीतक्यादिभ्यश्च - हरीतक्यादिभ्यश्च । इह द्राक्षाप्रभृतिभ्योनित्यं वृद्धे॑ति प्राप्तस्य मयटो लुप्, अनुदात्तादिभ्योऽञः, इतरेभ्यस्त्वणः । लिङ्गमेवेति । वचनं तु विशेष्यवदेव,हरीतक्यादिषुव्यक्ति॑रित्युक्तत्वादिति भावः ।
Padamanjari¶
हरीतक्यादिषु द्राक्षाप्रभृतिभ्यो मयटो लुप्, उदातादिभ्योऽणः, अनुदातादिभ्योऽञः ॥
Nyaas¶
हरीतक्यादिषु कण्टकारिका,गर्गारिका, शेफालिका - इत्येते संज्ञायां कन् (5.3.87) इति कन्नन्तत्वान्नित्स्वरेणाद्युदात्ताः। तेनैव तेभ्य औत्सर्गिकस्याणो लुप्। शेषेभ्यस्त्वनुदात्तादिलक्षणस्याञः, सर्वे तेऽन्तोदात्तत्वादनुदात्तादयः। तत्र काला, द्राक्षा, ध्राक्षा - इत्येतेभ्यः प्राग्ये पठन्ते ते ङीषन्तत्वादन्तोदात्ताः तत्र ओतपाकी, अर्जुनपाकी - इत्येतौ पाककर्णपर्ण (4.1.64) इत्यादिना ङीषन्तौ। शेषेभ्यस्तु गौरादित्वात् गौरादिभ्यश्च (4.1.41) । कालाद्राक्षाध्राक्षाशब्देभ्यः प्रातिपदिकस्वरेणान्तोदात्तेभ्यष्टाप्, सवर्णदीर्घत्वम्, एकादेश उदात्तेनोदात्तः (8.2.5) इत्युदात्तत्वम्। अतः कालादयोऽप्यन्तोदात्ताः॥
Prakriyasarvasvam¶
एभ्यः फले लुप् । हरीतक्याः फलं हरीतकी ।। एषु लिङ्गं प्रकृतिवद् वचनं तु विशेष्यवत् । एकत्वेऽपि हरीतक्या हरीतक्यः फलान्यतः ।। २६२ ।। ‘हरीतकीपथ्याम्लिकाचिञ्चाद्राक्षामृद्वीकापिप्पलीकणाकोशातकीश्वेतपाक्यादिभ्यः (भो० ४-४-३७) । आयुक्तेरेला कर्कटी इत्यादि । लुपि ‘फलपाकषोषिणामुप- सङ्ख्यानम्’ (वा०) । ते च व्रीह्यादयः । व्रीहयः । तिलाः । ‘पुष्पमूलेषु वाच्येषु बहुलं लुप्’ (वा०) मल्लिकायाः पुष्पं, मल्लिका । मालती । विदार्या मूलं, विदारी । बहुलोक्तेर्वरणपुष्पं वारणं, पाटलायाः पाटलम्, ऐरण्डं मूलमित्यादौ न लुप् । ‘करवीराशोकचम्पककदम्बादिभ्यो लुक्’ (४-४-४१) विशेष्यलिङ्गतार्थं लुगुक्तिः । करवीरम् । अशोकम् । आद्युक्तेः कुसुम्भ्याः पुष्पं कुसुम्भम् । कोविदारम् । कर्णिकारम् । ‘शिरीषह्रीवेरादिभ्यो वा लुक्’ (भो० ४-४-४२) । शैरीषं शिरीषं वा पुष्पम् । हैवेरं ह्रीवेरं वा मूलम् ॥