43161: द्रोश्च

Padacheda: द्रोः | S | 5 | 1 |

च | S | 0 | 0 |

Sutrartha


Vasu English Summary

The affix यत् comes in the sense of ‘product or part’ after the word द्रु।

Vasu English Translation

The affix यत् comes in the sense of ‘product or part’ after the word द्रु। This debars अञ् (4.3.139). Thus द्रु + यत् = द्रव्यम् (6.1.79).

Kashika

द्रुशब्दाद् यत् प्रत्ययो भवति विकारावयवयोरर्थयोः। ओरञोऽपवादः। द्रव्यम्॥

Siddhanta Kaumudi

द्रुर्वृक्षस्तस्य विकारोऽवयवो वा द्रव्यम् ॥

Balamanorama

द्रोश्च - द्रोश्च ।य॑दिति शेषः ।एकाचो नित्य॑मिति मयटःओरञि॑त्यस्य चापवादः ।

Tattvabodhini

द्रोश्च - द्रोश्च ।ओरञः॑,एकाचो नित्य॑मिति मयटश्चापवादोऽयम् । द्रव्यमिति ।ओर्गुणः॑,वान्तो यि प्रत्यये॑ ।द्रव्यगुणकर्मे॑त्यादिषु प्रयुज्यमानद्रव्यशब्दस्तु गुणैर्द्रूयते आश्रीयते इति द्रुधातोःअचो य॑दिति यत्प्रत्ययान्तः ।

Padamanjari

अञोऽपवाद इति । ठोरञ्ऽ इत्यस्य, सूत्रप्राप्त्यभिप्रायं चैतत् । एकाचो नित्यं मयटमिच्छन्तीति मयट् त्वस्मात्प्राप्नोति । द्रव्यमिति । गुणैः संद्रूयते प्राप्यत इति गुणसंद्रावः ॥

Prakriyasarvasvam

यत् स्यात् । वृक्षविकारो द्रव्यं पात्रम् । द्रव्या खट्वा । गुणाश्रयो द्रव्यमिति पृथिव्यादेर्द्रव्यसंज्ञा तु गुणैर्द्रूयते प्राप्यत इत्यचो यति साध्येति हरः ।।