43161: द्रोश्च ============== **Padacheda:** द्रोः | S | 5 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affix यत् comes in the sense of 'product or part' after the word द्रु। Vasu English Translation ------------------------ The affix यत् comes in the sense of 'product or part' after the word द्रु। This debars अञ् (4.3.139). Thus द्रु + यत् = द्रव्यम् (6.1.79). Kashika ------- द्रुशब्दाद् यत् प्रत्ययो भवति विकारावयवयोरर्थयोः। ओरञोऽपवादः। द्रव्यम्॥ Siddhanta Kaumudi ----------------- द्रुर्वृक्षस्तस्य विकारोऽवयवो वा द्रव्यम् ॥ Balamanorama ------------ **द्रोश्च** - द्रोश्च ।य॑दिति शेषः ।एकाचो नित्य॑मिति मयटःओरञि॑त्यस्य चापवादः । Tattvabodhini ------------- **द्रोश्च** - द्रोश्च ।ओरञः॑,एकाचो नित्य॑मिति मयटश्चापवादोऽयम् । द्रव्यमिति ।ओर्गुणः॑,वान्तो यि प्रत्यये॑ ।द्रव्यगुणकर्मे॑त्यादिषु प्रयुज्यमानद्रव्यशब्दस्तु गुणैर्द्रूयते आश्रीयते इति द्रुधातोःअचो य॑दिति यत्प्रत्ययान्तः । Padamanjari ----------- अञोऽपवाद इति । ठोरञ्ऽ इत्यस्य, सूत्रप्राप्त्यभिप्रायं चैतत् । एकाचो नित्यं मयटमिच्छन्तीति मयट् त्वस्मात्प्राप्नोति । द्रव्यमिति । गुणैः संद्रूयते प्राप्यत इति गुणसंद्रावः ॥ Prakriyasarvasvam ----------------- यत् स्यात् । वृक्षविकारो द्रव्यं पात्रम् । द्रव्या खट्वा । गुणाश्रयो द्रव्यमिति पृथिव्यादेर्द्रव्यसंज्ञा तु गुणैर्द्रूयते प्राप्यत इत्यचो यति साध्येति हरः ।।