43162: माने वयः¶
Padacheda: माने | S | 7 | 1 |
वयः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix वय comes in the sense of ‘product’ after the word द्रु , the word meaning ‘a measure’.
Vasu English Translation¶
The affix वय comes in the sense of ‘product’ after the word द्रु , the word meaning ‘a measure’. This debars यत् ॥ As द्रुवयम् ‘a measure.’
Kashika¶
द्रुशब्दाद् माने विकारविशेषे वयः प्रत्ययो भवति। यतोऽपवादः। द्रुवयम्॥
Siddhanta Kaumudi¶
द्रोरित्येव । द्रुवयम् । यौतवं द्रुवयं पाय्यमिति मानार्थकं त्रयम् ॥
Balamanorama¶
माने वयः - माने वयः । द्रोरित्येवेति । माने विकारे गम्ये द्रुशब्दाद्वयप्रत्ययः स्यादित्यर्थः ।
Tattvabodhini¶
माने वयः - माने वयः । यतोऽपवादः । द्रुवयमिति । द्रोर्विकारभूतं प्रस्थादिपरिमाणमित्यर्थः ।
Padamanjari¶
मीयते येन तन्मानं प्रस्थादि ॥
Prakriyasarvasvam¶
द्रोर्मी वाच्ये वयः स्यात् । द्रुवयं वृक्षकृतं मानम् ।।