43135: अवयवे च प्राण्योषधिवृक्षेभ्यः

Padacheda: अवयवे | S | 7 | 1 |

च | S | 0 | 0 |

प्राणि-ओषधि-वृक्षेभ्यः | S | 5 | 3 |

Sutrartha


Vasu English Summary

An affix comes after a word denoting an animal, a herb and a tree in Genitive -6th-Case in construction in the sense ‘this is its part’ (as well as ‘this is its modification’).

Vasu English Translation

An affix comes after a word denoting an animal, a herb and a tree in Genitive -6th-Case in construction in the sense ‘this is its part’ (as well as ‘this is its modification’). By the word च in the sutra, the phrase तस्य विकारः is also read into the sutra.

Thus कपोतस्य विकारोऽवयवो वा = कापोतः (4.3.154) ॥ So also मायूरः, तैत्तिरः ‘a modification, product or part of a peacock &c – viz a fan &c.’ So also ओषधिः as, मौर्वम् ‘product of Murva i.e. ashes or the stalk of Murva’. So also वृक्ष, as, कारीरं meaning “the stalk or the ashes of Karira tree”.

In the subsequent sutras, both the words विकार and अवयव have governing force. But after words which denote non-animals, non-plants or non-trees, the affixes have only the sense of विकार ॥ This is a rather unique case of double anuvritti, not co-extensive in every respect.

Bhashya

अवयवे च प्राण्योषधिवृक्षेभ्यः (1704) (अवयवार्थाधिकरणम्) (आक्षेपभाष्यम्) किमर्थं विकारावयवयोर्युगपदधिकारः? (5531 समाधानवार्तिकम्॥ 1 ॥) - विकारावयवयोरुक्तम् - (भाष्यम्) किमुक्तम्? तत्र तावदुक्तम् -भवव्याख्यानयोर्युगपदधिकारोऽपवादविधानार्थः, कृतनिर्देशौ हि ताविति। इहापि -विकारावयवयोर्युगपदधिकारोऽपवादविधानार्थः, कृतनिर्देशौ ह्येतावर्थौ -तस्येदम् (4.3.120) इति॥

Kashika

प्राण्योषधिवृक्षवाचिभ्यः शब्देभ्यः षष्ठीसमर्थेभ्योऽवयवे यथाविहितं प्रत्ययो भवति, चकाराद् विकारे च। तत्र प्राणिभ्योऽञं वक्ष्यति (४.३.१५४)। कपोतस्य विकारोऽवयवो वा कापोतः। मायूरः। तैत्तिरः। ओषधिभ्यः — मौर्वं काण्डम्। मौर्वं भस्म। वृक्षेभ्यः — कारीरं काण्डम्। कारीरं भस्म। इत उत्तरे प्रत्ययाः प्राण्योषधिवृक्षेभ्यो विकारावयवयोर्भवन्ति। अन्येभ्यस्तु विकारमात्रे। कथं द्वयमप्यधिक्रियते तस्य विकारः, अवयवे च प्राण्योषधिवृक्षेभ्य इति? विकारावयवयोर्युगपदधिकारोऽपवादविधानार्थः। कृतनिर्देशौ (४.३.१२०) हि तौ ॥

Siddhanta Kaumudi

चाद्विकारे । मयूरस्यावयवो विकारो वा मायूरः । मौर्वं काण्डं भस्म वा । पैप्पलम् ॥

Laghu Siddhanta Kaumudi

चाद्विकारे। मयूरस्यावयवो विकारो वा मायूरः। मौर्वं काण्डं भस्म वा। पैप्पलम्॥

Balamanorama

अवयवे च प्राण्योषधिवृक्षेभ्यः - अवयवे च प्रा.प्राणिवाचिन ओषधिवाचिनो वृक्षवाचिनश्च षष्ठन्तेभ्योऽवयवे विकारे च अणादयः उक्ता वक्ष्यमाणाश्च प्रत्यया यथाविहितं स्युः, अन्येभ्यस्तु विकारमात्र इत्यर्थः । प्राणिन उदारहरति — मायूर इति । ‘लघावन्ते’ इति मयूरशब्दो भध्योदात्तः । ततः ‘प्राणिरजतादिभ्यः’ इत्यञ् । ओषधेरुदाहरति — मौर्वमिति । मूर्वा ओषधिविशेषः । तस्या अवयवो विकारो वेत्यर्थः । औत्सर्गिकोऽण् ।अनुदात्तादेश्चे॑त्यञ् तु वक्ष्यमाणो न भवति,तृणधान्यानां च द्व्यषा॑मित्याद्युदात्तत्वात् । वृक्षस्योदाहरति — पैप्पलमिति । पिप्पलः-अआत्थः, तस्यावयवो विकारो वेत्यर्थः । ‘लघावन्ते’ इति मध्योदात्तः पिप्पलशब्दः ।अनुदात्तादेश्चे॑ति वक्ष्यमा॑णाऽञोभावे औत्सर्गिकोऽण् ।

Tattvabodhini

अवयवे च प्राण्योषधिवृक्षेभ्यः - चाद्विकार इति । तेन वक्ष्यमाणप्रत्ययाः प्राण्यदिभ्यस्त्रिभ्योऽर्थद्वये भवन्त्यन्येभ्यस्तु विकार एवेति फलितम् । मायूर इति ।प्राणिरजतादिभ्यः॑ इत्यञ् । अनुदात्तादेरञः सिद्धत्वादुदात्ताद्यर्थं, वृद्धेषुमयड्बाधनार्थ चावश्यकमिदं परत्वादनुदात्तादिष्वपि प्रवर्तते । ओषधिभ्य उदाहरति -मौर्वमिति । मूर्वाशब्दःतृणधान्यानां च द्व्यषा॑मित्याद्युदात्तः । पिप्पलशब्दस्तुलघावन्ते॑इत्यनेनाद्युदात्तः ।

Padamanjari

मौर्वमिति । मूर्वाशब्दः’तृणधान्यानां च द्व्यषाम्’ इत्याद्यौदातः । खदिरमिति । खादेः खदिरशब्दः किरच्प्रत्ययान्तो निपातितः, तेनानुदातादिलक्षणो वुञ् प्राप्नोति । यदि त्वणिष्यते, बिल्वादिषु पठितव्यः । कृतनिर्देशौ हि ताविति ।’तस्येदम्’ इत्यनेन । यद्यपि शैषिकनिवृत्यर्थत्वं पूर्वयोगस्य प्रयोजनमुक्तम्, तथापि तदनपेक्ष्य भास्मनम्, मार्तिकमित्यादौ तावदणादयः सिद्धा इत्यभिसन्धायेदमुक्तम् ॥

Prakriyasarvasvam

एतद्वाचिभ्यो विकारेऽवयवे च वाच्येऽण् । प्राणिभ्योऽञ् वक्ष्यते । ओषधेः- मौर्वं पत्रमित्यवयवे । मौर्वी ज्येति विकारे । वृक्षात्-खादिरं पत्रम् । खादिरं भस्म ॥ <karika> प्राण्योषधितरुभ्यस्तु विकारावयवार्थयोः । अन्येभ्यस्तु विकारेऽर्थे प्रत्ययाः स्युरतः परम् ॥ २६२ ॥ </karika>

Sutra Prayogas

  • चूते (कुमारसम्भवम्): अवयवे च प्राण्योषधिवृक्षेभ्यः इति विकारार्थोत्पन्नस्याण्प्रत्ययः।

  • कर्णिकारं (कुमारसम्भवम्): अवयवे च प्राण्योषधिवृक्षेभ्यः इत्युत्पन्नस्य तद्धितस्य।