43130: न दण्डमाणवान्तेवासिषु¶
Padacheda: न | S | 0 | 0 |
दण्ड-माणव-अन्तेवासिषु | S | 7 | 3 |
Sutrartha¶
Vasu English Summary¶
The affix वुञ् is not used after a Family-name when it denotes ‘a beginner pupil’ and ‘a boarder pupil’.
Vasu English Translation¶
The affix वुञ् is not used after a Family-name when it denotes ‘a beginner pupil’ and ‘a boarder pupil’. The word दण्डमाणवाः means a little naughty boy (माणव), the only means of instilling knowledge in whom is the rod (खण्ड), or whose principal sign of studentship is the ‘danda’ and nothing intrinsic. i.e. a mere beginner. The न is changed to ण in माणव by (4.1.161) karika. अन्तेवासिनः are pupils or boarders who live in their teacher’s house. The word ‘gotra’ is understood here. Thus दाक्षाः ‘the junior or the senior pupils of Dakshi.’ माहकाः ॥ So also गौकक्षा दण्डमाणवा अन्तेवासिनोवा ॥
Kashika¶
दण्डप्रधाना माणवा दण्डमाणवाः, अन्तेवासिनः शिष्याः। तेष्वभिधेयेषु वुञ् प्रत्ययो न भवति। गोत्रग्रहणमिहानुवर्तते, तेन वुञ्प्रतिषेधो विज्ञायते। गौकक्षाः दण्डमाणवा अन्तेवासिनो वा। दाक्षाः। माहकाः॥
Siddhanta Kaumudi¶
दण्डप्रधाना माणवा दण्डमाणवास्तेषु शिष्येषु च वुञ् न स्यात् । दाक्षा दण्डमाणवाः शिष्या वा ॥
Balamanorama¶
न दण्डमाणवान्तेवासिषु - न दण्ड । दण्डमाणवाश्च अन्तेवासिनश्च तेष्विति द्वन्द्वः । दाक्षा इति । दक्षस्यापत्यं दाक्षिः, तस्येमे दण्डमाणवाः, शिष्या वेत्यर्थे गोत्रत्वलक्षणो वुञ् न भवति, किंत्वौत्सर्गिकोऽणेव ।
Tattvabodhini¶
न दण्डमाणवान्तेवासिषु - न दण्ड ।॒तस्येदमि॑त्यनुवर्तते । तेषु शिष्यषु चेति ।प्रत्ययार्थविशेषणेष्वि॑ति शेषः । दाक्षा इति ।इञश्चे॑त्यण् ।
Padamanjari¶
दण्डप्राधाना माणवा इति । अर्थकथनमेतत् समासस्तु कर्मधारयः । सदा दण्डधारणाद्दण्डशब्दो माणवेषु वर्तते ॥
Nyaas¶
दण्डप्रधाना माणवा दण्डमाणवाः इति। मद्यमपदलोपिसमासं दर्शयति। स पुनर्मयूख्यंसकादित्वाद्वेतिव्यः। मयूरव्यंसकादेराकृतिगणत्वात्। वुञ्प्रत्ययो न भवति इति। एतेन वुञोऽयं प्रतिषेध इति दर्शयति। कथं पुनज्र्ञायते वुञोऽयं प्रतिषेध? इत्याह - गोत्रग्रहणम् इत्यादि। इह हि गोत्रग्रहणमनुवर्तते गोत्रचरणाद्वुञ् (4.3.126) इत्यतः, तेनायमर्थो भवति - तस्येदम् (4.3.120) इत्येतस्मिन्नर्थे यः प्रत्ययो गोत्रात् प्राप्नोति स दण्डमाणवान्तेवासिषु न भवतीति, गोत्रे वुञेव प्राप्नोतीति, अतस्तस्यैवायं प्रतिषेधो विधीयते। गौकक्ष्यशब्दाद्गर्गादियञन्तात् कण्वादिभ्यो गोत्रे (4.2.111) इत्यण्, पूर्ववद्यलोपः। दाक्षाः इति। दाक्षिप्लाक्षिमाहकिब्यः इञश्च (4.2.111) इत्यण्॥
Prakriyasarvasvam¶
दण्डप्रधाना माणवा दण्डमाणवाः तेषु । शिष्येषु च वाच्येषु गोत्राद् वुञुक्तो न स्यात् । दाक्षैरिमे दाक्षाः दण्डमाणवाः शिष्या वा । ‘इञश्च’ (४-२-११२) इत्येव । विप्राग्र्याणां ग्रामरक्षायर्थं यष्टिधारिणो न्यूनद्विजाः दण्डमाणवाः, वर्णिनामन्तेवास्यन्तर्भावात् ॥