43127: संघाङ्कलक्षणेष्वञ्यञिञामण् ================================= **Padacheda:** संघ-अङ्क-लक्षणेषु | S | 7 | 3 | अञ्-यञ्-इञाम् | S | 6 | 3 | अण् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix अण् comes in the sense of 'this is his' after a गोत्र (Patronymic) word ending with the affix अञ् or यञ् or इञ् , the words so formed expressing a multitude, a mark or a sign. Vasu English Translation ------------------------ The affix अण् comes in the sense of 'this is his' after a गोत्र (Patronymic) word ending with the affix अञ् or यञ् or इञ् , the words so formed expressing a multitude, a mark or a sign. The word संघ means 'congregation'. The word लक्षण and अङ्क should be distinguished. लक्षण means a mark which is the property of that person and forms a distinguishing feature of that person, as विद्या 'learning' is a लक्षण of the clan of *Bidas*, the *Bidas* being famous for learning. The word अङ्क is a mark which shows that the thing so marked is the property of another : as a mark on a cow showing to what person or clan that cow belongs. The अङ्क though occurring in a person or thing does not belong to that person or thing, as the mark of a cow does not belong to the cow, but the लक्षण is a mark which belongs to the person or thing wherein it is found. This *sutra* debars वुञ् of the last aphorism. Vart :- The word घोष 'a cow-pen', should also be read along with संघ &c. Thus the words so formed denote four things (1) congregation, (2) mark (3) sign (4) a hamlet or cowpen. This being so, the rule of mutual correspondence according to order of enumeration (1.3.10) does not apply. Thus अञन्तात् (4.1.104) -- बैदः 'a congregation, or mark or sign or a hamlet of the *Bidas*'. यञन्तात् (4.1.105) — गार्ग्य + अण् = गार्गः (6.4.148), (6.4.151) "a congregation, or a mark, or a sign or a hamlet belonging to the *Gargyas* ?" इञन्तात् (4.1.95) — दाक्षि + अण् = दाक्षः (6.4.148) 'a congregation &c of the *Dakshis*'. The ण् of अण् could not serve the purpose of *Vriddhi* here, for all the words to which this affix is added, have *Vriddhi* by virtue of the affixes अञ्, यञ् or इञ् in which they end. The अ would have served the purpose as well, so far as *Vriddhi* is concerned, but अण् is used to show that the feminine is formed by ङीप् (4.1.15), Thus बैदी ॥ It further prevents पुंवद्भाव in compounds (6.3.39), as, बैदी विद्याऽस्य = बैदीविद्यः i.e. बिदानामसाधारणी या विद्या सा यस्यास्ति स ॥ Bhashya ------- सङ्घाङ्कलक्षणेष्वञ्ञ्यञ्ञिञ्ञामण् (1697) (अण्प्रत्ययाधिकरणम्) (5521 सिद्धान्तवार्तिकम्॥ 1 ॥) - सङ्घादिषु घोषग्रहणम् - (भाष्यम्) सङ्घादिषु घोषग्रहणं कर्तव्यम्। गार्गो घोषः, वात्सो घोषः। (एकदेशिनो णकारप्रयोजनभाष्यम्) किमर्थो णकारः? वृद्ध्यर्थः, ञ्ञ्णितीति वृद्धिर्यथा स्यात्॥ (5522 पूर्वपक्षवार्तिकम्॥ 2 ॥) - सङ्घादिषु प्रत्ययस्य णित्करणानर्थक्यं वृद्धत्वात्प्रातिपदिकस्य - (भाष्यम्) सङ्घादिषु प्रत्ययस्य णित्करणमनर्थकम्। किं कारणम्? वृद्धत्वात् प्रातिपदिकस्य। वृद्धमेवैतत् प्रातिपदिकम्॥ (5526 समाधानवार्तिकम्॥ 3 ॥) - लिङ्गपुंवद्भावप्रतिषेधार्थं तु - (भाष्यम्) लिङ्गपुंवद्भावप्रतिषेधार्थं तु णकारः कर्तव्यः। लिङ्गार्थम् -वैदी। पुंवद्भावप्रतिषेधार्थम् -वैदी स्थूणाऽस्य वैदीस्थूणः। वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधो यथा स्यात्॥ Kashika ------- संघादिषु प्रत्ययार्थविशेषणेष्वञन्ताद्, यञन्ताद्, इञन्तात् च प्रातिपदिकादण् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। पूर्वस्य वुञोऽपवादः॥ घोषग्रहणमत्र कर्तव्यम्॥ तेन वैषम्याद् यथासंख्यं न भवति। अञन्तात् — बैदः संघः। बैदोऽङ्कः। बैदं लक्षणम्। बैदो घोषः। यञन्तात् — गार्गः संघः। गार्गोऽङ्कः। गार्गं लक्षणम्। गार्गो घोषः। इञन्तात् — दाक्षः संघः। दाक्षोऽङ्कः। दाक्षं लक्षणम्। दाक्षो घोषः। अङ्कलक्षणयोः को विशेषः ? लक्षणं लक्ष्यस्यैव चिह्नभूतं स्वं यथा विद्या बिदानाम् अङ्कस्तु गवादिस्थोऽपि गवादीनां स्वं न भवति। णित्करणं ङीबर्थं पुंवद्भावप्रतिषेधार्थं च। बैदी विद्यास्य बैदीविद्यः॥ Siddhanta Kaumudi ----------------- । (वार्तिकम्) ॥ अञ्, बैदः सङ्घोऽङ्को घोषो वा । बैदं लक्षणम् । यञ्, गार्गः । गार्गम् । इञ्, दाक्षः । दाक्षम् । परम्परासंबन्धोऽङ्कः साक्षात्तु लक्षणम् ॥ Padamanjari ----------- पूर्वस्य युञोऽपवाद इति । गोत्रग्रहणानुवृतेरजादीनां गोत्रप्रत्ययानामत्र ग्रहणमिति भावः । घोषग्रहणमत्र कर्तव्यमिति । घोषः उ आभीरस्थानम्, तत्रपि प्रत्ययो यथा स्यादित्येवमर्थम् । घोषग्रहणस्यानुषङ्गिकं प्रयोजनान्तरमाह - तेन वैषम्यादिति । अथाङ्कलक्षणयोः को विशेष इति ॥ निघण्टुअषु पर्यायतया पाठान्नास्त्येव विशेष इत्यर्थः । पृथुगुपादानसामर्थ्याद्विशेषोऽत्राश्रीयताम् ? इत्याह - लक्षणं लक्ष्यस्यैवेति । स्वमात्मीयं सम्बन्धीत्यर्थः । बेदी विद्या अस्येति । बिदानामसाधारणी या विद्या सा यस्यास्ति स बैदीविद्यः ॥ Nyaas ----- तेन वैषम्याद्यथासंख्यं न भवति। असति तु घोषग्रहणे, अञादयस्त्रयः सङ्घादयोऽपि तत्र इति समानाद्यथासंख्यं स्यात्? घोषे च प्रत्ययो न स्यात्। `बैदः` इति। `अनृष` (4.1.104) इत्यादिनाञ्; तदन्तादण्। अङ्कलक्षमयोः को विशेष इति? नास्त्येव कश्चिद्विशेषः। पर्यायत्वादङ्कलक्षमयोरिति मन्यते। `लक्षणम्` इत्यादिना विशेषं दर्शयति। लक्षणं चिह्नं लक्ष्यस्यैव स्वम्, नान्यस्य; यथा विद्या बिदानाम्। बिदानामेव हि लक्षणानां सम्बन्धिनाम् नान्यस्य कस्यचित्। अङ्कस्तु गवादिस्थो न गवादीनां सम्भवति। किं तर्हि? ततोऽन्येषाम्, गवादिस्वामिनाम्। अथ किमर्थं गित्करणं प्रत्ययस्य, यावताञन्ताद्यञन्ताः प्रकृतयो वृद्धा एव? अत आह - `णित्करणम्` इत्यादि। बैदी विद्येत्यत्र ङीब् यथा स्यात्। इह च बैदीविद्य इत्यत्र **वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे** (6.3.39) इति पुंवद्भावप्रतिषेधो यथा स्यात्। एवमर्थं णित्करणम्,न वृद्ध्यर्थम्॥ Prakriyasarvasvam ----------------- सङ्घादिसम्बन्धिविशेषेषु वाच्येष्वञ्यञिञन्तेभ्योऽण् । अङ्को नाम स्वसम्बन्धिगवादौ कृतमङ्कनम् । स्वस्यैवाचारविद्यादिचिह्नं लक्षणमुच्यते ॥ २६१ ॥ अञन्तात् वैदसम्बन्धी सङ्घो वैदः । एवमङ्को लक्षणं च । 'घोषे चेति वाच्यम् । (वा०) । बैदो घोषः । यज्ञो-गार्गः सङ्घ इत्यादि चतुर्व्वर्थेषु । इञ्जो-दाक्षः सङ्घ इत्यादि ॥ Vartika ------- घोषग्रहणमपि कर्तव्यम् ।