43124: हलसीराट्ठक्¶
Padacheda: हल-सीरात् | S | 5 | 1 |
ठक् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix ठक् comes in the sense of ‘this is his’ after the words 1. हल and 2. सीर।
Vasu English Translation¶
The affix ठक् comes in the sense of ‘this is his’ after the words 1. हल and 2. सीर। Thus हलस्येदम् = हालिकम्, सैरिकम् ॥
Kashika¶
हलसीरशब्दाभ्यां ठक् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। अणोऽपवादः। हलस्येदं हालिकम्। सैरिकम्॥
Siddhanta Kaumudi¶
हालिकम् । सैरिकम् ॥
Balamanorama¶
हलसीराट्ठक् - हलसीराट्ठक् । तस्येदमित्येव । हालिकं सैरिकमिति । हलस्येदं, सीरस्येगदमिति विग्रहः ।
Prakriyasarvasvam¶
हलस्येदं, हालिकम् । सैरिकम् ॥