43125: द्वन्द्वाद्वुन् वैरमैथुनिकयोः

Padacheda: द्वन्द्वात् | S | 5 | 1 |

वुन् | S | 1 | 1 |

वैर-मैथुनिकयोः | S | 7 | 2 |

Sutrartha


Vasu English Summary

The affix वुञ् comes in the sense of ‘this is his’ after द्वन्द compound of words denoting ‘mutual enmity’ or ‘matrimonial relationship’.

Vasu English Translation

The affix वुञ् comes in the sense of ‘this is his’ after द्वन्द compound of words denoting ‘mutual enmity’ or ‘matrimonial relationship’. This debars अण् and छ ॥ Thus of ‘enmity’ बाभ्रव्यशालङ्कायनिका, काकोलूकिका ॥ Similarly of married couples as, अत्रिभरद्वाजिका, कुत्सकुशिकिका ॥

The Dvandva compounds of words denoting natural enemies will be singular neuter by (2.4.9). Their secondary derivatives, however, are feminine.

Vart :- Prohibition must be stated of the word देवासुर &c. As देवासुरम् ॥ राक्षोऽसुरम् वैरम् ॥

Bhashya

द्वन्द्वाद्वुन् वैरमैथुनिकयोः (1695) (वुनोऽधिकरणम्) (5520 सूत्रार्थपर्युदासे वार्तिकम्॥ 1 ॥) - वैरे देवासुरादिभ्यः प्रतिषेधः - (भाष्यम्) वैरे देवासुरादिभ्यः प्रतिषेधो वक्तव्यः। दैवासुरम्, राक्षोऽसुरम्॥

Kashika

द्वन्द्वसंज्ञकाद् वुन् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये, वैरमैथुनिकयोः प्रत्ययार्थविशेषणयोः। अणोऽपवादः। छं तु परत्वाद् बाधते। वैरे तावत् — बाभ्रव्यशालङ्कायनिका। काकोलूकिका। मैथुनिकायाम् — अत्रिभरद्वाजिका। कुत्सकुशिकिका। विवहनं मैथुनिका। वैरस्य नपुंसकत्वेऽप्यमी स्वभावतः स्त्रीलिङ्गाः॥ वैरे देवासुरादिभ्यः प्रतिषेधो वक्तव्यः॥ दैवासुरम्। राक्षोऽसुरं वैरम्॥

Siddhanta Kaumudi

काकोलूकिका । कुत्सिकुशिकिका ।<!वैरे देवासुरादिभ्यः प्रतिषेधः !> (वार्तिकम्) ॥ दैवासुरम् ॥

Balamanorama

द्वन्द्वाद्वुन् वैरमैथुनिकयोः - द्वन्द्वाद्वुन् । वैरे मैथुनिकायां च इदन्त्वेन विवक्षिते द्वन्द्वात्षष्ठन्ताद्वुन्स्यादित्यर्थः । काकोलूकिकेति । काकोलूकस्य वैरमित्यर्थः । वुनि स्त्रीत्वं लोकात् । कुत्सकुशिकिकेति । कुत्सकुशिकयोर्विवाह इत्यर्थः । वुनि स्त्रीत्वं लोकात् । मिथुनं — दम्पती । तस्य कर्म मैथुनिका । मनोज्ञादित्वाद्वुञ् । स्त्रीत्वं लोकात् । वैरे देवासुरेति । वार्तिकमिदम् । दैवासुरमिति । देवासुरयोर्वैरमित्यर्थः । वुनभावेऽण् । मैथुनिकायां तु देवासुरिकेत्येव ।द्वन्द्वे देवासुरे॑ति त्वपपाठः, अत्र भाष्ये वैर इत्येव वार्तिकपाठात् ।शिशुक्रन्दे॑ति सूत्रभाष्ये तुद्वन्द्वे देवासुरादिभ्यः प्रतिषेधः॑ इति पठितम्, दैवासुरम् राक्षोऽसुरमित्युदाहृतं च । देवासुराद्यधिकृत्य कृतमाख्यानमित्यर्थः । गोत्रचरणाद्वुञ् । गोत्रप्रत्ययान्ताच्छाखाध्येतृवाचिनश्च षष्ठन्तादिदमित्यर्थे वुञित्यर्थः ।प्रवराध्यायप्रसिद्धमिह गोत्र॑मित्यभिप्रेत्योदाहरति-औपगवकमिति । औपगवस्येदमित्यर्थः । वस्तुतस्तु औपगवः प्रवरसूत्रेषु न दृष्टः । ग्लौचुकायनकमिति वृत्त्यादौ उदाहृतम् । चरणादिति । चरणाद्यो वुञ्विहितः स धर्मे आम्नाये च वाच्ये भवति, नान्यत्रेत्यर्थः । काठकमिति । कठेन प्रोक्तमधीयते कठाः, तेषां धर्म आम्नायो वेत्यर्थः । आम्नायो-वेदाभ्यासः ।

Tattvabodhini

द्वन्द्वाद्वुन् वैरमैथुनिकयोः - द्वन्द्वद्वुन् । अणोऽपवादः । छं तु परत्वाद्बाधते । काकोलूकिकेति । काकोलूकस्य वैरमित्यर्थः ।वुन्नन्तं स्त्रियाम् । वैरमैथुनिकादिबु॑निति स्त्र्यधिकारे अमरः । कुत्सकुशिकिकेति । कुत्सुकु शिकयोर्मैथुनिका । विवाहरूपः संबन्ध इत्यर्थः । मिथुनं हि दन्पती, तस्य कर्म=क्रियानिष्पादनं । मनोज्ञादित्वाद्वुञ् । वुञन्तं चेदं, स्त्रियां स्वभावात् । अत्र वदन्ति — — कुत्साश्च कुशिकाश्च कुत्सुकुशिकास्तेषां मैथुनिकेत्यपि विग्रहः । इह कुत्सुश्च कुशिका चेति द्वयोरेव मैथुनिकायां वुनिति नाग्रहः कार्यः ।यूनि लुगि॑ति सूत्रे कैयटेन अत्रिभरद्वाजिकेत्यादिकं प्रसङ्गादुदाहृत्य बहुवचनान्तद्वन्द्वाद्वुनो व्याख्यातत्वादिति । सङ्घाङ्क । पूर्वस्य वुञोऽपवादः ।घोषग्रहणमपि कर्तव्यम् । घोषग्रहणिति । एवं च प्रकृतयस्तिरुआः, प्रत्ययार्थविशेषणानि चत्वारीति वैषम्याद्यथासङ्ख्यमपि न प्रवर्तते । गार्ग इति ।आपत्यस्ये॑ति यलोपः । यद्यप्यङ्कलक्षणयोःल पर्यायत्वं प्रसिद्धंकलङ्काङ्कौ लाञ्छनं च चिह्न लक्ष्म च लक्षण मित्यमरः, तथापि पृथग्ग्रहणसामर्थ्यादिह विशेषपरतेत्याह -परम्परासंबन्ध इति । यथा गवादिनिष्ठः स्वामिना गोद्वारा संबन्धः । साक्षादिति । यथा बिदानां विद्या । घोष आभीरस्थानम् । णित्त्वं ङीबर्थं, पुंवद्भावनिषेधार्थं च । बौदी विद्या यस्य बैदीविद्यः । बिदानामसाधारणी या विद्या तद्वानित्यर्थः ।

Padamanjari

वैरमु विरोधः, वीराणामिदमिति कृत्वा, मिथुनकर्म मैथुनिका, मनोज्ञादित्वाद् वुञ् । मिथुनमु दम्पती, कर्म उ क्रियानिष्पादनम् । बाभ्रवशालङ्कायनिकेति । वुञन्तं स्वभावतः स्त्रियां वर्तते ॥

Nyaas

बाभ्रण्यशालङ्कायनिका इति। वुन्नन्तः स्वभावादेव स्त्रियां वर्तत इति टाप् , प्रत्ययस्थात् (7.3.44) इत्यादिनेत्त्वम्॥

Prakriyasarvasvam

अनयोर्वाच्ययोर्द्वन्द्वसमासाद् वुन् । स्वभावात् स्त्रीत्वम् । काकोलूकयोर्वैरं काकोलूकिका । मैथुनिका विवाहः । अत्रिभरद्वाजानां विवाहः अत्रिभरद्वाजिका । ‘वैरे देवासुरादिभ्यो न’ (वा) दैवासुरम् ॥

Vartika

वैरे देवासुरादिभ्यः प्रतिषेधः ।