43122: पत्रपूर्वादञ्

Padacheda: पत्र-पूर्वात् | S | 5 | 1 |

अञ् | S | 1 | 1 |

Sutrartha


Vasu English Summary

When preceded by a word denoting ‘a draught animal’, रथ takes the affix अञ् in the sense of ‘this is his’.

Vasu English Translation

When preceded by a word denoting ‘a draught animal’, रथ takes the affix अञ् in the sense of ‘this is his’. This debars यत् ॥ Thus आश्वरथं चक्रं ‘the wheel of a horse-cart’ औष्ट्ररथम् ॥ गार्दभ रथं ॥

The word पत्र means ‘that by which any one goes’ or a draught-animal, like camel. It is formed by the affix ष्ट्रनृ (111.2. 182).

Kashika

पतन्ति तेनेति पत्रमश्वादिकं वाहनमुच्यते। तत्पूर्वाद् रथशब्दादञ् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। पूर्वस्य यतोऽपवादः। आश्वरथं चक्रम्। औष्ट्ररथम्। गार्दभरथम्॥

Siddhanta Kaumudi

पत्रं वाहनम् । अश्वरथस्येदमाश्वरथम् ॥

Balamanorama

पत्त्रपूर्वादञ् - पत्रपूर्वादञ् । रथादित्येव । पत्रं वाहनमिति ।पत्रं वाहनपक्षयो॑रिति कोशः ।

Tattvabodhini

पत्त्रपूर्वादञ् - पत्त्रपूर्वादञ् । पूर्वस्य यतोऽपवादः । पत्रमिति । पतन्त्यनेनेति विग्रहेदाम्नि॑त्यादिना ष्ट्रन् । अआरथस्येदमिति । अआयुक्तो रथोऽआरथस्तस्याङ्गमित्यर्थः । पत्राध्वर्यु । अणोऽपवादः । पत्राद्वाह्रे । पत्त्राद्वाह्र इति । इह पत्त्रेत्यर्थग्रहणे, इतरोयस्तु स्वरूपग्रहणे व्याख्यानमेव शरणम् ।

Padamanjari

पतन्त्यनेनेति पत्रमिति ।’दाम्नीशस’ इत्यादिना ष्ट्रन् । अश्वयुक्तो रथोऽश्वरथः, षष्ठीसमासे वृत्तिस्वभावाद्यौक्तार्थावगतिः । तस्याङ्गमाश्वरथम् ॥

Prakriyasarvasvam

वाहनपूर्वाद् रथादञ् । अश्वरथस्येदम्, आश्वरथं युगादि । औष्ट्ररथम् ॥