43122: पत्रपूर्वादञ् ==================== **Padacheda:** पत्र-पूर्वात् | S | 5 | 1 | अञ् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- When preceded by a word denoting 'a draught animal', रथ takes the affix अञ् in the sense of 'this is his'. Vasu English Translation ------------------------ When preceded by a word denoting 'a draught animal', रथ takes the affix अञ् in the sense of 'this is his'. This debars यत् ॥ Thus आश्वरथं चक्रं 'the wheel of a horse-cart' औष्ट्ररथम् ॥ गार्दभ रथं ॥ The word पत्र means 'that by which any one goes' or a draught-animal, like camel. It is formed by the affix ष्ट्रनृ (111.2. 182). Kashika ------- पतन्ति तेनेति पत्रमश्वादिकं वाहनमुच्यते। तत्पूर्वाद् रथशब्दादञ् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। पूर्वस्य यतोऽपवादः। आश्वरथं चक्रम्। औष्ट्ररथम्। गार्दभरथम्॥ Siddhanta Kaumudi ----------------- पत्रं वाहनम् । अश्वरथस्येदमाश्वरथम् ॥ Balamanorama ------------ **पत्त्रपूर्वादञ्** - पत्रपूर्वादञ् । रथादित्येव । पत्रं वाहनमिति ।पत्रं वाहनपक्षयो॑रिति कोशः । Tattvabodhini ------------- **पत्त्रपूर्वादञ्** - पत्त्रपूर्वादञ् । पूर्वस्य यतोऽपवादः । पत्रमिति । पतन्त्यनेनेति विग्रहेदाम्नि॑त्यादिना ष्ट्रन् । अआरथस्येदमिति । अआयुक्तो रथोऽआरथस्तस्याङ्गमित्यर्थः । पत्राध्वर्यु । अणोऽपवादः । पत्राद्वाह्रे । पत्त्राद्वाह्र इति । इह पत्त्रेत्यर्थग्रहणे, इतरोयस्तु स्वरूपग्रहणे व्याख्यानमेव शरणम् । Padamanjari ----------- पतन्त्यनेनेति पत्रमिति ।'दाम्नीशस' इत्यादिना ष्ट्रन् । अश्वयुक्तो रथोऽश्वरथः, षष्ठीसमासे वृत्तिस्वभावाद्यौक्तार्थावगतिः । तस्याङ्गमाश्वरथम् ॥ Prakriyasarvasvam ----------------- वाहनपूर्वाद् रथादञ् । अश्वरथस्येदम्, आश्वरथं युगादि । औष्ट्ररथम् ॥