43121: रथाद्यत्¶
Padacheda: रथात् | S | 5 | 1 |
यत् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix यत् comes after रथ in the sense of ‘this is his’.
Vasu English Translation¶
The affix यत् comes after रथ in the sense of ‘this is his’. This debars अण् ॥ Thus रथस्येदं = रथ्यम् ‘belonging to the chariot – i.e. wheel or the axle.’ The word रथ्य is confined to describe the parts of chariot. This rule applies also to compounds ending with रथ, as, परमरथ्यम्, उत्तमरथ्यम् because of the Vartika रथसीताहलेभ्यो यद्विधौ, after रथ, सीता and हल in applying the affix यत् there is tadanta-vidhi.
Kashika¶
रथशब्दाद् यत् प्रत्ययो भवति तस्येदमित्येतस्मिन् विषये। अणोऽपवादः। रथस्येदं रथ्यम्, चक्रं वा युगं वा। रथाङ्ग एवेष्यते नान्यत्र, अनभिधानात्। रथसीताहलेभ्यो यद्विधौ (१.१.७२ महाभाष्यवा०) इति तदन्तविधिरुपसंख्यायते। परमरथ्यम्। उत्तमरथ्यम्॥
Siddhanta Kaumudi¶
रथ्यं चक्रम् ॥
Balamanorama¶
रथाद्यत् - रथाद्यत् ।तस्येद॑मित्येव । रत्यं चक्रमिति । ‘रथाद्रथाङ्गे’ इति वचनाच्चकमिति विशेष्यम् ।
Tattvabodhini¶
रथाद्यत् - रथाद्यत् । अणोऽपवादः ।रथाद्रथाङ्गे॑इति वार्तिकमिभिप्रेत्याह -रथ्यं चक्रमिति ।रथसीताहलेभ्यो यद्विधौ॑इति तदन्तविधिरूपसङ्ख्यायते । परमरथ्यम् । उत्तमरथ्यम् । द्वयो रथयोरङ्गं द्विरथम् । इहद्विगोर्लुगनपत्ये॑इति यतो लुक् । ननु यत्प्रत्ययोऽत्र रथाङ्ग एव यदीष्यते कथं तर्हिरथस्य वोढा रथ्यः॑इति ।तद्वहती॑त्यनेनेति चेत् । एवं तर्हि अयमेव यद्रथाङ्ग इव वोढर्यीष्यतां,तद्वहति रथयुगप्रासङ्ग॑मित्यत्र रथग्रहणं त्यज्यतामिति चेत् ।मैवम् । द्वौ रथौ वहति द्विरथ्य इत्यत्रद्विगोर्लुगनपत्ये॑इति प्राग्दीव्यतीयस्य लुक्प्रसङ्गात् ।तद्वहती॑ति यत्प्रत्ययस्य तु प्राग्दीव्यतीयत्वाऽभावान्न लुगितिद्विरथ्य ॑इति सिध्यतीति । ननुद्विगोर्लुगनपत्ये॑इत्यत्राऽचीत्य[स्या]पकर्षणात्कथमत्र यतो लुक्प्रसक्तिरिति चेत् । अत्राहु -॒तद्वहती॑त्यत्र रथग्रहणमेव ज्ञापकम् -॒एतस्य यतो हलादेरपि लुग् भवती॑ति । अन्यथा तत्र रथग्रहणं व्यर्थमेव स्यात् । तथा च द्वयो रथयोरङ्गमिति विग्रहे द्रिरथमिति प्रयोगः सुस्थ इति ।
Padamanjari¶
रथाङ्ग एवेष्यत इति । यस्तु रथस्य वोढा रथ्य इति वोढरि प्रयोगः, सः’तद्वहति रथयुगप्रासङ्गम्’ इति द्रष्टव्यः । स्यादेतत् - अयमेव तद्वोढर्यपीष्यताम्,’तद्वहति’ इत्यत्र रथग्रहणं मा कारीति ? नैवं शक्यम्, इह द्वौ रथौ वहति द्विरथ्य इति’द्विगोर्लुगनपत्ये’ इति प्राग्दीव्यतीयो लुक् प्राप्नोति । यतु द्वयो रथयोरङ्गं तत्र द्विरथमित्येव भवति ॥
Nyaas¶
नान्यत्र इति। सन्नाहादौ॥
Prakriyasarvasvam¶
रथस्येदं रथ्यं चक्रादि । रथाङ्ग एवेष्टम् । ‘रथसीताहलेभ्यो यद्विधौ’ (वा०) इति तदन्तविधिना सुवर्णरथस्येदं सुवर्णरथ्यम् ॥