43116: कृते ग्रन्थे

Padacheda: कृते | S | 7 | 1 |

ग्रन्थे | S | 7 | 1 |

Sutrartha


Vasu English Summary

An affix comes after a word in the Instrumental -3rd case in construction in the sense of ‘made’, the thing made being ‘a book’.

Vasu English Translation

An affix comes after a word in the Instrumental -3rd case in construction in the sense of ‘made’, the thing made being ‘a book’. Thus वररुचिना कृताः = वाररुचाः श्लोकाः ‘the verses composed by Vararuchi’. So also हैकुपादो ग्रन्थः, भैकुराटो ग्रन्थः, जालूकः ॥

Why do we say ‘a book’? Observe तक्षकृतः प्रासादः ‘the palace made by Taksha’.

That which one originates is called कृतः and is therefore an ‘art’, while knowledge of laws &c. that already exist, but are discovered for the first time by some one, is called उपज्ञातं ॥

Bhashya

कृते ग्रन्थे (1686) (अर्थाधिकरणम्) (5506 ग्रन्थाभावेऽपि प्रत्ययविधिवार्तिकम्॥ 1 ॥) - कृते ग्रन्थे मक्षिकादिभ्योऽण् - (भाष्यम्) कृते ग्रन्थ इत्यत्र मक्षिकादिभ्योऽण्वक्तव्यः। मक्षिकाभिः कृतं माक्षिकम्॥ (5507 प्रत्ययविधिवार्तिकम्॥ 2 ॥) - तद्विशेषेभ्यश्च - (भाष्यम्) तद्विशेषेभ्यश्चाण्वक्तव्यः। सरघाभिः कृतं सारघम्, गार्मुतम्, पौत्तिकम्। स तर्हि वक्तव्यः। न वक्तव्यः॥ (5508 वार्तिकद्वयान्यथासिद्धिवार्तिकम्॥ 3 ॥) - योगविभागात्सिद्धम् - (भाष्यम्) योगविभागः करिष्यते। कृते ग्रन्थे। ततः -संज्ञायाम्, संज्ञायां च तेन कृत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। सरघाभिः कृतं सारघम्, गार्मुतम्, पौत्तिकम्। ततः कुलालादिभ्यो वुञ्ञ्। संज्ञायामित्येव॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थस्याध्यायस्य तृतीये पादे प्रथममाह्निकम्॥

Kashika

तेनेत्येव। तृतीयासमर्थात् कृत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत् तत् कृतं ग्रन्थश्चेत् स भवति। वररुचिना कृता वाररुचाः श्लोकाः। हैकुपादो ग्रन्थः। भैकुराटो ग्रन्थः। जालूकः। ग्रन्थ इति किम्? तक्षकृतः प्रासादः। उत्पादितं कृतम्, विद्यमानमेव ज्ञातमुपज्ञातमित्ययमनयोर्विशेषः॥

Siddhanta Kaumudi

वररुचिना कृतो वाररुचो ग्रन्थः ॥

Balamanorama

कृते ग्रन्थे - कृते ग्रन्थे । ‘तेन कृतो ग्रन्थ’ इत्यर्थे तृतीयान्ताद्यर्थाविहितं प्रत्ययाः स्युरित्यर्थः ।

Padamanjari

‘तितिरिवरतन्तु’ इत्यादीनि सूत्राण्यत्र प्रकरणे न पठितानि । तितिर्यादयो हि च्छन्दसां प्रवक्तारो न कर्तारः; नित्यानि हि च्छन्दांसि न केनचित्क्रियन्ते ॥

Nyaas

कः पुनः कृतोपज्ञयोर्विशेषः, येनोपज्ञायत इति प्रकृते सति कृतग्रहणं क्रियते? इत्याह् - उत्पादितम् इत्यादि॥

Prakriyasarvasvam

तेन कृते ग्रन्थ इत्यर्थेऽणादिः । भारवीयं काव्यम् ॥