43116: कृते ग्रन्थे =================== **Padacheda:** कृते | S | 7 | 1 | ग्रन्थे | S | 7 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- An affix comes after a word in the Instrumental -3rd case in construction in the sense of 'made', the thing made being 'a book'. Vasu English Translation ------------------------ An affix comes after a word in the Instrumental -3rd case in construction in the sense of 'made', the thing made being 'a book'. Thus वररुचिना कृताः = वाररुचाः श्लोकाः 'the verses composed by *Vararuchi*'. So also हैकुपादो ग्रन्थः, भैकुराटो ग्रन्थः, जालूकः ॥ Why do we say 'a book'? Observe तक्षकृतः प्रासादः 'the palace made by *Taksha*'. That which one originates is called कृतः and is therefore an 'art', while knowledge of laws &c. that already exist, but are discovered for the first time by some one, is called उपज्ञातं ॥ Bhashya ------- कृते ग्रन्थे (1686) (अर्थाधिकरणम्) (5506 ग्रन्थाभावेऽपि प्रत्ययविधिवार्तिकम्॥ 1 ॥) - कृते ग्रन्थे मक्षिकादिभ्योऽण् - (भाष्यम्) कृते ग्रन्थ इत्यत्र मक्षिकादिभ्योऽण्वक्तव्यः। मक्षिकाभिः कृतं माक्षिकम्॥ (5507 प्रत्ययविधिवार्तिकम्॥ 2 ॥) - तद्विशेषेभ्यश्च - (भाष्यम्) तद्विशेषेभ्यश्चाण्वक्तव्यः। सरघाभिः कृतं सारघम्, गार्मुतम्, पौत्तिकम्। स तर्हि वक्तव्यः। न वक्तव्यः॥ (5508 वार्तिकद्वयान्यथासिद्धिवार्तिकम्॥ 3 ॥) - योगविभागात्सिद्धम् - (भाष्यम्) योगविभागः करिष्यते। कृते ग्रन्थे। ततः -संज्ञायाम्, संज्ञायां च तेन कृत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति। सरघाभिः कृतं सारघम्, गार्मुतम्, पौत्तिकम्। ततः कुलालादिभ्यो वुञ्ञ्। संज्ञायामित्येव॥ इति श्रीमद्भगवत्पतञ्ञ्जलिविरचिते व्याकरणमहाभाष्ये चतुर्थस्याध्यायस्य तृतीये पादे प्रथममाह्निकम्॥ Kashika ------- तेनेत्येव। तृतीयासमर्थात् कृत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति, यत् तत् कृतं ग्रन्थश्चेत् स भवति। वररुचिना कृता वाररुचाः श्लोकाः। हैकुपादो ग्रन्थः। भैकुराटो ग्रन्थः। जालूकः। ग्रन्थ इति किम्? तक्षकृतः प्रासादः। उत्पादितं कृतम्, विद्यमानमेव ज्ञातमुपज्ञातमित्ययमनयोर्विशेषः॥ Siddhanta Kaumudi ----------------- वररुचिना कृतो वाररुचो ग्रन्थः ॥ Balamanorama ------------ **कृते ग्रन्थे** - कृते ग्रन्थे । 'तेन कृतो ग्रन्थ' इत्यर्थे तृतीयान्ताद्यर्थाविहितं प्रत्ययाः स्युरित्यर्थः । Padamanjari ----------- 'तितिरिवरतन्तु' इत्यादीनि सूत्राण्यत्र प्रकरणे न पठितानि । तितिर्यादयो हि च्छन्दसां प्रवक्तारो न कर्तारः; नित्यानि हि च्छन्दांसि न केनचित्क्रियन्ते ॥ Nyaas ----- कः पुनः कृतोपज्ञयोर्विशेषः, येनोपज्ञायत इति प्रकृते सति कृतग्रहणं क्रियते? इत्याह् - `उत्पादितम्` इत्यादि॥ Prakriyasarvasvam ----------------- तेन कृते ग्रन्थ इत्यर्थेऽणादिः । भारवीयं काव्यम् ॥