43117: संज्ञायाम्

Padacheda: संज्ञायाम् | S | 7 | 1 |

Sutrartha


Vasu English Summary

An affix comes after a word in the Instrumental -3rd case in construction in the sense of ‘made by him’ when the whole word is a Name.

Vasu English Translation

An affix comes after a word in the Instrumental -3rd case in construction in the sense of ‘made by him’ when the whole word is a Name. Thus मक्षिकाभिः कृतम् = माक्षिकम्, कार्मुकम्, सारघम्, पौक्तिकम् ॥ All these are names of ‘honey’, literally ‘made by a bee’, मक्षिका, सरघा and पुत्तिका meaning ‘a bee’. मक्षिका + अण् = माक्षिक (6.4.148). The anuvritti of “ग्रन्थ” does not, of course, apply here.

Kashika

तृतीयासमर्थात् कृत इत्येतस्मिन्नर्थे यथाविहितं प्रत्ययो भवति समुदायेन चेत् संज्ञा ज्ञायते। मक्षिकाभिः कृतं माक्षिकम्। कार्मुकम्। सारघम्। पौत्तिकम्। मधुनः संज्ञा एताः॥

Siddhanta Kaumudi

तेनेत्येव । अग्रन्थार्थमिदम् । मक्षिकाभिः कृतं माक्षिकं मधु ॥

Balamanorama

संज्ञायाम् - सङ्घाङ्क । यञन्तात्, अञन्तात्, इञन्ताच्च सङ्गे अङ्के लक्षणे च इदन्त्वेन विवक्षितेऽणित्यर्थः । छस्यापवादः । घोषेति ।सङ्घाङ्कलक्षणघोषेषु॑ इति सूत्रं कर्तव्यमित्यर्थः । तथाच तिरुआः प्रकृतयः, प्रत्ययार्थाश्चत्वार इति न यथासङ्ख्यम् । गार्ग इति । सङ्घोऽङ्को घोषो वे॑ति शेषः । गार्गमिति ।लक्षण॑मिति शेषः । एवं दाक्ष दाक्षमित्यत्रापि नन्वङ्कलक्षणशब्दयोः पर्यायत्वात् पृथग्ग्रहणं व्यर्थमित्यर्त आह — परम्परेति । यथा गवादिनिष्ठस्तप्तमुद्राविशेषोऽङ्कः । तस्य हि गोद्वारा स्वामिसम्बन्धः । साक्षादिति । विद्याविशेषस्तु देवदत्ते साक्षाद्विद्यमानत्वात्तस्य लक्षणमित्यर्थः । वैदी विद्या ।घोष आभीरपल्ली स्या॑दित्यमरः ।

Padamanjari

अग्रन्थार्थमिदम् ॥

Nyaas

बाल-मनोरमासंज्ञायाम् 1476, 4.3.119 संज्ञायां। तेनेत्येवेति। तेन कृतमित्यर्थे संज्ञायां तृतीयान्ताद्यथाविहितं प्रत्ययाः स्युरित्यर्थः। ग्रन्थे इति नानुवर्तते। तदाह -अग्रन्थार्थमिति। बाल-मनोरमासङ्घाङ्कलक्षणेष्वञ्यञिञामण् 1486, 4.3.119 सङ्घाङ्क। यञन्तात्, अञन्तात्, इञन्ताच्च सङ्गे अङ्के लक्षणे च इदन्त्वेन विवक्षितेऽणित्यर्थः। छस्यापवादः। घोषेति। सङ्घाङ्कलक्षणघोषेषु इति सूत्रं कर्तव्यमित्यर्थः। तथाच तिरुआः प्रकृतयः, प्रत्ययार्थाश्चत्वार इति न यथासङ्ख्यम्। गार्ग इति। सङ्घोऽङ्को घोषो वे`ति शेषः। गार्गमिति। `लक्षण`मिति शेषः। एवं दाक्ष दाक्षमित्यत्रापि नन्वङ्कलक्षणशब्दयोः पर्यायत्वात् पृथग्ग्रहणं व्यर्थमित्यर्त आह -परम्परेति। यथा गवादिनिष्ठस्तप्तमुद्राविशेषोऽङ्कः। तस्य हि गोद्वारा स्वामिसम्बन्धः। साक्षादिति। विद्याविशेषस्तु देवदत्ते साक्षाद्विद्यमानत्वात्तस्य लक्षणमित्यर्थः। वैदी विद्या। `घोष आभीरपल्ली स्या`दित्यमरः।

Prakriyasarvasvam

नाम्नि तेन कृतमित्येतावत्यर्थेऽणादिः । माक्षिकं मधु सारघम् ॥