43113: तसिश्च¶
Padacheda: तसिः | S | 1 | 1 |
च | S | 0 | 0 |
Sutrartha¶
Vasu English Summary¶
The affix तसि comes in the sense of ‘in the same direction with that’.
Vasu English Translation¶
The affix तसि comes in the sense of ‘in the same direction with that’. This ordains another affix in addition to the previously taught अण् &c ञ &c. The words formed by this affix are Indeclinables (1.1.37). Thus हिमवतः ‘in the same direction as Himavat.’ पीलुमूलतः, सुदामतः ॥
Kashika¶
तसिश्च प्रत्ययो भवति तेनैकदिगित्येतस्मिन् विषये। पूर्वेण घादिष्वणादिषु च प्राप्तेष्वयमपरः प्रत्ययो विधीयते। स्वरादिपाठादव्ययत्वम्। सुदामतः। हिमवत्तः। पिलुमूलतः॥
Siddhanta Kaumudi¶
स्वरादिपाठादव्ययत्वम् पीलुमूलेन एकदिक् पीलुमूलतः ॥
Balamanorama¶
तसिश्च - तसिश्च ।तेनैकदिगि॑त्यर्थे तृतीयान्तात्तसिश्च स्यादित्यर्थः । इकार उच्चारणार्थः । स्वरादिपाठादिति ।स्वरादिनिपातमव्यय॑मिति प्रकरणेतद्धितश्चासर्वविभक्ति॑रित्यत्र ‘तसिलादयः’ इतिपरिगणने तसेः पाछादित्यर्थः ।
Tattvabodhini¶
तसिश्च - तसिश्च । पूर्वोक्तविषये ।
Padamanjari¶
स्वरादिपाठादव्ययत्वमिति । तस्मिन्नेवार्थे विधैइयमानस्याप्यस्य लिङ्गसंख्यानुपादानमपि स्वाभाविकं वेदितव्यम् ॥
Prakriyasarvasvam¶
उक्तार्थे तसिश्च स्यात् । स च स्वरादित्वादव्ययम् । सेतुतो लङ्का । तद्दिशीत्यर्थः ॥