43113: तसिश्च ============= **Padacheda:** तसिः | S | 1 | 1 | च | S | 0 | 0 | Sutrartha --------- **** Vasu English Summary -------------------- The affix तसि comes in the sense of 'in the same direction with that'. Vasu English Translation ------------------------ The affix तसि comes in the sense of 'in the same direction with that'. This ordains another affix in addition to the previously taught अण् &c ञ &c. The words formed by this affix are Indeclinables (1.1.37). Thus हिमवतः 'in the same direction as *Himavat*.' पीलुमूलतः, सुदामतः ॥ Kashika ------- तसिश्च प्रत्ययो भवति तेनैकदिगित्येतस्मिन् विषये। पूर्वेण घादिष्वणादिषु च प्राप्तेष्वयमपरः प्रत्ययो विधीयते। स्वरादिपाठादव्ययत्वम्। सुदामतः। हिमवत्तः। पिलुमूलतः॥ Siddhanta Kaumudi ----------------- स्वरादिपाठादव्ययत्वम् पीलुमूलेन एकदिक् पीलुमूलतः ॥ Balamanorama ------------ **तसिश्च** - तसिश्च ।तेनैकदिगि॑त्यर्थे तृतीयान्तात्तसिश्च स्यादित्यर्थः । इकार उच्चारणार्थः । स्वरादिपाठादिति ।स्वरादिनिपातमव्यय॑मिति प्रकरणेतद्धितश्चासर्वविभक्ति॑रित्यत्र 'तसिलादयः' इतिपरिगणने तसेः पाछादित्यर्थः । Tattvabodhini ------------- **तसिश्च** - तसिश्च । पूर्वोक्तविषये । Padamanjari ----------- स्वरादिपाठादव्ययत्वमिति । तस्मिन्नेवार्थे विधैइयमानस्याप्यस्य लिङ्गसंख्यानुपादानमपि स्वाभाविकं वेदितव्यम् ॥ Prakriyasarvasvam ----------------- उक्तार्थे तसिश्च स्यात् । स च स्वरादित्वादव्ययम् । सेतुतो लङ्का । तद्दिशीत्यर्थः ॥