43108: कलापिनोऽण् ================= **Padacheda:** कलापिनः | S | 5 | 1 | अण् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix अण् comes in the sense of 'enounced by him' after the word कलापि। Vasu English Translation ------------------------ The affix अण् comes in the sense of 'enounced by him' after the word कलापि। This debars णिनि of (4.3.104). Thus कलापाः 'who study the work enounced by *Kalapi*'. The word कलापाः is thus formed:- कलापिन् + अण् ॥ Here comes in force *Sutra* (6.4.144) which declares that इन् of कलापिन् should be elided before the *taddhita* affix. This elision is, however, debarred by *sutra* (6.4.164) which declares that words ending in the affix इन् retain their form when अण् not denoting a progeny follows. Therefore कलापिन् would have retained its इन् but for this *Vartika*. Vaart:- The टि portion of the following words is elided when a *Taddhita* follows:- सब्रह्मचारिन्, पीठसर्पिन्, कलापिन्, कुथुमिन्, तैतिलिन्, जाजलिन्, जाङ्गलिन्, लाङ्गलिन्, शिलालिन्, शिखण्डिन्, सूकरसद्मन्, सुपर्वण् ॥ Thus ईन् being elided, we have कलापाः ॥ Kashika ------- कलापिशब्दादण् प्रत्ययो भवति तेन प्रोक्तमित्येतस्मिन् विषये। वैशंपायनान्तेवासित्वाद् णिनेरपवादः। कलापिना प्रोक्तमधीयते कालापाः। **इनण्यनपत्ये** (६.४.१६४) इति प्रकृतिभावे प्राप्ते, **नान्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमितैतलिजाजलिजाङ्गलि — लाङ्गलिशिलालिशिखण्डिसूकरसद्मसुपर्वणामुपसंख्यानम्** (वा० ६.४.१४४) इति टिलोपः। अथाण्ग्रहणं किम्, यथाप्राप्तमित्येव सिद्धम्? अधिकविधानार्थम्, तेन माथुरी वृत्तिः, सौलभानि ब्राह्मणानीत्येवमादि सिद्धम् ॥ Siddhanta Kaumudi ----------------- कलापिना प्रोक्तमधीयते कालापाः । (वार्तिकम्) ॥ Balamanorama ------------ **कलापिनोऽण्** - कलापिनोऽण् ।तेन प्रोक्त॑मित्येव वैशम्पायनशिष्यत्वात् प्राप्तस्य णिनेरपवादः । कालापा इति । कलापिन्शब्दादणि टिलोपे कालापशब्दादध्येतृप्रत्ययस्य छस्य लुगिति भावः ।॒इनण्यनपत्ये॑ इति प्रकृतिभावमाशङ्क्याह — नान्तस्येति । Tattvabodhini ------------- **कलापिनोऽण्** - कलापिनोऽण् । वैशंपायनान्तेवासित्वात्प्राप्तस्य णिनेरपवादः ।इनण्यनपत्ये॑इति प्रकृतिभावे प्राप्ते आह — ।नान्तस्य टिलोपे सब्राहृचारिपीठसर्पिकलापिकौथमितैतिलिजाजलिलाङ्गलिशिलालिलशिखाण्डिसूकरसद्मसुपर्वणामुपसङ्ख्यानम् । नान्तस्य टिलोप इति । माथुरी वृत्तिः, मौदाःल पैप्पलादाः शाकला इति सिद्धम् । मुद पिप्पलाद शाकल -एभ्यःपुरामप्रोक्तेषु॑इति णिनेरपवादोऽण् । छगलिनो ढिनुक् । कलाप्यन्तेवासित्वात्प्राप्तस्य णिनेरपवादोऽयम् । Padamanjari ----------- यथाविहितमेवोच्येतेति । तत्र वचनसामर्थ्याद्यो विहितो न च प्राप्नोति स एवाण् भविष्यतीति भावः । एवमादीनीति । आदिशब्देन मौदाः, पैप्पलादाः, शाकला इत्येतेषां ग्रहणम्। अत्र मुद-पिप्पलादःशाकल्य - इत्येतेभ्यः'पुराणप्रोक्तेषु' इति णिनेरपवादोऽण्भवति ॥ Nyaas ----- `कालापाः`इति। पूर्ववत् प्रोक्तप्रत्ययान्तादध्येतर्युत्पन्नस्याणो लुक्, तद्विषयता च। `अथ` इत्यादि। ननु चासत्यण्ग्रहणे यथा प्राप्ते विधीयमाने णिनेरेवापवादः स्यात्? नैतदस्ति; एवं हि वचनमनर्थकं स्यात्। तस्माद्यो विहितो न च प्राप्नोत्यनेन कबाधितत्वात् स एव भविष्यति, स चाणेव। `एवमादि` इति। आदिशब्देन मौदाः,पैप्पलादाः, शाकलाः, जाजलाः - इत्येतेषां ग्रहणम्। असत, त्वच्ग्रहणे सर्वमेव न सिध्येत्; **वृद्धाच्छः** (4.2.114) इति छेनाण औत्सर्गिकस्य बाधितत्वात्॥ Prakriyasarvasvam ----------------- अस्माद् वैशम्पायनशिष्यादण् । कलापिना प्रोक्तमधीयानाः कालापाः । सब्रह्मचार्यादित्वाट्टिलोपः । माथुरादेश्छबाधार्थमणिष्टः । माथुरेण प्रोक्ता माथुरी वृत्तिः ॥