43098: वासुदेवार्जुनाभ्यां वुन्¶
Padacheda: वासुदेव-अर्जुनाभ्याम् | S | 5 | 2 |
वुन् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix वुञ् comes in the sense of ‘this is his object of veneration’ after the words 1. वासुदेव and अर्जुना।
Vasu English Translation¶
The affix वुञ् comes in the sense of ‘this is his object of veneration’ after the words 1. वासुदेव and अर्जुना। This debars छ and अण् ॥ Thus वासुदेवकः, अर्जुनकः ॥
The word वासुदेव being the name of a Kshatriya would have taken by the next sutra, and there is no difference here between वुन् and वुञ्, why then include the word वासुदेव in this sutra?
The word वासुदेव here is the name of God (in which all dwell वसति अस्मिन्) and not the designation of a Kshatriya.
By the general rule of compounds (2.2.34) a word of fewer vowels is placed first, and so Arjuna ought to have been placed first. The not doing so in this sutra indicates (jnapaka) the existence of this rule ‘that a word denoting an object of reverence is placed first. ‘
Bhashya¶
वासुदेवार्जुनाभ्यां वुन् (1668) (वुनोऽधिकरणम्) (वुनि -आक्षेपभाष्यम्) किमर्थं वासुदेवशब्दाद्वुन् विधीयते, न गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ्ञ् (4.3.99) इत्येव सिद्धम्? न ह्यस्ति विशेषो वासुदेवशब्दाद् वुनो वा वुञ्ञो वा। तदेव रूपं स एव स्वरः॥ (आक्षेपनिराकरणभाष्यम्) इदं तर्हि प्रयोजनम् -वासुदेवशब्दस्य पूर्वनिपातं वक्ष्यामीति। अथ वा नैषा क्षत्रियाख्या। संज्ञैषा तत्र भवतः॥
Kashika¶
वासुदेवार्जुनशब्दाभ्यां वुन् प्रत्ययो भवति सोऽस्य भक्तिरित्येतस्मिन् विषये। छाणोरपवादः। वासुदेवो भक्तिरस्य वासुदेवकः। अर्जुनकः। ननु च वासुदेवशब्दाद् गोत्रक्षत्रियाख्येभ्यः० (४.३.९९) इति वुञस्त्येव। न चात्र वुन्वुञोर्विशेषो विद्यते, किमर्थं वासुदेवग्रहणम्? संज्ञैषा देवताविशेषस्य न क्षत्रियाख्या। अल्पाच्तरम् (२.२.३४) अजाद्यदन्तम् (२.२.३३) इति वा अर्जुनशब्दस्य पूर्वनिपातमकुर्वन् ज्ञापयति — अभ्यर्हितं पूर्वं निपततीति॥
Siddhanta Kaumudi¶
वासुदेवकः । अर्जुनकः ॥
Balamanorama¶
वासुदेवार्जुनाभ्यां वुन् - वासुदेव ।सोऽस्य भक्ति॑रित्येव । वासुदेवक इति । वासुदेवो भक्तिरस्येति विग्रहः । एवमर्जुनकः । ननु वसुदेवस्यापत्य॑मित्यर्थेऋष्यन्धकवृष्णिकुरुभ्यश्चे॑ति वाष्र्णेयत्वादणि वासुदेवशब्दात्गोत्रक्षत्रियाख्येभ्यो बहुलं वु॑ञिति वुञैव सिद्धत्वाद्वासुदेवग्रहणं व्यर्थमिति चेत्, सत्यम्, अणन्तो वासुदेवशब्दोऽत्र न गृह्रते किंतु यस्मिन्समस्तं वसति, यो वा समस्ते वसति स वासुः स चासौ देवश्चेति व्युत्पत्त्या वासुदेवशब्दोऽयं भगवति योगरूढ एवेति न दोषः । उक्तच भाष्ये-॒नैषा क्षत्रियाख्या, संज्ञैषा तत्रभवतः॑ इति ।
Tattvabodhini¶
वासुदेवार्जुनाभ्यां वुन् - वासुदेवार्जुनाभ्यां बुन् । छाऽणोरपवादः ।अजाद्यदन्तम्,अल्पाच्तर॑मिति सूत्राभ्यामर्जुनस्य पूर्वनिपाते प्राप्ते तस्याऽकरणंसर्वतोऽभ्यर्हितं पूर्वं निपतती॑ति ज्ञापनार्थम् । ननु वसुदेवस्यापत्यमित्यर्थेऋष्यन्धके॑त्यणि वासुदेवशब्दो निष्पन्नः । तथा च तत्रगोत्रक्षत्रियाख्येभ्यः॑इत्युत्तरसूत्रेण वुञेवाऽस्तु , किमनेन वुना । न ह्यत्र वृद्धौ विशेष, प्रागेव वृद्धत्वात् । न चवृद्धिनिमित्तस्ये॑ति पुंवद्भावनिषेधो दोषः स्यादिति वाच्यं, वुन्यपिन कोपधायाः इति नि,#एधस्येष्यमाणत्वात् । न वा स्वरे विशेषः,ञ्नित्यादिर्नित्य॑मिति तुल्यस्वरत्वात् । नापिअभ्यर्हितं पूर्व॑मिति ज्ञापनमेव तत्फलमिति वाच्यं, तथात्वे हि पूर्वनिपातप्रकरणेअभ्यर्हित॑मित्येव लाघवात्कुर्यादिति चेत् । अत्र भाष्यं -॒संज्ञैषा भगवतः॑इति । अयं भावः -॒सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततोऽसौ वासुदेवेति विद्वद्भिः परिगीयते ।॑इति स्मृतेः परमात्मा इह वासुदेवः । सर्वत्रासौ वसति, सर्वमत्र वसतीति वा व्युत्पत्त्या वासुः । बाहुलकादुण् । वासश्चासौ देवश्चेति विग्रङः । तथा च नेयं गोत्राख्या, नापि क्षत्रियाख्येति युक्त एव विन्विधिः ।भ्यर्हितं पूर्व॑मिति तु प्रसङ्गाज्ज्ञापितं । तदप्यनित्यंआयुवमघोना॑मित्यादिलिङ्गादित्यवधेयम् ।
Padamanjari¶
छाणोरपवाद इति ।’वासुदेवशब्दः संज्ञा’ इति वक्ष्यति, तेन तत्रोतरस्य वुञोऽप्राप्तिः । अर्जुनशब्दोऽपि यो वृक्षविशेषवचनो वणविशेषवचनो वा, न तत्र वुञः प्राप्तिः; क्षत्रियवचनादपि बहुलवचनाद् वुञोऽप्राप्तिरेवेति भावः । ननु चेत्यादि । वसुदेवस्यापत्यम्, ठृष्यन्धकवृष्णिकुरुभ्यश्चऽ इत्यण् । न चात्रेति । न तावद् वृद्धौ विशेषः; प्रागेव वृद्धत्वात् । योऽपि’वृद्धिनिमितस्य’ इति पुंबद्भावप्रतिषेधः, सोऽस्यापि’न कोपधायाः’ इत्यसत्येव । संज्ञेषा देवताविशेषस्येति । वसत्यस्मिन्सर्वमिति व्युत्पत्या परमात्मन एषा संज्ञा । न क्षत्रियाख्येति । उपलक्षणमेततत्, नापि गोत्राशख्येत्यपि द्रष्टव्यम् । प्रासङ्गिकं प्रयोजनान्तरं वासुदेवग्रहणस्य दर्शयति - अजाद्यदन्तम्, अल्पाच्तरमिति चेति । इतिकरणः प्रत्येकमभिसम्बद्ध्यते । यद्यप्येतज्ज्ञाप्यते, तथापि’श्वयुवमघोनामतद्धिते’ इति निर्देशात्क्वचिदन्यथापि भवति ॥
Nyaas¶
वासुदेवशब्दाद्वृद्धाच्छस्यापवादः। अर्जुनशब्दादौत्सर्गिकस्याणः। ननु चार्जुनशब्द क्षत्त्रियाख्यः,तस्मादुत्तरसूत्रेण प्राप्तस्य वुञोऽपवादो युक्तः? एवं मन्यते - बहुलग्रहणं तत्र क्रियते, तेनार्जुनशब्दाद्नुञ्प्रत्ययस्य प्राप्तिरेव नास्ति, तस्मादस्मादणेव स्यात्, अतस्तदपवादो न्याय्यः।ननु च इत्यादि चोद्यम्। स्यादेतत् - वुञ्वुनोर्विशेषोऽस्ति, अतो वासुदेवशब्दाद्वुन् विधीयते? इत्याह - न चात्र इत्यादि। वासुदेवशब्दस्य च वुञि वुनि वा सति नास्ति कश्चिद्विशेष इति। तथा ह्रुभयत्र तदेवरूपम्, स एव स्वरः। योऽपि वुञि सति पुंवद्भावप्रतिषेधः वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे (6.3.39) इति,स वुन्यपि लभ्यत एव न कोपधायाः (6.3.37) इति। संज्ञेषः इत्यादिना, यदुक्तम् - ननु च वासुदेवशब्दाद्गोत्रक्षत्रियाख्येभ्यः (4.3.99) इति वुञस्त्येव` इति, तन्निराकरोति। गोत्रक्षत्त्रियाख्येभ्यो वुञ् विधीयते। न च वासुदेवशब्दो गोत्राख्यं प्रातिपदिकम्, नापि क्षत्त्रियाख्यम्, तत्कुतो इत्यनेन अल्पाच्तरम् (2.2.34) इत्यनेन वार्जुशब्दस्य पूर्वनिपातमकुर्वतैतद्विज्ञापितम् -अभ्यर्हितं पूर्वं निपतति। तेन मातापितरौ, श्रद्धमेधे, दीक्षातपसी - इत्यत्र शास्त्रादेवाभ्यार्हितस्य पूर्वनिपातः सिद्धो भवति। अभ्यर्हितत्वं तु वासुदेवशब्दस्य देवताविशेषत्वात्॥
Prakriyasarvasvam¶
वासुदेवकोऽहम् । अर्जुनकः ॥