43098: वासुदेवार्जुनाभ्यां वुन् =============================== **Padacheda:** वासुदेव-अर्जुनाभ्याम् | S | 5 | 2 | वुन् | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix वुञ् comes in the sense of 'this is his object of veneration' after the words 1. वासुदेव and अर्जुना। Vasu English Translation ------------------------ The affix वुञ् comes in the sense of 'this is his object of veneration' after the words 1. वासुदेव and अर्जुना। This debars छ and अण् ॥ Thus वासुदेवकः, अर्जुनकः ॥ Q. The word वासुदेव being the name of a *Kshatriya* would have taken by the next *sutra*, and there is no difference here between वुन् and वुञ्, why then include the word वासुदेव in this *sutra*? A. The word वासुदेव here is the name of God (in which all dwell वसति अस्मिन्) and not the designation of a *Kshatriya*. By the general rule of compounds (2.2.34) a word of fewer vowels is placed first, and so *Arjuna* ought to have been placed first. The not doing so in this *sutra* indicates (*jnapaka*) the existence of this rule 'that a word denoting an object of reverence is placed first. ' Bhashya ------- वासुदेवार्जुनाभ्यां वुन् (1668) (वुनोऽधिकरणम्) (वुनि -आक्षेपभाष्यम्) किमर्थं वासुदेवशब्दाद्वुन् विधीयते, न गोत्रक्षत्रियाख्येभ्यो बहुलं वुञ्ञ् (4.3.99) इत्येव सिद्धम्? न ह्यस्ति विशेषो वासुदेवशब्दाद् वुनो वा वुञ्ञो वा। तदेव रूपं स एव स्वरः॥ (आक्षेपनिराकरणभाष्यम्) इदं तर्हि प्रयोजनम् -वासुदेवशब्दस्य पूर्वनिपातं वक्ष्यामीति। अथ वा नैषा क्षत्रियाख्या। संज्ञैषा तत्र भवतः॥ Kashika ------- वासुदेवार्जुनशब्दाभ्यां वुन् प्रत्ययो भवति सोऽस्य भक्तिरित्येतस्मिन् विषये। छाणोरपवादः। वासुदेवो भक्तिरस्य वासुदेवकः। अर्जुनकः। ननु च वासुदेवशब्दाद् **गोत्रक्षत्रियाख्येभ्यः०** (४.३.९९) इति वुञस्त्येव। न चात्र वुन्वुञोर्विशेषो विद्यते, किमर्थं वासुदेवग्रहणम्? संज्ञैषा देवताविशेषस्य न क्षत्रियाख्या। **अल्पाच्तरम्** (२.२.३४) **अजाद्यदन्तम्** (२.२.३३) इति वा अर्जुनशब्दस्य पूर्वनिपातमकुर्वन् ज्ञापयति — अभ्यर्हितं पूर्वं निपततीति॥ Siddhanta Kaumudi ----------------- वासुदेवकः । अर्जुनकः ॥ Balamanorama ------------ **वासुदेवार्जुनाभ्यां वुन्** - वासुदेव ।सोऽस्य भक्ति॑रित्येव । वासुदेवक इति । वासुदेवो भक्तिरस्येति विग्रहः । एवमर्जुनकः । ननु वसुदेवस्यापत्य॑मित्यर्थेऋष्यन्धकवृष्णिकुरुभ्यश्चे॑ति वाष्र्णेयत्वादणि वासुदेवशब्दात्गोत्रक्षत्रियाख्येभ्यो बहुलं वु॑ञिति वुञैव सिद्धत्वाद्वासुदेवग्रहणं व्यर्थमिति चेत्, सत्यम्, अणन्तो वासुदेवशब्दोऽत्र न गृह्रते किंतु यस्मिन्समस्तं वसति, यो वा समस्ते वसति स वासुः स चासौ देवश्चेति व्युत्पत्त्या वासुदेवशब्दोऽयं भगवति योगरूढ एवेति न दोषः । उक्तच भाष्ये-॒नैषा क्षत्रियाख्या, संज्ञैषा तत्रभवतः॑ इति । Tattvabodhini ------------- **वासुदेवार्जुनाभ्यां वुन्** - वासुदेवार्जुनाभ्यां बुन् । छाऽणोरपवादः ।अजाद्यदन्तम्,अल्पाच्तर॑मिति सूत्राभ्यामर्जुनस्य पूर्वनिपाते प्राप्ते तस्याऽकरणंसर्वतोऽभ्यर्हितं पूर्वं निपतती॑ति ज्ञापनार्थम् । ननु वसुदेवस्यापत्यमित्यर्थेऋष्यन्धके॑त्यणि वासुदेवशब्दो निष्पन्नः । तथा च तत्रगोत्रक्षत्रियाख्येभ्यः॑इत्युत्तरसूत्रेण वुञेवाऽस्तु , किमनेन वुना । न ह्यत्र वृद्धौ विशेष, प्रागेव वृद्धत्वात् । न चवृद्धिनिमित्तस्ये॑ति पुंवद्भावनिषेधो दोषः स्यादिति वाच्यं, वुन्यपिन कोपधायाः इति नि,#एधस्येष्यमाणत्वात् । न वा स्वरे विशेषः,ञ्नित्यादिर्नित्य॑मिति तुल्यस्वरत्वात् । नापिअभ्यर्हितं पूर्व॑मिति ज्ञापनमेव तत्फलमिति वाच्यं, तथात्वे हि पूर्वनिपातप्रकरणेअभ्यर्हित॑मित्येव लाघवात्कुर्यादिति चेत् । अत्र भाष्यं -॒संज्ञैषा भगवतः॑इति । अयं भावः -॒सर्वत्रासौ समस्तं च वसत्यत्रेति वै यतः । ततोऽसौ वासुदेवेति विद्वद्भिः परिगीयते ।॑इति स्मृतेः परमात्मा इह वासुदेवः । सर्वत्रासौ वसति, सर्वमत्र वसतीति वा व्युत्पत्त्या वासुः । बाहुलकादुण् । वासश्चासौ देवश्चेति विग्रङः । तथा च नेयं गोत्राख्या, नापि क्षत्रियाख्येति युक्त एव विन्विधिः ।भ्यर्हितं पूर्व॑मिति तु प्रसङ्गाज्ज्ञापितं । तदप्यनित्यंआयुवमघोना॑मित्यादिलिङ्गादित्यवधेयम् । Padamanjari ----------- छाणोरपवाद इति ।'वासुदेवशब्दः संज्ञा' इति वक्ष्यति, तेन तत्रोतरस्य वुञोऽप्राप्तिः । अर्जुनशब्दोऽपि यो वृक्षविशेषवचनो वणविशेषवचनो वा, न तत्र वुञः प्राप्तिः; क्षत्रियवचनादपि बहुलवचनाद् वुञोऽप्राप्तिरेवेति भावः । ननु चेत्यादि । वसुदेवस्यापत्यम्, ठृष्यन्धकवृष्णिकुरुभ्यश्चऽ इत्यण् । न चात्रेति । न तावद् वृद्धौ विशेषः; प्रागेव वृद्धत्वात् । योऽपि'वृद्धिनिमितस्य' इति पुंबद्भावप्रतिषेधः, सोऽस्यापि'न कोपधायाः' इत्यसत्येव । संज्ञेषा देवताविशेषस्येति । वसत्यस्मिन्सर्वमिति व्युत्पत्या परमात्मन एषा संज्ञा । न क्षत्रियाख्येति । उपलक्षणमेततत्, नापि गोत्राशख्येत्यपि द्रष्टव्यम् । प्रासङ्गिकं प्रयोजनान्तरं वासुदेवग्रहणस्य दर्शयति - अजाद्यदन्तम्, अल्पाच्तरमिति चेति । इतिकरणः प्रत्येकमभिसम्बद्ध्यते । यद्यप्येतज्ज्ञाप्यते, तथापि'श्वयुवमघोनामतद्धिते' इति निर्देशात्क्वचिदन्यथापि भवति ॥ Nyaas ----- वासुदेवशब्दाद्वृद्धाच्छस्यापवादः। अर्जुनशब्दादौत्सर्गिकस्याणः। ननु चार्जुनशब्द क्षत्त्रियाख्यः,तस्मादुत्तरसूत्रेण प्राप्तस्य वुञोऽपवादो युक्तः? एवं मन्यते - बहुलग्रहणं तत्र क्रियते, तेनार्जुनशब्दाद्नुञ्प्रत्ययस्य प्राप्तिरेव नास्ति, तस्मादस्मादणेव स्यात्, अतस्तदपवादो न्याय्यः।`ननु च` इत्यादि चोद्यम्। स्यादेतत् - वुञ्वुनोर्विशेषोऽस्ति, अतो वासुदेवशब्दाद्वुन् विधीयते? इत्याह - `न चात्र` इत्यादि। वासुदेवशब्दस्य च वुञि वुनि वा सति नास्ति कश्चिद्विशेष इति। तथा ह्रुभयत्र तदेवरूपम्, स एव स्वरः। योऽपि वुञि सति पुंवद्भावप्रतिषेधः **वृद्धिनिमित्तस्य च तद्धितस्यारक्तविकारे** (6.3.39) इति,स वुन्यपि लभ्यत एव **न कोपधायाः** (6.3.37) इति। `संज्ञेषः` इत्यादिना, यदुक्तम् - `ननु च वासुदेवशब्दाद्गोत्रक्षत्रियाख्येभ्यः` (4.3.99) इति वुञस्त्येव` इति, तन्निराकरोति। गोत्रक्षत्त्रियाख्येभ्यो वुञ् विधीयते। न च वासुदेवशब्दो गोत्राख्यं प्रातिपदिकम्, नापि क्षत्त्रियाख्यम्, तत्कुतो इत्यनेन `अल्पाच्तरम्` (2.2.34) इत्यनेन वार्जुशब्दस्य पूर्वनिपातमकुर्वतैतद्विज्ञापितम् -अभ्यर्हितं पूर्वं निपतति। तेन मातापितरौ, श्रद्धमेधे, दीक्षातपसी - इत्यत्र शास्त्रादेवाभ्यार्हितस्य पूर्वनिपातः सिद्धो भवति। अभ्यर्हितत्वं तु वासुदेवशब्दस्य देवताविशेषत्वात्॥ Prakriyasarvasvam ----------------- वासुदेवकोऽहम् । अर्जुनकः ॥