43097: महाराजाट्ठञ्¶
Padacheda: महाराजात् | S | 5 | 1 |
ठञ् | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
The affix ठञ् comes in the sense of ‘this is his object of veneration’ after the word महाराज।
Vasu English Translation¶
The affix ठञ् comes in the sense of ‘this is his object of veneration’ after the word महाराज। This debars अण् ॥ As मा꣡हाराजिकः ‘who loves or serves the Maharaja’. The difference between this ठञ् and the ठक् of the last aphorism, is in accent only.
Kashika¶
महाराजशब्दाट् ठञ् प्रत्ययो भवति सोऽस्य भक्तिरित्येतस्मिन् विषये। अणोऽपवादः। महाराजो भक्तिरस्य माहाराजिकः। प्रत्ययान्तरकरणं स्वरार्थम्॥
Siddhanta Kaumudi¶
माहाराजिकः ॥
Balamanorama¶
महाराजाट्ठञ् - महाराजाट्ठञ् ।सोऽस्य भक्तिरित्यर्थे॑ इति शेषः । माहाराजिक इति । महाराजो भक्तिरस्येति विग्रहः ।
Nyaas¶
ननु च पूर्वसूत्रादेव ठगनुवर्तिष्यते, तेनापि हि महांराजिक इति सिध्यत्येव, तत्कथं ठञ् प्रत्ययान्तरं क्रियते? इत्याह - प्रत्यययान्तरकरणम् इत्यादि। ञित्स्वरेणाद्युदात्तत्वं यथा स्यादिति प्रत्ययान्तरकरणम्। ठकि हि सति तद्धितस्य कितः (6.1.159) इत्यन्तोदात्तत्वं स्यात्॥बाल-मनोरमासुधातुरकङ् च 1081, 4.3.99 सुधातुरकङ् च। चादिञिति। सुधातृशब्दात्षष्ठन्तादपत्येऽर्थे इञ्प्रत्ययः, प्रकृतेरकङादेशश्चेत्यर्थः। अकङो ङकार इत्, अकार उच्चारणार्थः। ङिच्चे`त्यन्तादेशः। तदाह -सौधातकिरिति।व्यासेति। व्यास, वरुड, निषाद, चण्डाल, बिम्ब-एभ्यश्च इञि प्रकृतेरकङादेश इत्यर्थः। बाल-मनोरमामहाराजाट्ठञ् 1456, 4.3.99 महाराजाट्ठञ्। `सोऽस्य भक्तिरित्यर्थे इति शेषः। माहाराजिक इति। महाराजो भक्तिरस्येति विग्रहः।
Prakriyasarvasvam¶
महति राजनि कुबेरे वा भक्तो माहाराजिकः ॥