43096: अचित्ताददेशकालाट्ठक्

Padacheda: अ-चित्तात् | S | 5 | 1 |

अ-देश-कालात् | S | 5 | 1 |

ठक् | S | 1 | 1 |

Sutrartha


Vasu English Summary

After a word denoting a thing not having consciousness, but not being the name of a country or time, the affix ठक् is used in the sense of ‘this is his object of devotion or love’.

Vasu English Translation

After a word denoting a thing not having consciousness, but not being the name of a country or time, the affix ठक् is used in the sense of ‘this is his object of devotion or love’. This debars अण्; and छ also. Thus अपूपाभक्तिरस्य = आपूपिकः꣡ ‘a person who loves cakes’. शाष्कुलिकः꣡, पायसिकः꣡ ॥

Why do we say ‘not having consciousness’? Observe दैवदत्तः꣡ ॥ Why do we say ‘not being the name of a country’? Observe स्रौघ्नः꣡ ॥ Why do we say ‘not denoting time’? Observe ग्रैष्मः꣡ ‘who loves Summer’.

Kashika

देशकालव्यतिरिक्तादचित्तवाचिनः प्रातिपदिकाट् ठक् प्रत्ययो भवति सोऽस्य भक्तिरित्येतस्मिन् विषये। अणोऽपवादः। वृद्धाच् छं परत्वाद् बाधते। अपूपो भक्तिरस्य आपूपिकः। शाष्कुलिकः। पायसिकः। अचित्तादिति किम् ? दैवदत्तः। अदेशादिति किम् ? स्रौघ्नः। अकालादिति किम् ? ग्रैष्मः॥

Siddhanta Kaumudi

आपूपा भक्तिरस्य आपूपिकः । पायसिकः । अचित्तात्किम् । दैवदत्तः । अदेशात्किम् । स्रौघ्नः । अकालात्किम् । ग्रैष्मः ॥

Balamanorama

अचित्ताददेशकालाट्ठक् - अचित्ताददेश । देशकालव्यतिरिक्ताऽप्राणिवाचिनः ठक्स्यादुक्तविषये । अपूपाः भक्तिरिति । सामान्याभिप्रायं भक्तिरित्येकवचनं,वेदाः माण॑मितिवत् । पायसिक इति । पयो भक्तिरस्येति विग्रहः ।

Padamanjari

अचितवाचिन इति । स्वरूपग्रहणं तु न भवति, देशकालप्रतिषेधात् । तत्साहचर्यादेशकालयोरपि स्वरूपग्रहणं न भवति ॥

Nyaas

ननु च देशकालयोरचित्तयोः प्रतिषेधान्नञिवयुक्तन्यायेन (व्या।प।65) प्रकृतिचेतनैव विज्ञास्यते, तत्किमचित्तग्रहणेन? नैतदस्ति; विना हि तेनादेशकालादिति न ज्ञायते - किमयं प्रकृतिनिर्देशः, उत देशकालयोः प्रतिषेध इति? तत्रानिष्टमपि विज्ञायते - अदेशशब्दात् , कालशब्दाच्चेति। अचित्तग्रहणे तु सति तेनातिप्रसङ्गे सत्यदेशकालादिति प्रतिषेधो विज्ञायते। अस्मादेव च प्रतिषेधादचित्तादिति स्वरूपग्रहणं न भवति। स्वरूपग्रहणे हि देशकालाभ्यां प्रसङ्गो प्रतिषेधं न कुर्यात्॥

Prakriyasarvasvam

देशकालवर्जितादचेतनादुक्तेऽर्थे ठक् । अपूपो भक्तिरस्य, आपूपिकः । पायसिकः । देशकालाभ्यां तु माथुरः । ग्रैष्मः ॥