43095: भक्तिः¶
Padacheda: भक्तिः | S | 1 | 1 |
Sutrartha¶
Vasu English Summary¶
An affix – प्राग्दीव्यतोऽण् (4.1.83), comes after a word in the Nominative 1st-Case in construction in the sense of ‘this is his object of veneration or love’.
Vasu English Translation¶
An affix – प्राग्दीव्यतोऽण् (4.1.83), comes after a word in the Nominative 1st-Case in construction in the sense of ‘this is his object of veneration or love’. The word भक्ति in the sutra means ‘serving’, ‘worshipping’ or ‘loving’.
Thus स्रुघ्नो भक्तिरस्य = स्रौघ्नः ‘a person who is loyal to Srughna’. So also माथुरः, राष्ट्रियः &c.
The anuvritti of the word अभिजनः ceases. The word सः and अस्य should be read into the sutra.
Kashika¶
समर्थविभक्तिः प्रत्ययार्थश्चानुवर्तते। अभिजन इति निवृत्तम्। स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं भक्तिश्चेत् तद् भवति। भज्यते सेव्यत इति भक्तिः। स्रुघ्नो भक्तिरस्य स्रौघ्नः। माथुरः। राष्ट्रियः॥
Siddhanta Kaumudi¶
सोऽस्येत्यनुवर्तते । भज्यते सेव्यते इति भक्तिः । स्रुघ्नो भक्तिरस्य स्रौघ्नः ॥
Balamanorama¶
भक्तिः - भक्तिः । अनुवर्तते इति । सोऽस्य भक्तिरित्यर्थे प्रथमान्तात्प्रत्ययाः स्युरित्यर्थः ।
Nyaas¶
भज्यते सेव्यत इति भक्तिः इति। भज सेवायाम् (धातुपाठः-998) इत्येतस्मात् कर्मसाधनः क्तिन्॥
Prakriyasarvasvam¶
कर्मणि क्तिन् । सोऽस्य सेव्य इत्यर्थेऽणादिः । विष्णुर्भक्तिरस्य, वैष्णवः । पाशुपतः । स्त्रैणः ॥
Sutra Prayogas¶
सौगतानाम् (शिशुपालवधम्): भक्तिः इत्यण्प्रत्ययः।