43095: भक्तिः ============= **Padacheda:** भक्तिः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- An affix -- प्राग्दीव्यतोऽण् (4.1.83), comes after a word in the Nominative 1st-Case in construction in the sense of 'this is his object of veneration or love'. Vasu English Translation ------------------------ An affix -- प्राग्दीव्यतोऽण् (4.1.83), comes after a word in the Nominative 1st-Case in construction in the sense of 'this is his object of veneration or love'. The word भक्ति in the *sutra* means 'serving', 'worshipping' or 'loving'. Thus स्रुघ्नो भक्तिरस्य = स्रौघ्नः 'a person who is loyal to *Srughna*'. So also माथुरः, राष्ट्रियः &c. The *anuvritti* of the word अभिजनः ceases. The word सः and अस्य should be read into the *sutra*. Kashika ------- समर्थविभक्तिः प्रत्ययार्थश्चानुवर्तते। अभिजन इति निवृत्तम्। स इति प्रथमासमर्थादस्येति षष्ठ्यर्थे यथाविहितं प्रत्ययो भवति, यत् प्रथमासमर्थं भक्तिश्चेत् तद् भवति। भज्यते सेव्यत इति भक्तिः। स्रुघ्नो भक्तिरस्य स्रौघ्नः। माथुरः। राष्ट्रियः॥ Siddhanta Kaumudi ----------------- सोऽस्येत्यनुवर्तते । भज्यते सेव्यते इति भक्तिः । स्रुघ्नो भक्तिरस्य स्रौघ्नः ॥ Balamanorama ------------ **भक्तिः** - भक्तिः । अनुवर्तते इति । सोऽस्य भक्तिरित्यर्थे प्रथमान्तात्प्रत्ययाः स्युरित्यर्थः । Nyaas ----- `भज्यते सेव्यत इति भक्तिः` इति। `भज सेवायाम्` (धातुपाठः-998) इत्येतस्मात् कर्मसाधनः क्तिन्॥ Prakriyasarvasvam ----------------- कर्मणि क्तिन् । सोऽस्य सेव्य इत्यर्थेऽणादिः । विष्णुर्भक्तिरस्य, वैष्णवः । पाशुपतः । स्त्रैणः ॥ Sutra Prayogas -------------- * **सौगतानाम्** (शिशुपालवधम्): `भक्तिः` इत्यण्प्रत्ययः।