43088: शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः ================================================ **Padacheda:** शिशुक्रन्द-यमसभ-द्वन्द्व-इन्द्रजनन-आदिभ्यः | S | 5 | 3 | छः | S | 1 | 1 | Sutrartha --------- **** Vasu English Summary -------------------- The affix छ comes in the sense of 'a book made relating to a subject' after the following words in the Accusative -2nd case in construction viz. 1. शिशुक्रन्द 2. यमसभ , the द्वन्द समास and the words इन्द्रजनन etc. Vasu English Translation ------------------------ The affix छ comes in the sense of 'a book made relating to a subject' after the following words in the Accusative -2nd case in construction viz. 1. शिशुक्रन्द 2. यमसभ , the द्वन्द समास and the words इन्द्रजनन etc. The word तद् (4.3.85) and अधिकृत्य कृते ग्रन्थे should be read into the *sutra*. This debars अण् ॥ Thus शिशुक्रन्दीयः 'a book treating of the crying of infants.' यमसभः 'a book relating to the court of *Yama*'. A *Dvandva*-Compound: as, अग्निकाश्यपीयः, श्येनकपोतीयः, शब्दार्थसंबन्धीयम् प्रकरणं, वाक्यपदीयम् ॥ There is no list of इन्द्रजननादि words. They are *akritigana*, and must be determined by usage. Thus इन्द्रजननीयम्, प्रद्युम्नागमनीयम् &c. Vart:- Prohibition should be stated in the case of the *Dvanda*-Compounds देवासुर &c. As दैवासुरम् 'the book of the wars of the Gods and Demons.' राक्षोसुरम् गौणमुख्यम् ॥ The words शिशुक्रान्त and यमसभ might have been included in the inchoate class इन्द्रजननादि ॥ The separate enumeration of these words in the *sutra*, is merely for the sake of amplification. Bhashya ------- शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः (1658) (5496 द्वन्द्वे विशेषबोधकवार्तिकम्॥ 1 ॥) - द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः - (भाष्यम्) द्वन्द्वे देवासुरादिभ्यः प्रतिषेधो वक्तव्यः। दैवासुरम्, राक्षोऽसुरम्। दैवासुरी, राक्षोऽसुरी॥ Kashika ------- तदित्येव। अधिकृत्य कृते ग्रन्थ इति च। शिशुक्रन्दादिभ्यो द्वितीयासमर्थेभ्यश्छः प्रत्ययो भवत्यधिकृत्य कृते ग्रन्थे। अणोऽपवादः। शिशूनां क्रन्दनं शिशुक्रन्दः। तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः। यमस्य सभा यमसभम् यमसभीयः। द्वन्द्वात् — अग्निकाश्यपीयः। श्येनकपोतीयः। शब्दार्थसंबन्धीयं प्रकरणम्। वाक्यपदीयम्। इन्द्रजननादिभ्यः — इन्द्र — जननीयम्। प्रद्युम्नागमनीयम्। इन्द्रजननादिराकृतिगणः प्रयोगतोऽनुसर्तव्यः, प्रातिपदिकेषु न पठ्यते॥ द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः॥ दैवासुरम् । राक्षोऽसुरम्। गौणमुख्यम्। इन्द्रजननादेराकृतिगणत्वात् शिशुक्रन्दादयोऽपि तत्रैव द्रष्टव्याः। प्रपञ्चार्थमेषां ग्रहणम्। एवं सति देवासुरादिप्रतिषेधोऽपि न वक्तव्यः, ततश्छप्रत्ययस्यादर्शनात्॥ Siddhanta Kaumudi ----------------- शिशूनां क्रन्दनं शिशुक्रन्दः, तमधिकृत्य कृतो ग्रन्थः शिशुक्रन्दीयः । यमस्य सभा यमसभम् । क्लीबत्वं निपातनात् । यमसभीयः । किरातार्जुनीयम् । इन्द्रजननादिराकृतिगणः । इन्द्रजननीयम् । विरुद्धभोजनीयम् ॥ Balamanorama ------------ **शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः** - शिशुक्रन्द । शिशुक्रन्द, यमसभ, द्वन्द्व, इन्द्रजननादि एभ्यश्छः स्यादधिकृत्य कृते ग्रन्थे इत्यर्थे । निपातनादिति ।सभा राजे॑ति तु नपुंसकत्वं न भवति, तत्रअमनुष्यशब्दो रूढआ रक्षःपिशाचादीनाहे॑त्युक्तेरिति भावः । Tattvabodhini ------------- **शिशुक्रन्दयमसभद्वन्द्वेन्द्रजननादिभ्यश्छः** - शिशुक्रन्द । अत्र वार्तिकं — ॒द्वन्द्वे देवासुरादिभ्यः प्रतिषेधः॑ । दैवासुरम् । राक्षोसुरम् । निपातनादिति ।सभा राजे॑ति सूत्रेअमनुष्यशब्दो रुढआ रक्षःपिशाचादीनाहे॑त्युक्तत्वात्तेन सूत्रेण क्लीबत्वं न सिध्यतीति भावः । Padamanjari ----------- इन्द्रजननादिराकृतिगण इति । तेन'विरुद्धभोजनीयमध्यायं व्याख्यास्यामः' इति सिद्धं भवति ॥ Nyaas ----- `यमसभम्` इति। `सभाराजा` (2.4.23) इत्यादिना नुपंसकलिङ्गता। यदीन्द्रजननादावेव शिशुक्रन्दादयो द्रष्टव्याः,तत्किमर्थं पृथग्ग्रहणम्? इत्यत आह - `प्रपञ्चार्थम्` इत्यादि। `एवञ्च सति` इत्यादि। चशब्दो हेतौ। यस्मादिन्द्रजननादेराकृतिगणस्य तदन्तर्भूतानामेव शिशुक्रन्दादीनां प्रपञ्चार्थं ग्रहणम्; तस्मादेवमर्थऽस्मिन् स्थिते देवासुरादीनां प्रतिषेधो न वक्तव्यः, प्राप्त्यभावात्। येभ्य एव च्छप्रत्ययोऽयं दृश्यते, त एवेन्द्रजननादयः, न च देवासुरादिभ्यो दृश्यते॥ Prakriyasarvasvam ----------------- शिशुक्रन्दयमसभशब्दाभ्यां द्वन्द्वसमासादिन्द्रजननादेश्चोक्तेऽर्थे छः स्यात् । शिशूनां क्रन्दनविषयो ग्रन्थः शिशुक्रन्दीयः । यमसभीयः । द्वन्द्वात्—किरातार्जुनीयम् । दैवासुरं राक्षोसुरमित्यादौ छो नेष्टः । इन्द्रजननीयम् । सीतान्वेषणीयम् । प्रद्युम्नागमनीयम् इत्याद्याकृतिगणः ॥ Vartika ------- द्वन्द्वे देवासुरादिभ्यः प्रतिषेधो वक्तव्यः ।